________________
केशवकृतः कल्पद्रुकोशः हृद्रोगो. हृद्गते शूलेऽथोदराण्युदरामये। जलोदरोथ जृम्भा स्याजम्भिका जृम्भणं च षण ॥३३०॥ मान्यालस्ये' मन्दता स्यात् कार्यप्रद्वेष इत्यपि । श्रामो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥३३१॥ गुल्मस्तु जाठरो ग्रन्थिः पृष्ठ ग्रन्थिर्गदुर्भटः। मूत्राघात। मूत्रवम॑रोधेथ मूत्रकृच्छके ॥३३२॥ कृच्छं स्त्रियामश्मरी स्यात् प्रमेहो मेह इत्यपि । मूत्रदोषः सेोमरोगः प्रमेहपिटकाः पुनः ॥३३३॥ मेदोदोषोपि शोथोऽस्त्री शोफः स्यात् श्वयथुः पुमान् । श्रन्त्रवृद्धिगण्डमाला अर्बुदं स्यात्ततः पुनः ॥३३४॥ अस्त्रियां पादवल्मीकं श्लीपदं पादगण्डिरः। विद्रधी विद्रधिः स्त्रीस्याद्गन्थिह दवणश्च सः ॥३३५॥ ब्रो भगप्रदेशोत्थः स च पुंसि भगंदरः। .. सद्योव्रणः कोष्ठभेदः पुंसि नाडीव्रणेऽपि च ॥३३६॥ लिङ्गोपदंशा लिङ्गास्यिथ कुष्ठभिदाः क्रमात् । कुष्ठं श्वित्रमुभे क्लीबे कोठो दुश्चर्मकं पुनः ॥३३७॥ कापालिकौदुम्बरे च मण्डलं त्रिषु चर्चिका । तद्वत्त्वक्पलिकं च स्यात्पादस्फोटो विपादिका ॥३३८॥
१ मोद्यालस्पे२ ग्रन्थौगडु पुमान्KC ३ कापालिकोदुम्बरे च अस्त्रियां पारवल्मिकम् श्लीपदंपादगण्डीरः विद्रधीविद्रधिस्त्रियाम: ४ फलिका