________________
५२
केशवकृतः कल्पद्रुकोशः वस्त्रव्यस्यः पुमानस्त्री प्रार्थ्यश्चञ्चल इत्यपि । अष्टहस्तपरिमाणं परिधानतमं महत् ॥२८५॥ सदशं क्षालितं शिष्टैस्तद्धौत्रं पोत्रमप्यणु । स्नानङ्ग प्रोञ्छने पोत्रमंगोलोंगो छनं च षण ॥२८६॥ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ।। नवं वासोऽनाहतं स्यादहतं तन्त्रकं पुनः ॥२८७॥ "निःप्रवणंछ निःप्रवाणिस्तद्वस्तु सकलं त्रिषु । पटच्चरो जीर्णवस्त्रं संव्यानं तूत्तरीयकम् ॥२८८॥ प्रच्छादनं प्रावरणं वराशिः स्थूलशाटकः । वैकक्ष उत्तरासङ्गः प्रावारो बृहती स्त्रियाम् ॥२८॥ परिधानं परीधानमन्तरीयमधोंशुकम् । अपि स्यादुपसंव्यानं तथापि वसनं पुनः ॥२६॥ तग्रन्थिस्तु स्त्रियां नीविर्नीवी नोच्चय इत्यपि । अोरुकं चलनकं स्याञ्चण्डातकमंशुकम् ॥२६१॥ सभर्तृकाणामन्यासां चलनीति निगद्यते । शाटीचोट्यौ स्त्रियां पुंसि कूर्पासश्चोलको द्वयोः॥२६२॥ अस्त्रियां कञ्चुकोऽपि स्यात्रिषु स्यादपि कञ्चुली । अङ्गिका कटिबन्धे तु परेः प्रात्स्यात्करः पुमान् ॥२६३॥
४ निष्प्रवणं निष्प ५ कञ्चुला ६ प्राकB
डोनBS २ प्रोक्षBC ३ * मैथिल spelling