________________
६०
पित्र्यमायनवत् । अबन्ध्वेके ददतः प्रयच्छाद्दातुं चेच्छक्त्वा स स्वर्ग एषाम् ॥
एके पुरुषाः केचित्ततं पुत्रपौत्रादिरूपेण विस्तीर्ण तन्तुमनु स्वकीयं संतानमनुप्रविश्यानुसंचरन्ति पुण्यलोकाननुक्रमेण प्राप्नुवन्ति । द्विविधो हि विग्रहः पुत्ररूपश्चात्मरूपश्चेति । तयोर्मध्ये पुत्ररूपेणेह लोके पुण्यं कुर्वन्नेवास्ते । पितृरूपेण लोकान्तरेषु संचरति ' एतदेवाभिप्रेत्यैतरेयोपनिषद्युक्तम् - - 'सो. Sस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति' इति । अत आकारभेदेन तन्तुमनुप्रविश्येति पुण्यलोकाननुसंचरतीत्युभयमप्युपपद्यते । येषां पुरुषाणां पित्र्यमृणमायनवद्दत्तं, आयनमागमः शास्त्रं तदस्यास्तीत्यायनवद्यथाशास्त्रं दत्तमित्यर्थः । पित्र्यमित्येतदन्ययोरपि द्वयोरुपलक्षणम् । तदृणत्रयं यैर्दत्तं तादृशाः केचिदनुसंचरन्तीति पूर्वत्रान्वयः । एकेऽपरे केचित्पुरुषा अबन्धु पुत्रपौत्रादिबन्धुरहिताः सन्तः पित्र्यमृणमपाकर्तु - मशक्ता अपि ददतो धनदायिन उत्तमर्णस्य प्रयच्छात् प्रयच्छन्ति तद्धनं प्रत्यर्पयन्ति, ते पुरुषा दातुं शक्नवाञ्शक्तवन्तश्चेत्, एषां पुरुषाणां स स्वर्गो भवत्येव । पुत्रोत्पत्तेर्देवाधीनत्वेऽपि गृहीतं धनमवश्यं प्रत्यर्पणीयमेवेत्यर्थः । तैआसा. यदन्नमम्यनृतेन देवा दास्यन्नदास्यन्नुत वाऽकरिष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदेव किं च प्रतिजग्राहमभिर्मा तस्मादनृणं कृणोतु ।।
हे देवा अहं दास्यन्नदास्यन्प्रत्यर्पणं चिकीर्षुरचिकीर्षु र्वा, तात्कालिकेन सर्वथा प्रत्यर्पयिष्यामीत्येतादृशेनानृतवचनेन धनमादाय यदन्नमनि भक्षयामि, अथवा किंचित्कार्य परकीयं करिष्यामीत्यनेनानृतेन वचनेन धनमादाय तत्कार्यमकरिष्यन् यदन्नमद्मि, यदपि देवानां चक्षुष दृष्टिविषये मया कृतमागः पापमस्ति, आदित्याभिमुख्येन मूत्रविसर्गादि । किं च यदेव किञ्चिच्छूद्रादिधनं प्रतिजग्राहं प्रतिगृहीतवानस्मि, तस्मात् सर्वस्मादेनसो तैआसा. विमुच्यायमग्निरनृणमृणरहितं करोतु ।
(8) are. 21912,
व्यवहारकाण्डम्
येदन्नमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामवम् । यद्देवानां चक्षुष्यागो अस्ति यदेव किं च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ॥
बहुधा विरूपं द्रव्यदोषात् कर्तृदोषाद्देशकालदोषादिना वा बहुप्रकारेण शास्त्रनिषिद्धं यदन्नमद्मि तथा वस्त्रादीनपि निषिद्धान् स्वीकरोमि । यद्देवानामित्यादि तैआसा. पूर्ववत् ।
गौतमः
धर्म्य वृद्धिपरिमाणम् । तस्या ग्रहणावधिः । कुसीदवृद्धिर्धर्म्या विंशतिः पञ्चमाषिकी मासम् * । वृद्धयर्थं प्रयुक्तस्य द्रव्यस्य कुसीदसंज्ञा । माषः कार्षापणस्य विंशतितमो भाग इत्युशनसोक्तम् । पञ्चमात्रा वृद्धिरूपेण दीयन्ते यत्र विंशतौ सा पञ्चमाषिकी । कार्षापणानां विंशतिः प्रतिमासं पञ्चमाषिकी यथा भवति तथा भवन्ती कुसीदवृद्धिर्धर्मादनपेता । अत्र मनुः - 'वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते ॥ इति । अत्रापीयमेव वृद्धिरुक्ता । गौमि. नातिसांवत्सरीमेके ।
(१) येयमशीतिभागलक्षणा धर्म्या वृद्धिस्तामतिसांवत्सरीं संवत्सरेऽतिक्रान्ते भवां न गृह्णीयात्, एकस्मिन्नेव संवत्सरे प्रतिमासमशीतिभागो ग्राह्यस्तत ऊर्ध्व न किंचिदपि ग्राह्यमेषा धर्म्या भवतीत्येके मन्यन्ते । अतिसांवत्सरीमिति रूपसिद्धिश्विन्त्या । गौमि.
(२) मासमतिक्रम्य संवत्सरवृद्धिर्न ग्राह्येत्येके मन्यन्ते । एतदुक्तं भवति — मासि मासि यद्यहीतव्यं तत्सर्व संभूय संवत्सरे परिपूर्ण एव गृह्णामीत्येवं मत्वा प्रतिसंवत्सरं
* स्मृच. व्याख्यानं 'नातिसांवत्सरी वृद्धि' इति मनुवचने द्रष्टव्यम् । X मभा गौमिवत् ।
(१) तैआ. २२६ २; असं. ६ | ७१ १ ( यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् । यदेव किं च प्रतिजग्रहा हमग्निष्टद्धोता सुहुतं कृणोतु ॥ ); वैसू. ४।१६; कौसू. ४५।१७.
(२) गौध.१२।२६, व्यक. १०६३ मभा. गौमि. १२ २६; स्मृच. १५८; विर. ६; सवि. २२२ विंशतिः (स्याद्विशतेः) पञ्च (पाच) (मासम् ० ); समु. ७९ तिः (तेः ). (३) गौध.१२।२७; व्यक. १०१; मभा : गौमि . १२/२७.