________________
१४९२
व्यबहारकाण्डम्
'तपत्न्यादिस्त्रीव्यतिरिक्तविषयार्थवादश्रुतिरिति सर्वे सुस्थ म् | पत्नी बहुत्वे समं विभज्य अपुत्रभर्तृधनग्रहणं सर्वासां युक्तम् । स्मृच. २९४ चशब्देन सूचितस्य दौहित्रस्यानन्तरमेव माता• पितरौ समसमये धनभाजौ तयोरवान्तरक्रमन्यायाभावादित्यवमन्तव्यो ऽभिप्रायः ।
याज्ञवल्क्योक्ताभिप्रायमबुध्वा कैश्चित्पण्डितम्मन्यैः कश्चिन्न्याय उत्प्रेक्षितो मातुर्गर्भपोषणधारणद्वाराऽत्यन्तो पकारित्वादेव 'सहस्रं तु पितुर्माता गौरवेणातिरिच्यते' इति स्मरणाच्च, पितरि विद्यमानेऽपि मातुरंशग्रहणाधिकार इति नायं, न्यायो मातुरादावंशग्रहणाधिकारापादनायालम् । पितुरपि बहुधा संनिधातृत्वात् विद्याप्रदत्वात् 'तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात्' इति `स्मरणाच्च । अन्यैः पुनरन्ययोत्प्रेक्षितम् । पिता सपत्नीपुत्रेष्वपि साधारणः । माता तु न साधारणीति प्रत्यासत्यतिशयोऽस्तीति विप्रलम्भसदृशमिदं न हि जननीजनकयोर्जन्यं प्रति संनिकर्षतारतम्यमस्ति । न च बहुसंबन्धेन साक्षात्संबन्धनिबन्धनायाः प्रत्यासत्यतिशयो व्यपैति ।
यदपि तैरेवोक्तं 'एकशेषग्रहणेऽपि कथंचिन्मातुः प्राथम्यमवगम्यत' इति । तदपि मन्दम् । 'सारस्वतौ भवत' इत्युत्पत्तिवाक्ये क्रमावगत्यभावेन याज्यात्क्रमात् प्रधानयोः क्रमः पञ्चमे दर्शितो न पुनः सारस्वतावित्येकशे त एव कथञ्चित्क्रमावगतिरुपपादितेति न निबन्धमेव (१) मातुः प्राथम्यसमर्थनम् । अत एव श्रीकरेण पित्रोर्विभज्य धनग्रहणमुक्तं तदप्ययुक्तम् । 'पिता हरेदपुत्रस्य ऋक्थं' 'स्वर्यातस्य ह्यपुत्रस्य माता दायमवाप्नुयात्' इत्येताभ्यां त्रीहियवयोर्निरपेक्षसाधनत्ववन्निरपेक्षस्वामित्वप्रतीतेः । अपरे पुनरन्यथा मातुः प्रत्यासत्तिमुन्नयन्ति । "सोदरस्य तु सोदर' इत्यत्र मातृद्वारेण सोदरवचनान्मातुः प्रत्यासत्तिर्गम्यते इति । तदपि कुशावलम्बनमात्रे | तथाहि भ्रातुर्भिन्नोदरादेकोदरयोरभिन्नमातृकत्वेन प्रत्यासत्तौ विशेषोऽस्तु । जनकात्पुनर्जनन्याः पुत्रं प्रति प्रत्यासत्तौ विशेषः किं निबन्धनो भविष्यतीति न विद्मः । तस्मादत्र पित्रोः सद्भावे कः क्रम इत्यपेक्षायां वक्तव्यो विशेषः । यत्तक्तं शम्भुना अव्यक्तधनत्वाद्दम्पत्योर्येन केन - चिद् गृह्यमाणमुभयार्थमिति न विशेषो वक्तव्य इति ।
तदयुक्तम् । मात्रा गृह्यमाणं मात्रार्थमेव अध्यग्न्यादि - स्त्रीधनवत् नोभयार्थमिति विशेषो वक्तव्य एव सोऽभिधीयते । न्यायाभावादत्र क्रमे वचनमेव शरणम् । वचने च प्रथमं पितुरेव धनग्रहणाधिकारः प्रतिपाद्यते । तथा च ' अपुत्रस्य धनं पत्न्यभिगामि तदभावें दुहितृगामि' इत्यनुवृत्तौ बृहद्विष्णुः 'तदभावे तु पितृगामि तदभावे मातृगामी ति । यद्यप्यपुत्रधनस्य दुहित्रभावे पितृगामित्वमुक्तं तथापि दुहित्रभावे दौहित्रगामित्वस्य न्यायवचनाभ्यामुक्तत्वाद्दौहित्राभावे पितृगामित्वमवगन्तव्यम् । दौहित्रस्यापि दुहितृकोटित्वात्प्रथमदौहित्रगामित्वानभिधानं वृहद्विष्णोरिति च मन्तव्यम् । मात्रभावे सोदरभ्रातृगामित्वं एकमातृकत्वेन मृतभ्रातुः प्रत्यासत्यतिशयलक्षणन्यायात्प्राप्तम् । तदभावे भिन्नोदरगामित्वं च । यद् याज्ञवल्क्येन न्यायमूलकक्रममेवाभिदधताऽभिहितं 'पितरौ भ्रातरस्तथा' इति भ्रातरः सोदरा एवात्र भिन्नोदरापेक्षया धनिनं प्रति प्रत्यासन्नत्वादभिप्रेताः । ततश्च मात्रभावे सोदरभ्रातृगाम्यपुत्रधनमित्युत्सर्गे याज्ञवल्क्येन दर्शितः । तदा सोदरत्वस्वरूपविशेषविवक्षायामपि भ्रातर इति सामान्यशब्दप्रयोगेण सोदराभावे भिन्नोदरा इत्युत्सर्गस्तेनैव दर्शितः । उत्सर्गस्य वक्ष्यमाणविषयद्वयेऽपवादमाह कात्यायनः'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥' तत्पि
तुर्माता विभक्तमृतापुत्रस्य पितुर्माता पितामहीति यावत् । पुत्रग्रहणमासन्नतरोपलक्षणार्थम् । तेन पुत्रादिदौहित्रान्तानां पित्रपेक्षया दृष्टादृष्टोपकारादिसंबन्धेनासन्नतराणामभावे प्रथमं पिता हरेत् इत्यर्थः । वाशब्दोऽत्र योग्याभावविकल्पार्थः स्वाम्याख्ये सिद्धरूपे वस्तुनि, न हि वस्तुनि विकल्प इति न्यायेन तुल्यवद्विकल्पासंभवात् ।
एवं चैतदुक्तं भवति । पित्रभावे भ्राता तदभावे जननी तदभावे पितामहीति क्रमादुक्तं पाठक्रमेणेत्यर्थः । अनेनैव क्रमेण विभक्तसंस्थितविषये मनुरपि पुत्रपत्नीदुहितृदौहित्राणामासन्नतराणामभावमपुत्रस्येत्युपलक्षणशब्देनोक्त्वा पितृभ्रातृमातृपितामहीनां धनग्रहणं सार्द्धश्लोकेनाह 'पिता हरेदपुत्रस्य ऋक्थं भ्रातर एव वा । अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च