________________
केशवकृतः कल्पद्रुकोशः स्यात्पाण्यङ्गुलिपर्यायजार्थः कामाङ्कुशोऽपि च । महाराजः कररुहः करकण्टपुनर्ननवा ॥१७७॥ कराग्रजः करशूकोनखोऽस्त्री नखरस्त्रिषु । संपिण्डिताङ्गुलिः पाणिर्मुष्टि मुचुटिः स्त्रियाम् ॥१७८॥ काहि 'मुस्तुसंग्राही खटकस्त्वर्धमुष्टिकः। प्रमृतिः कुब्जिते पाणौ चुलका' कुञ्चिते पुमान् ॥१७॥ अथ सिंहतलः स स्यात्तत्र हस्तेऽर्धमुष्टिते । पुंस्यञ्जलिस्तु प्रसृती युतेऽङ्गुष्ठे तते पुनः ॥१८॥ प्रदेशिन्या प्रदेशोपि प्रादेशश्च नराविमा । मध्यमावितते तालः सपादैकादशाङ्गलः ॥१८॥ अनामयापि गोकर्णः सपादद्वादशाङ्गुलः । कनिष्ठया ततेऽङ्गुष्ठे वितस्तिदशाङ्गुलः ॥१८॥ पुंसि स्त्रियां किष्कुरपि वितस्तिश्च पुनः स्त्रियाम् । तर्जन्यनामिके श्लिष्टे मध्यमा पृष्ठगा तयोः ॥१८३॥ करिहस्तो थ कटिका छोटिका द्वे इमे समे। तर्जन्यङ्गुष्ठयोगोत्थे शब्दे स्यातामथो पुनः ॥१८४॥ विस्मृताङ्गुलिके हस्ते चपेटः स्यादपि द्वयोः । प्रतलश्च प्रहस्तश्च तालिका ताल इत्यपि ॥१८॥
१ मुष्क २ चुलुका ३ प्रसूति ४ स्तस्फुकटिकाKB