________________
केशवकृतः कल्पद्रुकोशः ३६ कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् । विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥१६८॥ दोरस्त्रियां स्त्रियां दोषा भुजापि स्याभुजः पुमान् । प्रवेष्टो नाकुलिबर्बाहुर्बाहा' बाहू स्त्रियां पुमान् ॥१६॥ कपोणिः कपणिः पुंसि कफणी कफणिः स्त्रियौ । कफोणिश्च कफाणिश्च द्वावेतौ पुंस्यपि स्त्रियाम् ॥१७॥ कूपर तदधः पुंसि प्रगण्डस्तदधः पुमान् । मणिपन्धो मणिश्चास्त्री तदधस्तु प्रकोष्ठकः ॥१७१॥ मणिबन्धादाकनिष्ठ करस्य करभो बहिः । पञ्चशाखःशयः पाणिःकरो हस्तःशलः करिः ॥१७॥ श्रङ्गुलिः करशाखा स्या दङ्गुलीयाङ्गुलीत्यपि । घरिः करवीरो नाप्यङ्गुष्टोऽङ्गल इत्यपि ॥१७३॥ प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा । भानामिका स्यात्सावित्री कनिष्ठातु कनीनिका ।१७४। तन्मध्यसंधिग्रन्थिः स्त्री क्लीवे पर्व परुः पुनः । यदङ्गुष्ठागलीमध्ये तत्स्या त्क्षिप्रं पुनस्ततः ॥१७॥ तले धनादिसूचिन्यो रेखाः पर्यायगोचराः। करस्याधः प्रपाणिर्ना तस्याधस्तु तलं च षण् ॥१७६॥
पाहु २ णीच ३ दलित्यागुलिस्यपि ४ ज्ञा