________________
ऋणादानम् - वृद्धिः
न ग्रहीतव्यमिति । प्रतिसंवत्सरप्रतिषेधात् प्रतिमासं प्रतिषाण्मासं चाभ्यनुज्ञायते । ततश्च मासिमासि षण्मासे षण्मासे वा ग्रहीतव्यं न प्रतिसंवत्सरमित्येकेषामभिप्रायः । प्रतिमासवृद्धिग्रहणे चैतद्द्रष्टव्यम् । यावद्धनसंव्यवहार : तावद् ग्रायैवेति गौतमः । तद्विच्छेदे तु 'नातिसांवत्स रीम्' इति व्यवस्थितविभागो द्रष्टव्यः । वृद्धयुपरमावधि:
मभा.
'चिरस्थाने द्वैगुण्यं प्रयोगस्य ।
(१) प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः । मिता. २ । ३९
(२) स्वमतमाह--- चिरस्थान इति । यावता कालेन प्रयुक्तं धनं द्विगुणं भवति तावन्तमेव कालं धर्म्यया बुद्ध्या विवर्धते नातः परमिति । सुवर्णादिद्रव्यविषयमेतत् । + गौमि,
षोडशमासैर्द्विगुणा भवति । वृद्धिप्रकारा:
चक्रकालवृद्धिः ।
अथापदि वृद्धयन्तराण्याह- चक्रकालवृद्धिरिति । वृद्धिशब्दः प्रत्येकमभिसंबध्यते । यावता कालेन यावती वृद्धिस्तामपि मूलीकृत्य तावतो मूलस्य पुनर्वृद्धिश्वक्र - बृद्धिः । यथाह नारदः - • ' वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिदाहृता' इति । इयतः कालस्येयती वृद्धिरिति यत्र समयेन गृह्यते सा कालवृद्धिः । + गौमि. कारिताकायिका शिखाधिभोगाश्च ।
X सवि., व्यप्र., व्यउ. मितावत् । + मभा. गौमिवद्भावः ।
(१) गौध. १२।२८१ मेघा. ८।१५ २६ मिता. २ ३९; अप. २ ३९ व्यक. ११०६ मभा गौमि. १२।२८; विर. १७ चिरस्थाने (चिरकालव्यवस्थाने ); पमा. २२८६ विचि. ११ चिर (चिराब ); स्मृचि. ९ विचिवत्; सवि. २२८१ व्यप्र. २३०६ व्यउ. ७६६ बिता. ४८८ सेतु. ९ स्थाने ( कालावस्थानात); समु.८१; विव्य. २४ ( प्रयोगस्य ० ) शेषं विरवत् . (२) स्मृच. १५९, समु. ७९. (३) गौध. १२।३१; मभा.; गौमि. १२/३१. (४) गौध. १२ । ३२; मभा. गौमि. १२/३२.
व्य. का. ७७
६०७
(१) कारिता शास्त्रानपेक्षया यस्मिन्नात्मनैव क्रियते प्रतिसंवत्सरं निष्कस्य तत्पादमधे वा देयमित्येवमादिः सा कारिता वृद्धिः । कायिका अभ्युपगताया वृद्धेरधिकं दिवसेदिवसे मासिमासि संवत्सरेसंवत्सरे वा यस्मिन् गृह्यते सा कायिका । तथा च नारदः - 'काया विरोधिनी शश्वत् पणपादादिकाधिका' इति । शिखा धान्यस्य, यथा चतुर्णां प्रस्थानां पञ्चम इत्यादि । अधिभोगः वृद्धयर्थमहरहर्यस्मिन् घृतादि गृह्यते साऽधिभोगवृद्धिः । वृद्धिशब्दानुकर्षणार्थश्वकारः । गौरवप्रदर्शनार्थः पृथङ्निर्देशः ।
सभा.
1
(२) वृद्धय इति शेषः । प्रयोक्त्रा ग्रहीत्रा च देशकालकार्यावस्थापेक्षया प्रभूता न्यूना वा स्वयमेव कल्पिता वृद्धिः कारिता । कायिका कायकर्मसंशोध्या । शिखावद्धिं. कात्यायन आह - 'प्रत्यहं गृह्यते या हि शिखावृद्धिस्तु सा स्मृता' । इति । आधिभोग आहितस्य क्षेत्रस्य भोगोऽनुभवः । तत्रानुभव एव वृद्धिः । सा च शतेनापि संवत्सरैर्न निवर्तते । क्षेत्रं चोत्तमर्णस्य न भवति यदा कदाचिदपि मूलप्रदाने सत्यधमर्णस्य भवति । अधिभोग इत्यन्ये । भोगमधिकृत्य वर्तत इत्यधि भोगवृद्धिः । तत्राप्येष एवार्थः । एतासु चक्रवृद्धयादिषु वृद्धेद्वैगुण्यागौमि. त्परमपि भवत्येव ।
पश्वादिद्रव्यवृद्धयुपरमवधिः
कुसीदं पशूपजलोमक्षेत्रशदवाद्येषु नातिपञ्चगुणम् ।
(१) अधिकृतमपि कुसीदग्रहणं क्रियते अन्यरूपोऽयं प्रयोग इति ज्ञापनार्थम् । पशूपजं घृतादि तत्क्रीत्वा अमुमन् काले मूल्यं दातव्यं तस्मिन्नदीयमानं वर्धत इति यत् परिभाषितमित्यभिप्रायः । वत्सस्य ग्रहणं मा भूदित्युपशब्दप्रयोगः | लोम ऊर्णादि । प्रकृतिग्रहणेन विकाराणामपि ग्रहणं द्रष्टव्यम् । तस्यापि क्रयमूल्यस्मादीयमानस्यैव । क्षेत्रशदः क्षेत्रं यदा परिमितेन धान्येन X अयं पक्षः 'मस्करिभाष्ये' समुपलभ्यते ।
(१) गौध.१२।३३; व्यक. ११० वाह्य (बाह्य); मभा. गौमि . १२/३३१ विर. १८ ति + (क्रामति) गुण (गुणत्व); विचि. १२, चन्द्र. ६ ( पशूपजलोमक्षेत्रसदबाह्येषु नातिपचगुणं कुसीदम् ); वीमि. २ ३ ७; सेतु. १० ति + (क्रामति) .
1