________________
केशवकृतः कल्पद्रुकोशः पुंस्याकल्पो वेषवेशावपि भूषणमस्त्रियाम् । स्यान्नेपथ्यमपि क्लीबे प्रतिकर्म प्रसाधनम् ॥२४६॥ अस्त्री किरीटं मुकुटमुष्णीषमवतंसकम् । कोटीरमपि कौटीरस्तथैव शेखरोऽपि च ॥२५०॥ श्रापीडः पंसि मौलिः स्याद्वेष्टनं षणतः पुनः । मणी तत्रैव खचित पुंसि चूडार्थतो मणिः ॥२५१॥ अपि क्लीबे शिरोरत्नं तरलो हारमध्यगः । मूर्ध्नि माल्यं तु षण् दाम शीर्षकं' शिरसः स्रजि ॥२५२॥ स्रक स्त्रियां मालिका माला गर्भकः केशमध्यगम् । प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललाम तत् ॥२५३।। तियंग्वक्षसि वैकक्ष प्रालम्बमृजु तत्समम् । श्रन्थनं ग्रन्थनं पुंसि प्रारम्भो रचना स्त्रियाम् ॥२५४॥ परिपूर्णत्वमाभोगः कर्णपूरस्तु न स्त्रियाम् । स्त्रियां पत्राल्लताभङ्गिः पाश्यापि स्याल्ललाटिका ॥२५५॥ पारिपाश्या पारितथ्या कर्णिका कर्णभूषणम् । कर्णादर्शः कर्णवेष्टस्ताटङ्कः पुंसि कुण्डलम् ॥२५६॥ अस्त्रियां ताडपत्रं स्त्री कर्णान्दुः कर्णवालिका । उत्क्षिप्तिका च कर्णान्दूरथ कण्ठविभूषणम् ॥२५७॥
१ शीर्षण्य B२ गः