________________
व्यवहारकाण्डम्
१४९६
वचनेऽपि तनयशब्दो दौहित्रपितॄणामुपलक्षक इति कथयन्ति । तन्मन्दम् । अनुपपत्त्या हि लक्षकत्वं शब्दानाम् । एवं व सर्वत्राविवादेन दुहितुरभावे दौहित्रस्य धनभाक्त्वं बचनेष्वविशिष्टमिति दुहित्रनन्तरं वचनान्तरविरोधरूपया दुहितृसंततिरूपया चानुपपत्त्या दुहितृदौहित्रयोरे - वोपलक्षको न तु पितुः। तावतैवानुपपत्तेः परिक्षीणत्वात् । परिक्षयश्च मानवादिवचनान्तरेषु पितुर्दोहित्रानन्तर्यस्यानियतत्वेन । अतो यावत्यर्थे लक्षितेऽनुपपत्तिः शाम्यति तावानेव तनयशब्देन लक्ष्यत इति । न पितुर्दोहित्रानन्तरं प्रतीतिः ।
नाभूदतः किमियं गृह्णातु । न च सैवांशप्रतियोगिनी, प्रापकाभावात् । न चैतान्येव वाक्यानि प्रापकाणि । एषां विभक्तधनपरत्वेनाप्युपपत्तेः । अत एव 'भ्रातॄणां दायभागो याश्चानपत्याः स्त्रियस्तासां चापुत्रलाभात् इति वसिष्ठसूत्रं भ्रातृभार्यायां विधवायां पत्याहितगर्भायां तद्देवरादीनां विभागे प्राप्ते तस्या अपि शङ्कितपुत्रप्रसवाया भाग आप्रसवं स्थाप्यः, पुत्रे अनुत्पन्ने देवरादिभिर्ग्राह्य इति रत्नाकरादौ विचि.२३७-८ व्याख्यातम् ।
स च तस्याः
मनुरपि -- 'अनपत्यस्य पुत्रस्य माता दायमवाप्नु
:
भावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥' इति । अत्रापि वाशब्दस्य श्रवणान्न क्रमपरता । अपि तु वचनोपात्ता एतेऽधिकारिण इत्यऽधिकारमात्र प्रदर्शनपरतैव । स्वाम्याख्ये सिद्धरूपे वस्तुनि विकल्पाभावादपिशब्दार्था वाशब्दाः । न तु परोक्तरीत्या पूर्वपूर्वाभावपरा वाशब्दाः । अभावे वा शब्दस्य शिष्टप्रयोगाभावात् । अप्यर्थे प्रयोगाच्च । अथशब्दोऽप्यानन्तर्यपरो न मात्रनन्तरमेव पितामह्या धनसंबन्धं बोधयति । वाक्यस्योक्तरीत्या क्रमपरत्वाभावात् । अतो भ्रातृसुतानन्तरमेवाविरोधात् धनसंबन्धं बोधयतु । तथापि स्वार्थाहानात् क्रमादिति च पदं 'पूर्वाभावे परः पर' इति योगीश्वरवचनवाक्यशेषपर्यालोचनया तत्रत्य - मविरुद्धमेतत्क्रमं बोधयति न स्ववाक्यस्थम् । अत्र क्रमादिति सामान्येनाभिधानात् । योगीश्वरेण 'पूर्वाभाव' इति विशेषोपादानात्सामान्यं प्रति विशेषस्य बाधकत्वात् । तस्मादन्यैर्यत्किञ्चिदुक्तमिति मिताचराव्याख्यानमेव युक्ततरमिति सर्वे सुस्थम् । गोत्रजाभावे बन्धवो धनभाज इति । पितामही - पितामह - पितृव्य - तत्पुत्राणां प्रपितामही- प्रपितामह - पितामह - भ्रातृ - तत्पुत्राणां प्रपिता महमातृ–प्रपितामहपितृ —प्रपितामह भ्रातृ - तत्पुत्राणां प्रपितामहपितामही– प्रपितामहपितामह प्रपितामह पितृव्य-तत्पुत्राणां, प्रपितामहप्रपितामही- प्रपितामहप्रपितामह - प्रपितामहपितामह भ्रातृ - तत्पुत्राणां समानोदक्रेष्वप्यनेन न्यायेन तेषां भाव इत्यर्थः । सुबो. (पृ.७३-४) (१०) अविभक्तप्रमीते तु पत्यौ तस्यांश एव
यच्च कात्यायनवचनम् –'विभक्ते संस्थिते द्रव्यं पुत्रायात् । मातर्यपि च वृत्तायां पितुर्माता धनं हरेत् ॥' दुहितृशून्यस्य माता धनं हरेत् । सकुल्यान्तशून्यस्य धनं पितामही हरेदित्यर्थः । मात्रभावे पित्राद्यधिकारस्य व्यवस्थापितत्वात् । 'मात्रभावे पितृगामी' ति विष्णुवचनात् । विचि. २३९-४० तदयं संक्षेपः । पुत्रस्तदभावे पौत्रस्तदभावे प्रपौत्रस्तदभावे साध्वी भार्या तदभावे दुहिता तदभावे माता तदभावे पिता तदभावे भ्राता तदभावे तत्पुत्रः तदभावे आसन्न सपिण्डस्तदभावे यथाक्रमं व्यवहितसपिण्डस्तदभावे आसन्नसकुल्यस्तदभावे यथाक्रमं व्यवहितसकुल्यस्तदभावे मातृकुलादिः, सर्वाभावे ब्राह्मणधनवर्ज राजा । ब्राह्मणधने तु सद्ब्राह्मणान्तरमेव धनाधिकारीति । विचि.२४३-४ (११) ननु पत्नीदुहितरन्यायावलम्बनेन पत्न्याः सवि. ४०५ पत्यंशहरत्वं स्यात् । एवं स्त्रीणां यद्भरणप्रतिपादकं वचनजातं तदविभक्तपत्नीविषयं च वेदितव्यम् । यच्च 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । भुञ्जीतामरणं क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥' इति । 'स्थावरं जङ्गमं चैव कुप्यधान्यरसाम्बरम् । मृते भर्त्तरि भत्रँशं लभते कुलपालिका ॥ यावज्जीवं तु तत्स्वाम्यं दानाधमनविक्रये ॥' इति वचनद्वयं दुहितृरहितपत्नीविषयं वेदितव्यम् । 'दायादा ऊर्ध्वमाप्नुयुरिति 'यावज्जीवं हि तत्स्वाम्यम्' इति स्मरणद्वयसामर्थ्यात् । यद्यपि संतानहीनाया उपरमे ज्ञातीनामेव
**
दुहितृपदार्थों मितागतः । पितृभ्रातृविकल्पः अपवत् विरवच्च । देवलवचनं विरवत् व्याख्यातम् । अपुत्रधनव्यवस्था विरवत् ।