________________
केशवकृतः कल्पद्रुकोशः ४६ क्लीबे ग्रैवेयकं चापि लम्बमाना'ललन्तिका । प्रालम्बिका कृता हेम्नोरः सूत्रिका तु मौक्तिकैः॥२५८ ॥ कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि । स्त्यावली स्रग्लता' यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥२५॥ देवच्छन्दः शतं सायमिन्द्रच्छन्दः सहस्रकम् । तदर्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥२६०॥ अर्द्ध रश्मिकलापोस्य दशभिश्चार्द्धमाणवः । द्विादशोर्द्धगुच्छः स्यात्पञ्चहारफलं लता ॥२६१॥ अर्द्धहारश्चतुः षष्टिणुच्छमाणवमन्दिराः । अपि गोस्तनगोपुच्छावर्द्धमर्द्ध यथोत्तरम् ॥२६२॥ इति हारा यष्टिभेदैरेकावल्येकयष्टिका। कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ॥२६३॥ क्लीबेऽङ्गदं तु केयूर बाहुपर्यायभूषणम् । अावापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥२६४॥ कङ्कणं न स्त्रियां तद्वदंगुलीयकमूर्मिका । साक्षराङ गुलिमुद्रा स्यात् करारोहः पुमानथ ॥२६५॥ क्लीबे सारसनं काञ्ची सैव स्यात्कटिमेखला । संसप्तकी च रसना कटिपर्यायनाटिका ॥२६६॥
१ललम्बिकाB २ अद्धरश्मिB ३ गुच्छा ४ करो" ५ सांसप्रकीB ६ कोटिBC