________________
केशवकृतः कल्पद्रुकोशः ५३ पल्लवादियुतः सोऽपि पटः प्रच्छादनी द्वयोः । द्विवस्त्रा द्विपटी तद्धिमवातसहशुके ॥२६४॥ नीसारोथ निचोलस्तु निचुल्यश्चोत्तरच्छदः । अपि स्यात्प्रच्छदपटः क्लीबे निचुलकं पुनः ॥२६५॥ कञ्चुकं' वारवाणो ना यामस्तूलयुतोप्यथ । द्वयोः कच्छाटिका कच्छपटः कौपीनमित्यपि ॥२६६॥ कक्षा स्त्री कर्पटः पुंसि परिधाने परोञ्चलः । उत्सवादौ सुहृद्भिर्यद्वलादाकृष्य गृह्यते ॥२६७॥ वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् । तदेवाप्रपदीनं स्याद्वयाप्नोत्याप्रपदं हि यत् ॥२६॥ चीवरं भिक्षुसंघाटी समौ नक्तककर्पटौ। ऊर्मिका स्यात् स्त्रियां वस्त्रभङ्गशब्देऽस्य मर्मरः॥२६॥ प्रतिसीरा जवनिका तिरसः करिकारिणी । अपटी स्यापुमान्काण्ड पटो थोल्लोच इत्यपि ॥३०॥ चन्द्रोदयश्च कटको वितानं पुनपुंसकम् । क्लीबे स्थुलं पट्टमयं दृष्यं यद्वस्त्रवेश्म च ॥३०१॥ पटवासः खरगृहं केणिकं पटकुट्यपि । स्याद्गुणलयनि कार्या रज्जुवंशादि संभवे ॥३०२॥
७ कोपाक
१ कन्चुकोKs २ छा ३ पराKS ४ पटेKCB ५ दरको वै. ६ तत् ८ काया , संगते