SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ १५०६ • तथा चावरुद्ध ग्रहणं पत्नीत्वाभाववदुपलक्षणम् । तथा च यत्र पत्नीत्वाभावः पुनर्वादावपि तत्र सर्वत्र इद - मेव । बाल. (पृ.१९७) (जीमूतवाहनमतं खण्डयति) तन्न । उक्तबृहस्पतिवाक्यस्य 'संसृष्टिनस्त्वि'ति मूलस्य 'विभक्ताः सहजीवन्त ' इत्यादिमनोरुकनारदस्य च समानार्थकत्वेन प्रकृताविषयत्वात् । अपत्यसत्त्वे नैवमित्युक्तम् । तत्र अनपत्येत्यपवादप्रसंगादसंसृष्टविभक्तस्थलेऽप्यपवाद उक्तः, अभार्या पितृकेति । लोपशङ्काऽपि मनुवद्बोध्या । पत्नीति मूलस्य पूर्वोत्तरवचनैस्तत्त्वे सति परिशेषन्यायेन शङ्खादेस्तद्विषयत्वं सिद्धमिति न दोषश्च । किं च भ्रात्रंशे एवेदं न पित्राद्यंशे । तत्र त्वनुपदमेव प्रकारो वक्ष्यमाण इति न कोऽपि दोष इति दिक् । नन्वेतावता प्रपञ्चेन पत्नीत्यस्य भ्रात्रंशे विरोधे परिहृते नारद संगतावपि पित्राद्यंशे विरोधस्यापरिहृतत्वेन तदवस्थत्वेन मनुशंखकात्यायनादेः का गतिरिति चेत् । न । नेदं क्रमपरमित्याद्याचार्योक्त्यनुवादकेन भगवता विज्ञानेश्वरेण सर्वविरोधपरिहारस्य सूचितत्वात् । 1 तथा हि । तत्र तावत् 'पिता हरेदि'ति मनुविरोधस्तु कण्ठतः परिहृत एव । तथा च तत्र वाशब्दो व्यवस्थितविकल्पे न त्वैच्छिकविकल्पे । व्यवस्था च मूलोक्तैवेति बोध्यम् । एवमनपत्यस्य पुत्रस्य मातेति मनुरपि न विरुद्धः । तस्यापि क्रमाबोधकत्वात् । मानाभावात् अधिकारप्रदर्शनमात्रपरत्वात् । तथा च मूलानुरोधेन तत्र चकारेण च वृत्तायामित्यस्य पूर्वत्रापि संबन्धेन पत्न्यां दुहितरि च वृत्तायां दौहित्रे च वृत्ते माता तस्य दायमाप्नुयादित्यर्थः । अग्रेऽपि अपिशब्दात्पित्रादिसमुच्चयेन पितरि भ्रातृषु सत्सु तेषु च वृत्तेषु पितामही हरेदित्यर्थः । इदमग्रेऽपि व्यक्तम् । तत्रैव 'मातर्यपी' त्यत्र कण्ठतो विज्ञानेश्वरेण तथोक्तत्वान्मा त्रंशेऽपि तथैव तस्यामितम् । एवं शंखवचनमपि न विरुद्धम् । तस्याविभक्तसंसृष्टभ्रातृविषयत्वस्य भ्रात्रंशे कण्ठतस्तेनोक्तत्वात् । व्यवहारकाण्डम् किं च तत्र वाशब्दस्य समुच्चयार्थत्वेन तदभावे इत्यस्योभयत्रान्वयेन क्रमवैपरीत्येन च तदभावे अविभक्तसंसृष्टभ्रात्रभावे ज्येष्ठा संयता पत्नी हरेत् तदभावे पत्न्यभावे चेन दुहितृदौहित्रयोरभावे पितरौ हरेयातामित्यर्थात् यथाश्रुतक्रमाबोधकत्वात् । कात्यायनवचनमपि न विरुद्धम् । तत्र पुत्राभावे इत्यत्र पुत्रपदस्य पौत्रोपलक्षकत्वावश्यकत्वात् 'अपुत्रा पुत्रवत्पत्नी' 'यथैवात्मा तथा पुत्र: ' 'पुत्रेण दुहिता समा' 'पौत्र दौहित्रयोलों के विशेषो नोपपद्यते' इत्याद्युक्त्या पुत्राभावे इत्यस्य पुत्रस्य पौत्रस्य पत्न्या दुहितुदहित्रस्य चाभावे इत्यर्थेनाग्रे क्रमवैपरीत्येन वाशब्दानां तदभावरूपपक्षान्तरबोधकत्वेनादौ जननी हरेत्, वा तदभावे पिता हरेत्, वा तदभावे भ्राता हरेत्, पुनरन्वयेनाथशब्दस्य समुच्चयार्थत्वेन वा तदभावेऽथ तत्सुता हरेयुः, वा तदभावे तत्पितुर्माता पितामही हरेदित्यर्थात् । एतादृशक्रमबोधनार्थमेव क्रमादिति सफलम् | अन्यथोक्तक्रमस्य पाठत एव लाभे तदुक्तिरफलेति स्पष्टमेव । गौतमवचनमपि न विरुद्धम् । तत्र वाशब्दस्य चार्थत्वेनाधिकारमात्रप्रदर्शनपरत्वेनोत्तरीत्यैव क्रमस्य विवक्षितत्वात् । तत्र पिण्डशब्दः सापि - ण्डयपरः । गोत्रशब्दसमभिव्याहारात् । न केवलं मूलस्यैव नारदादिविरोधः, किं तु तेषामपि मिथेो भूयानिति |तत्रैकस्य सिद्धान्तत्वे सर्वनिर्वाहाभावात् व्यापकत्वान्मूलाद्यनुरोधेनोक्तव्यवस्थयैव सर्वैकवाक्यतासंपादनमुचितमिति गूढाकूतम् । अत्रेदं तत्त्वम् । यद्यपि पूर्वविरोधदानावसरे नारदमनुशंखकात्यायनविरोधः क्रमेण व्याख्यात्रा संभवात्सामान्यतो बहुविषये दत्तस्तथापि उपक्रमोक्तनारदवाक्याद्विशिष्य भ्रातृपत्न्योः क्रमबोधकशंखाच्च मुख्यतया भ्रात्रंशे एवाभिमतः । मनुकात्यायनोल्लेखस्तु मूलवत्तेषामपि मिथो विरोधो यथाश्रुत इति न तयोरपि क्रमव्यवस्थापकत्वमिति सूचयितुमानुषङ्गिकः । तत्र मनुद्वयांशे विरोधपरिहारोऽग्रे व्याख्यात्राऽन्यप्रसंगेन कण्ठतः कृत एवेति नात्र पुनर्विशिष्योक्तिः । तेनैव पित्रादौ शंखकात्यायनविरोधोऽपि परिहृतप्राय इति न तथा । भ्रात्रंशे तदुभयविरोधोऽपि अन्यप्रसंगेन तयोः संसृष्टविषयत्वमुक्वता परिहृत एव । तत्र संसृष्टेत्युपलक्षणं विभक्तस्यापि । इदमप्यन्यत्र विभक्ते संसृष्टिनि वेति उक्तवता तेन सूचितमेव । एवं च मुख्यतातात्पर्यविषयतया भ्रात्रंशे
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy