________________
दायभागः - मृतापुत्रधनाधिकारक्रमः
। या च श्रुतिः 'तस्मात्स्त्रियो निरिन्द्रिया अदायादा:' इति सा पात्नीवतग्रहे तत्पत्न्या अंशो नास्तीत्येवंपरा । इन्द्रियशब्दस्य 'इन्द्रियं वै सोमपीथः' इति सोमे प्रयोगदर्शनात् ।
_xपमा. ५३६
(८) यथा मात्रनन्तरमेव पितुरधिकारस्तथा पितामह्यनन्तरं पितामहस्याधिकारः । पितुरभावे भ्रातॄणामिव पितामहस्याभावे पितृव्यास्तत्रापि सोदरभिन्नोदरव्यवस्था पूर्ववदेव | साक्षात्पितामहीपुत्राः प्रथमं धनभाजस्तदभावे सापत्न्यपितामहीपुत्रास्तेषामप्यभावे भ्रातृपुत्रन्यायेन पितृव्यपुत्रास्तेषामभावे प्रपितामही तस्या अभावे प्रपि तामहस्तदभावे प्रपितामहपुत्राः भ्रातृन्यायेनैव तदभावे तत्पुत्रा इत्येवं सप्तमपुरुषपर्यन्तं वेदितव्यम् । एवं सप्तमपुरुषाधिकसपिण्डाभावे समानोदकाः । तत्रापि पूर्वोक्तरीत्या प्रत्यासत्तिविशेषो द्रष्टव्यः । *मपा.६७३-४ (९) मिताटीका - विवाहसंस्कृतैव पत्नीत्युच्यत इति । यद्यपि ज्येष्ठायामनिषिद्धायां सत्यां कनीयसीनां यज्ञे नाधिकारः तथापि तदभावे सद्भावेऽपि वा दीर्घरोगग्रस्तायां तस्यां पतितायां वाऽन्यासां क्रमेणाधिकारोऽस्तीति यज्ञसाधनत्वयोग्यताऽस्तीति 'यज्ञसंयोग' इत्यत्र यज्ञसाधनत्वयोग्यता विवक्षितेत्यर्थः । अथवा यज्ञशब्देन विवाह एव कथ्यते । तत्रापि देवतोद्देशेन द्रव्यस्य दीयमानत्वात् तद्रूपत्वाच्च यागस्य । एवमपि विवाहितैव पत्नी नान्या तदा स्त्रियमन्तरेण विवाहस्यैवाभावात् यज्ञसाधनत्वमिति द्रष्टव्यम् । यथांशं विभज्य धनं गृह्णन्तीति । यथांश 'चतुस्त्रिद्येकभागाः स्युः' इत्यनेन क्रमेण ब्राह्मणी क्षत्रिया वैश्या शूद्रा च गृह्णीयुरित्यर्थः । सुबो.(पृ.६२) व्यामोह मात्रमिति । यदा भर्तरि जीवति मृते च पुत्रेषु सत्स्वपि पुत्रसमांशभाक्त्वं न भरणमात्रोपयुक्तधनभाक्त्वं पन्याः तदा किमु वक्तव्यमपुत्रस्य धनं सकलमाप्नोतीत्येवं कैमुतिकन्यायेनैव पत्न्याः सकलधनभाक्त्वे सिद्धे ग्रासाच्छादनातिरिक्तं न प्राप्नोतीत्युक्तिः भ्रान्तेत्यर्थः । किं च अंशग्रहणाधिकारिणां पुत्रान्तराभावे सकलरिक्थग्रहणाधिकारेण पुत्रेण सह समांशभाक्त्वस्योक्तत्वात्
१४९५
पुत्राभावे विभक्तस्थानपत्यस्य धनं पत्नी गृह्णातीति युक्तियुक्तं चैतत् । तस्मात्पूर्वापरविचारशून्यानामिदं वचनमुपेक्षणीयमेव । सुबो.(पृ.६६-७) आचार्यो विश्वरूपाचार्यः । सुबो. (पृ.६९) (चन्द्रिकादिमतं खण्डयति ) एतदखिलमप्यचतुरस्रम् । तथा हि । न तावदेकशेषे क्रमाप्रतीतिः विग्रह - वाक्ये चानेकशेषपक्षे च मातुः पूर्वपाठादेव क्रमप्रतीतेः । ननु 'सारस्वतौ भवत' इत्युक्तं इति चेत् न, तन्न्यायविरोधाभावात् । तथाहि सारस्वतश्च सारस्वतश्च सारस्वताविति 'सरूपाणामेकशेष एकविभक्तौ' इति सरूपैकशेषत्वात् क्रमस्तत्र विग्रहवाक्येऽपि न प्रतीयते, अतः कोऽत्र क्रम इत्याकाङ्क्षायां श्रौतो मन्त्रक्रमो युक्त इति याज्यानुवाक्यायुगलक्रमेण यागानुष्ठानक्रमो निरूपितः, न तु सर्वत्रैकशेषे क्रमप्रतीत्यभाव इत्यभिप्रायः ।
x मातृपितृक्रमः मितावत् दावच्चापक्षपातेनोपन्यस्तः । 'शेषं मितागतम् । सर्व व्याख्यानं मितागतम् ।
व्य. का. १८८
प्रकृते तु 'पितरौ' इत्यत्र 'पिता मातेति' विजातीयैक: शेषत्वाद्विग्रहवाक्येऽवश्यं क्रमप्रतीतेः, स क्रमो ग्राह्य एव । यच्चोक्तम्। न हि जननीजनकयोर्जन्यं प्रति संनिकर्षतारतम्यमस्तीति तदपि स्थवीयः । गर्भधारणपोषणादिभिरत्यावश्यकत्वेन जन्येऽतिशयान्तरमुत्पादयति माता । पिता तु निषेककृदेव । अदृष्टात् दृष्टस्यैव प्राबल्यात् दृष्टोपकाराधिक्यान्मातुः संनिकर्षातिशयोऽस्तीति ।
यदपि चोक्तं गोत्रजा इति सरूपैकशेषत्वात् भ्रातृतत्सुतादिभिः सह बद्धक्रमत्वात् पितामह्या भ्रातृसुतानन्तरमपि प्रवेशाभाव इति तदसाधु । विजातीयानामपि स्त्रीणां पुंसां च गोत्रजाश्च गोत्रजाश्च इत्येकविभक्त्यन्तत्वाविरोधात् । जातिद्रव्यगुणा इतिवत् । नापि बद्धक्रमता । पित्रादिभ्रातृसुतानां गोत्रजानां च न बद्धक्रमता । अतः पत्न्यभावे दुहिता तदभावे दौहित्रस्तदभावे माता तदभावे पिता तदभावे भ्रातरस्तदभावे भ्रातृसुतास्तदभावे पितामहीति च क्रमः । यथाह बृहस्पतिः - - ' भार्यासुतविहीनस्य तनयस्य मृतस्य तु । माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥' इति । अस्यार्थः । सुतविहीनस्य मृतस्यास्य रिक्थहरी भार्या । तदभावे तनया । तदभावे तत्पुत्रः । तदभावे माता । मात्रनुज्ञया मृतस्य भ्राता वा । भ्रात्रा गृहीतेऽपि मात्रनुज्ञया गृहीतत्वादेव मात्रा गृहीतमेवेति मातुरेव पितुः पूर्व रिक्थभाक्त्वमिति । केचन बृहस्पति