________________
केशवकृतः कल्पद्रुकोशः धौतकुष्ठं टिटटिभं स्त्री 'दुद्रुरलसमित्यपि । दबुर्दद्रुश्चापि दर्दूः कोठो नाकण्डुरित्यपि ॥३३६॥ कच्छूः कण्डूश्च कण्डूतिः खर्जूः कण्डूयनं च षण् । पीतस्फोटे पाम पामा सूक्ष्म स्फोटे विचर्चिका ॥३४०॥ क्षुद्रस्फोटे चञ्चिका स्यान्मसूराभा मसूरिका । संचारिसुण्डिका' स्फोटे पिटको विटकस्त्रिषु ॥३४१॥ विस्पोटः स्फोटकश्चन्द्रलुप्तः केशन इत्यपि । महाकुष्ठे चर्मदलं पुण्डरीकं शतारुकम् ॥३४२॥ काकनं पित्तकुष्ठं च कुष्ठान्यष्टादशैव हि । अथ षष्टिमिताः क्षुद्रुरोगाः पनसिकादिकाः ॥३४३॥ मसूरिकान्तास्तेषु स्याज्ज्वालागर्दभकार्थकः । अम्लपित्तं विसर्पाह्न उदर्दो वातशोणितम् ॥३४४॥ इत्थं भूयो रोगभेदा अथ वातोद्भवा गदाः । आक्षेपकं हनूस्तम्भ इत्याद्या श्रथ पित्तजाः ॥३४५॥ धूमोद्गारादयस्ते स्युश्चत्वारिंशदथापरे। . कफजा" अतिनिद्राद्या विंशतिस्ते प्यथापरे ॥३४६॥ रक्तोद्भवा गौरवाद्यास्ते दशाथ मुखोद्भवाः । ते चतुःसप्ततिमितास्तेषु दन्तोद्भवा दश ॥३४७॥
१ दुडु २ सूचमा ३ चिचिका CB संचारीश्चुरीशु ५ विकटKB ६ लुकम ७ काननं ८ दमःB विपर्याह्न १० कफजाः स्पुनिद्राचा