SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ दायभागः मृतापुधत्रनाधिकारक्रमः व्यप्र. ४८८ पत्नीपदेन शापितम् । 'अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता । भुञ्जीतामरणात्क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ।।' इति । प्र. ४९० - १ ( अत्र चन्द्रिकाजीमूतवाहनादिमतमुपन्यस्योक्तम् ।) तत्रेदं वाच्यम् । किं तस्य तया कृतेऽपि दानादौ त त्स्वरूपानिष्पत्तिरेव । न तावदेवं युक्तम् । मन्वादिवचनैः सकलभर्तृधनग्रहणे तस्या उक्ते सति तस्यास्तत्र स्वत्वे दानादिस्वरूपानिष्पत्तेर्वाचितत्वात् । अत एव जीमूतवाहनेनैव 'स्थावरस्य समस्तस्य' 'विभक्ता वाऽविभक्ता वा 'स्थावरं द्विपदं चैव' इत्यादीनि स्थावरविषयाणि दानादिनिषेधवचनान्युपन्यस्याधर्मभागिताज्ञापनार्थमेतानि दुः वृत्तं पुरुषं प्रति । कुंटुम्बदुःखदानार्थमेव दानविक्रयादिप्रवृत्तं प्रति प्रतिषेधकानि न तु दानादिस्वरूपा निष्पत्ति प्रतिपादकानि । यथेष्टविनियोगार्हत्वलक्षणस्वत्वस्य द्रव्यान्तर इव स्थावरेऽप्यविशेषाद्वचनशतेनापि वस्तुनोऽन्यथाकरणाशक्त्या तत्प्रतिपादनानुपपत्तेरिति निरूपितम् । तदुक्तरीत्यात्रापि दुर्वृत्ततया दायाददुःखदानार्थमेव भर्तृरिक्थदानादिप्रवृत्ताया अस्तु प्रतिषेधातिक्रमादधर्मः । धर्मार्थ दानप्रवृत्तायाः स्वजीवनाद्यर्थ विक्रयाधाने कुर्वन्त्याश्च नास्त्येवाधर्मोऽपि। न च भुञ्जीतैवेति नियमाद्दायादा ऊर्ध्वमाप्नुयुरित्यभिधानाच्च दानाद्यनधिकार एव तस्या अविभक्तधन इव तत्रेति वाच्यम् । साधारणस्वत्वाश्रया - विभक्तधनेनासाधारणस्वत्वाश्रयस्यास्य वैषम्यात् । न च स्वभोगस्य प्राप्तत्वेनाविधेयत्वाद्दानादिपरिसंख्यार्थ एव विधिस्तथा चानधिकारस्तत्रागत एवेति वाच्यम् । वस्त्वन्यथाकरणाशक्तेर्नियमस्य वृथादानादिना द्रव्यनाश'निवृत्यर्थतयैवोपपत्तेरवश्यवाच्यत्वात् । अन्यथाऽनधिकारे 'द्रमदान रता' 'पूजयेत्कव्यपूर्त्ताभ्यां' इत्यनेन दान विधिना विरोधोऽपरिहार्यः । यच्च दायादाः पत्न्यनन्तरा धिकारिणः 'पत्नी दुहितर' इत्यत्र निर्दिष्टास्ते गृह्णीयुः, प्रागभावप्रध्वंसयोः प्रतिबन्धकपत्न्यभावत्वस्याविशेषात्त दधिकारोद्भवादित्युक्तम् । तदतिस्थवीयः । दायादपदेन स्त्रीधनाधिकारिग्रहणे यथा वचनान्तरोक्तत्वात् पौन रुक्त्यं, तथा तेषामपि कात्यायनेन वचनान्तरोक्तत्वापौनरुक्त्याऽविशेषात् । वस्तुतस्तु जातस्वत्वे