________________
व्यवहारकाण्डम्
. १४९०
नोपपद्यते ॥' इत्यनेन पञ्चमो निषिद्धः । किन्तु पितुरपि प्रपौत्रपर्यन्ताभावे पितृदौहित्रस्याधिकारो बोद्धव्यः धनि दौहित्रस्येव । एवं पितामहप्रपितामहसंततेरपि दौहित्रा न्तायाः पिण्डप्रत्यासत्तिक्रमेणाधिकारो बोद्धव्यः । 'दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवदिति हेतोरविशेषात् । स्वदौहित्रवत् पित्रादिदौहित्रस्यापि तद्भेोग्यपिण्डदानेन संतारकत्वात् । अत एव मनुना पृथगमीषामधिकारो न दर्शितः । ' त्रयाणामिति 'अनन्तर' इति (मस्मृ. ९ | १८६-७) वचनद्वयेनैव संगृहीतत्वात् । याज्ञवल्क्येन च पित्रादिदौहित्रस्यापि तद्गोत्रजातस्य पिण्डदानानन्तर्यक्रमे णाधिकारप्रतिपत्त्यर्थं गोत्रजपदं कृतं सपिण्डस्त्रीणां च व्युदासार्थं तासामतद्गोत्रजातत्वात् । अत एव अर्हति स्त्रीत्यनुवृत्तौ, बौधायनः - 'न दायं निरिन्द्रिया अदा - याश्च स्त्रियो मताः इति श्रुतेः ।' न दायमर्हति स्त्रीत्यन्वयः, पत्न्यादीनां त्वधिकारो विशेषवचनादविरुद्धः । प्रपिता महसंतानस्य दौहित्रान्तस्य मृतभोग्यपिण्डदातुरभावे मृतदेयमातामहादिपिण्डदानेन पिण्डानन्तर्यात् मातुलादिग्रहणार्थ बन्धुपदं प्रयुक्तवान् याज्ञवल्क्यः, मनुना तु पिण्डदानानन्तर्यवचनेवैव दर्शितम् ।
मृतदेय मातामहादिपिण्डत्रयस्य मातुलादिभिर्दीयमानत्वात् मातुलाद्यर्थत्वं धनस्य वनद्वारेण तस्यापि तत्पिण्डदातृत्वात् । धनार्जनस्य हि प्रयोजनद्वयं भोगा र्थत्वं दानाद्यदृष्टार्थत्वं च । तत्रार्जकस्य तु मृतत्वात् धने भोग्यत्वाभावेनादृष्टार्थत्वमेव शिष्टम् । अत एव बृहस्पतिः–‘समुत्पन्नाद्धनादर्द्धं तदर्थे स्थापयेत् पृथक् । मासषाण्मासिके श्राद्धे वार्षिके च प्रयत्नतः ॥ तथा आप स्तम्बः——‘अन्तेवासी वाऽर्थान् तदर्थेषु धर्मकृत्येषु प्रयोजयेत् दुहिता वा ।' मासिकादिना तद्भोगार्थ धर्मकृत्येविति अदृष्टार्थत्वे हेतुः । अत एव दत्तभुक्तफलं धनमिति स्मरन्ति । तस्मात् तद्भोग्यपिण्डदातुरभावे तद्देय पिण्डदातुर्मातुलादेरधिकारो न्याय्य एव । अत एव 'त्रया णामि'ति ‘अनन्तर' इति वचनद्वयेनैवायमर्थो दर्शित इति मत्वा तदनन्तरं मनुनोक्तं- 'अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ।' (मस्मृ. ९।१८९ ) । सकुल्यो वृद्धप्रपितामहादिसंततिः समानोदकाश्च भण्यन्ते । तेषा मुपन्यासक्रमेणाधिकारक्रमः । तदभावे आचार्यशिष्या
दीनाम् | अन्यथा कथं मातुलादीनां मनुविरुद्धोऽन्तर्भावः शक्यते । तस्मात् मनुना पूर्ववचनद्वयप्रतिपादितोऽयमर्थ इत्यविरोधः ।
*दा. २०३-११
(४) 'अपुत्राशयनं भर्तुः' इत्यादिमनुवाक्योक्त गुणा पत्नी पितृभ्रातृसद्भावेऽपि स्वयमेव पतिधनं समग्रं गृह्णाति, पत्युश्च श्राद्धादि करोति । अनेनैवाभिप्रायेण बृहस्पतिनाऽप्युक्तं 'पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया । पुत्राभावे तु पत्नी स्यात्तदभावे सहोदरः ॥' इति । तथा या पितृधनानुपघातेन स्वयमर्जयितुर्भर्तुः परिचय यथावत्कृतवती संयतेन्द्रिया च सा भर्तुः सकलमेव धनं देवरेषु विद्यमानेष्वपि गृह्णाति । या तु तारुण्यादिना संभावितव्यभिचारा तस्यां विद्यमानायामपि मृतकस्य भर्तुर्भ्रातृगाम्येव वित्तं न तु पत्नीगामि । तत्रापि चेषा व्यवस्था - यदि तद्भ्रातृभिः स्वपितृधनानुपघातेन. संभूय समुत्थानेन धनमर्जितं, तदा पित्रोः सद्भावेऽपि भ्रातर एव धनग्राहिणः । यदा तु पितृपितामहाद्युपार्जितं धनं, तदा न भ्रातॄणां धनभागित्वं किन्तु पित्रोरिति, एवं विषयव्यवस्थायां सर्ववाक्याविरोधः ।
यदपि चार्थवादवचनम् -' तस्मात्स्त्रियो निरिन्द्रिया अ. दायादाः' इति । तदपि यथाप्राप्ति वर्णनीयमनुवादकत्वादिति पुत्र सद्भावविषयत्वेन व्याख्येयम् । अस्ति च स्त्रीणामेकाकिनीनामपि पूर्तधर्माधिकारः । तेन तत्र धनं ता उपयोश्यन्ते । यत्तु नारदेन – 'भ्रातृणामप्रजाः प्रेयात्' इत्यभिधायोक्तम्- 'भरणं चास्य कुर्वीरन्स्त्रीणामा जीवित - क्षयात् । इत्यादि, तत्पुनर्भूस्वैरिण्यादिविषयं वेदितव्यम् । स्त्रीशब्दमात्र प्रयोगात् । एवं पल्यामसत्यां पितृसमानवर्णा दुहितरोऽपुत्रधनस्वामिन्यः । अप. (पु.७४२-३)
माता च पिता च पितरौ तौ पुत्रस्य पत्न्या दुहितृभिश्च रहितस्य धनग्राहिणौ । पित्रोरभावे भ्रातरस्ते तु सोदरा एव प्रत्यासन्नतरत्वात् । ते हि मृतभ्रापेक्षयैकस्यैव मातृवर्गस्य श्राद्धकारिणो न तु सापत्नाः । यत्तु शंखलिखितपैठीनसिवचः - ' अपुत्रस्य स्वर्यातस्य भ्रातृगामि धनं तदभावे मातापितरौ लभेतां पत्नी वा ज्येष्ठः' । इत्यादि,
* शेषं जीमूतवाहनमतं मृतापुत्रधनाधिकारक्रमस्थमनुबृहस्पतिवचनेषु द्रष्टव्यम् । दात. दावत् क्रमः उपपत्तिश्च । संसृष्टौ विशेषः संसृष्टिविभागेऽनुसंधेयः ।