________________
केशवकृतः कल्पद्रुकोशः
दन्तपर्यायार्थमथ स्याद्भालमस्त्रियाम् । महाशंखश्च शंखश्च कपालाप्यस्त्रियाममी ॥ १४१ ॥ स्त्री गोधिरलिकालीकललाटानि श्रुतिः स्त्रियाम् । पिज्जूषश्रवणावस्त्री क्लीबे श्रोत्रं श्रवः पुनः ॥ १४२ ॥ शब्दाधिष्ठान पर्यायेr ध्वनिपर्यायतो ग्रहः । श्रोत्रं स्यादपि च क्लीबे श्रोतः श्रवसमित्यपि ॥ १४३ ॥ पुंसि कर्णो महानादा वेष्टेस्य कर्णशष्कुली । तयोः प्रान्तस्तु धारा स्त्री तन्मूले' शिलकं च षण् ॥ १४४॥ पालिः स्त्री कर्णलतिका शंखेोऽस्त्री भ्रूवोन्तरा । विलोचनं चतुरति लोचनं नयनाम्बके ॥ १४५॥ ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः ।
स्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६॥ दृशी दृक् स्याद्दशिरपि स्त्रियां क्लीबे च दर्शनम् । तारकास्त्रयस्त्रियां तारा बिम्बिन्यच्णः कनीनिका ॥ १४७॥ वामं सौम्यं तदितरत्सौर' स्यादथ वीक्षणम् । निशामनं निभालनं निध्यानमवलोकनम् ॥१४८॥ दर्शनं द्योतनं निर्वर्णनं चाथार्द्धवीक्षणम् । उपाङ्गदर्शनं काक्षः कटाक्षोऽचि विकूणितम् ॥१४६॥
३६
१ शीKB २ तदितरदसौम्यमथ B