________________
१४८६
।
कुर्यात् सर्वेषां नान्यजातिः कथंचन ॥ यस्तु तत् कार । येन्मोहात् स्वजात्या स्थितयान्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥' (मस्मृ. ९।८६-७) सवर्णायाः पुनरभावे अनन्तरवर्णा पत्नी । यथा विष्णु: - 'सवर्णाया अभावे त्वनन्तरयैवापदि न त्वेव द्विजः शूद्रया ।' (विस्मृ. २६।३) 'धर्मकार्य कुर्यादित्यनुवर्तते । (विस्मृ. २६।१) तेन ब्राह्मणस्य ब्राह्मणी पत्नी तदभावे क्षत्रियायापदि न तु परिणीते अपि वैश्याशूद्रे, क्षत्रियस्य क्षत्रिया पत्नी तदभावे वैश्यापि अनन्तरवर्णत्वात् न शूद्रा, वैश्यस्य वैश्यैवैका । न त्वेव द्विजः शूद्रयेति द्विजमात्रस्यैव शूद्रानिषेधात् ।
व्यवहारकाण्डम्
अनेनैव पत्नीभावक्रमेण धनाधिकारिता बोद्धव्या । अतः परिणीतस्त्रीणामप्यपत्नीत्वात् तदभिप्रायकमेव नारदवचनम् । यथा 'भ्रातृणामप्रजाः प्रेयात् कश्चित् वै प्रव्रजेद्यदि । विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन् स्त्रीणामाजीवितक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु च ॥' ( नास्मृ. १६।२५- ६ ) । तथा तस्यैव । 'अन्यत्र ब्राह्मणात् किन्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ।।' (नास्मृ. १६ । २५) । तदीयस्त्रीणामपत्नीनां वर्त्तनधनदानं पत्नीनां पुनः कृत्स्नधनेऽधिकारितेत्यविरोधः । अत एव बृहस्पतिः - 'ये - पुत्राः क्षत्रविट्शूद्राः पत्नी भ्रातृविवर्जिताः । तेषां धनं 1 हरेद्राजा सर्वस्याधिपतिर्हि सः ॥' पत्न्यभावे राज्ञो धनसंबन्धं दर्शयति । नारदस्तु तत्स्त्रीणां जीवनं दद्यादिति वर्त्तनधनं दत्त्वा राज्ञा सर्वधनं ग्रहीतव्यमिति यो विरोधः स पत्नी स्त्रियोर्भेदेन समाधेयः, अत एव परन्यधिकारवचनेषु पत्नीपदानुस्मृतिः वर्तनवचनेषु च स्त्रीनार्यादिशब्दप्रयोगः । यदपि देवलवचनम् -' ततो दायमपुत्रस्य विभजेरन् सहोदराः । तुल्या दुहितरो वापि प्रियमाणः - पितापि वा ॥ सवर्णा भ्रातरो माता भार्यां चेति यथाक्रमम् । एषामभावे गृह्णीयुः कुल्यानां सहवासिनः ॥' तुल्याः सवर्णा दुहितरः । सवर्णा भ्रातरः सापत्ना अभि मताः । सोदरभ्रातॄणां स्वपदोपात्तत्वात् विशेषणानुपपत्तेः । तत्रापि सहोदरादिभार्यान्तस्य लिखनक्रमो नाघि कारक्रमार्थः विष्ण्वाद्विविरोधात्, किन्तु विष्ण्वाद्युक्त
M
क्रमेण गृह्णीयुरित्येतदर्थः, लिखनक्रमेऽनास्थाव्यञ्जनार्थमेव दुहितरो वापि पितापि वेति अपि वा शब्दमुभयत्र प्रयुक्तवान्, तच्चान्यत्राप्यनुषज्यते तेन सहोदरा वा दुहितरो वा पिता वेत्यनास्था कीर्तनक्रमस्य देवलवचनेन दर्शिता ।
यच्च बालकेनोक्तं असवर्णाविषयं वा युवत्यमिप्रायं वा अविभक्तसंसृष्टविषयं वा शंखादिवचनमिति । तेन अव्यवस्थितशास्त्रार्थकथनेनात्मनो बालरूपत्वमेव प्रकटीकृतं संदेहादेकतरानुष्ठानानुपपत्तेः । यदप्यनूढावरुद्धाभिप्रायं वर्त्तनवचनं वर्णितं तदपि धर्मपत्नीनामनुग्रहार्थमिति यमेव वर्त्तनविधानविषयस्य स्त्रीणां पूर्वमेव दर्शितत्वात् । किं च सवर्णत्वासवर्णत्वाभ्यां पत्नीकृतविशेषेऽपि पित्रोर्भ्रातॄणां चाधिकारे कथं विरोधः समाधेयः । संसर्गासंसर्गाभ्यां चेत् स एव विशेषः सर्वव्यापी भवतु किं पत्नीगोचरसवर्णादिविशेषपरिकल्पनेन अयमपि विशेषो दूषितोऽस्माभिः पूर्वप्रपञ्चेन । सोदरासोदरकृतश्च विशेषो बृहस्पतिना पराहतः । तदाह - 'सकुल्यैर्विद्यमानैस्तु पितृमातृसनाभिभिः । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' सनाभयः सहोदराः । तेषु सत्स्वपि पत्न्या धनसंबन्धं बोधयति तद्भागशब्दात् कृत्स्न एव भर्तृभागोऽवगम्यते न पुनस्तदेकदेशः । तस्मादस्मद्दर्शितैव व्यवस्था शास्त्रार्थः । पत्नी च भर्तृधनं भुञ्जीतैव परं न तु तस्य दानाधानविक्रयान् कर्तुमर्हति । तदाह कात्यायन: - ' अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता । भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥' गुरौ श्वशुरादौ भर्तृगृहे स्थिता यावजीवं भर्तृधनं भुञ्जीत न तु स्त्रीधनवत् स्वच्छन्दं दानाधानविक्रयानपि कुर्वीत, तस्यां तु मृतायां पत्न्यभावे ये दुहित्रादयो दायाधिकारिणस्ते गृह्णीयुः न पुनर्ज्ञातयः तेषां दुहित्रादिभ्यो जघन्यत्वात् तद्बाधकत्वानुपपत्तेः पत्नी हि तेषां बाधिका तदधिकारस्य प्रागभावे प्रध्वंसे च बाधकाभावस्याविशेषात् बाधानुपपत्तेः ।
स्त्रीधनाधिकारिणो गृह्णीयुः तेषां स्त्रीधनविषयत्वात् कात्यायनेनैव च स्त्रीधनाधिकारिणां वचनान्तरैरुक्तत्वात् पुनरुक्तत्वापत्तेश्च । अतः पत्नी दुहितरश्चेत्या दिना ये पूर्वपूर्वस्याभावे परभूताधिकारिणो निर्दिष्टास्ते पत्न्यधिकारप्रागभावे गृह्णीयुस्तथा जाता -
यथा