स्वामिनि १४९९ मृते तत्प्रत्यासन्नानामेव तद्धनग्रहणमुचितम् । पत्न्यादिशब्दानां संबन्धिशब्दत्वेन द्रव्यस्वामित्वे पत्न्या उपजाते पूर्वस्वामिदुहित्रादीनां कः प्रसंग: । तेन यद्यपि पूर्वाभावः प्रागभावः प्रध्वंसश्चात्यन्ताभावश्च प्रतिबन्धकसंसर्गाभावतया तुल्यस्तथापि यो द्रव्यस्वामी तस्मिन् मृते तत्संबन्धिन्यादिकमपुत्रस्य तस्य धनं लभेतेत्येव वाक्यार्थः । अन्यथा दुहित्रादिभिरपुत्र पितृधने लब्धे तन्मरणे तत्संतत्यतिलङ्घनेन तद्धनं पूर्वस्वामिनः पितुर्ये पित्रादयस्त एव लभेरन्निति महत्यव्यवस्था प्रसज्येत । तस्माद्भर्तुरिक्थं पत्न्या लब्धं तस्यां मृतायां तद्भोगावशिष्टं 'मातुर्दुहितर' इत्यादिवचनाद् दुहित्रादिग्राह्यत्वेन प्रसक्तं 'दायादा ऊर्ध्वमाप्नुयुः' इत्यनेनापोद्यते । अयं च वचनार्थः । दायादा इत्यत्र कस्येत्यपेक्षायां शयनान्वितं भर्त्तुरित्येवोपस्थितत्वादनुप्रज्यते । तथा चैवं वचनव्यक्तिः । तस्या ऊर्ध्व भर्तुदयादा अविभक्ततद्धनाधिकारिणो विभक्तभ्रातृधन - मपि तत्पत्नीभोग्यावशिष्टं गृह्णीयुर्न पत्नी रिक्थहरा दुद्दित्रादय इति । एवं चापूर्वार्थत्वाच्चतुर्थचरणस्यार्थवत्वं भवति । अन्यमते वचनान्तरोक्तार्थानुवादमात्रमनर्थकं स्यात् । तस्माददृष्टार्थे दाने दृष्टादृष्टावश्यक कार्यार्थमाधौ विक्रये चास्त्येव पत्न्याः सकलभर्तृधन विषयोऽधिकारः । नियमस्तु नटनर्त्तकादिदानानावश्यकाधिविक्रयनिवृत्यर्थ इति सिद्धम् । अत एव क्षान्तेत्युक्तम् । द्रव्यप्राप्तितृप्ता वृथाद्रव्यव्ययकारिणी न भवेदित्यर्थः । दानधर्मस्थं महाभारतवचनं तु सुतरामस्मदुक्तमेवार्थमुपोद्बलयति । तथा हि स्त्रीणां स्वपतिदायः स्वभर्तृरिक्थं, उपभोगफलः उपभोगो धर्मप्रत्यासन्नो भोगो न त्वसद्भोगः, फलं प्रयोजनं यस्य तादृशः स्मृत उक्तो मन्वादिभिः । उत्तरार्द्धे तदेव व्यनक्ति-स्त्रियः पतिवित्तादपहारं वृथाव्ययं न कुर्युः । कथंचनेत्यनेनापहारस्य सर्वथैवाश्रेयस्करतामाह । अपहारो हि चौर्यम् । नटनर्त्तकादौ वृथादानं सूक्ष्मवस्त्रादिपरिधित्सा मिष्टभक्ष्यादिबुभुक्षेत्येवमाद्यपि संयताया अनौचित्याच्चौर्य तुल्यमित्यपहारशब्दो गौणः । धर्माद्यर्थदानादिकं तु न तथेति नापहारशब्देन बोधयितुं शक्यते । तस्मात्सर्वं सुस्थम् । व्यप्र. ४९२ - ३ 'पत्नी दुहितर' इत्यस्य विभक्तासंसृष्टिविषयत्वं,
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy