________________
घट
केशवकृतः कल्पद्रुकोशः हस्ते स्यान्मुष्टिते'रनियोरथ कनिष्ठया। रहिते स्यादरनिस्तु ननाव्यामस्तु पुंस्ययम् ॥१८६॥ वियामो हस्तचापार्थो हस्तबाह्वोर्यदन्तरम् । तिर्यक् स्यादथ पुरुषप्रमाणे पौरुषं त्रिषु ॥१८७॥ तलाद्यावत्परीमाणे दनद्वयसरूपको। जलादीनां जानु जङ्घा कण्ठादौ तद्वति त्रिषु ॥१८॥ घटप्रस्थादिमाने तु मात्रं स्या तद्वति त्रिषु । अष्टौ तु मुष्व्यः कुञ्चिन द्वयोः किं विरित्यपि ॥१८॥ द्विगुणं पुष्कलं चैतद्विगुणं पूर्ण पात्रकम् । द्रवद्रव्यस्य प्रस्मृतिश्चुलुकं षण् चुलुः पुमान् ॥१६॥ उरोहृद्धृदयकोडे न ना स्कन्धो भुजान्तरम् । गुणाधिष्ठानमसहमपि मर्मवरं त्रसम् ।१६१॥ .. क्लीबे वत्सं च वक्षश्च स्तनाधो जठरोपरि । क्लीबे पृष्ठं च पृष्ठि श्च पृष्ठी च द्वे इमे स्त्रियौ ॥१९२॥ वक्षःपर्यायरुहरुड्जार्थो कूची कुचावपि । धरणौ तावुरसिजावुरोजावपि च स्तनौ ॥१६३॥ पयोधरी पयोध्रौ च मेचकं पिप्पलं च षण् । स्तनार्थाच्च मुखं वृन्तं क्लीबे स्तनशिखा स्त्रियाम्॥१६॥
१ अनि २ ततोन्याम ३ not in KCS ४ किंचि ५ मा ६ टिश्चपृष्टी