________________
दायभाग:----मृतापुत्रधनाधिकारक्रमः
१४८३
तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । बृह | मातरि वृत्तायां पितुर्माता पितामही धनं हरेन्न पिता । यतः
स्पतिरपि –' भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता । अङ्गादङ्गात्संभवति पुत्रवदुहिता नृणाम् । तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥' इति । तत्र चोढानूढा समवायेऽनूढैव गृह्णाति । 'तदभावे तु दुहिता यद्यनूढा भवेत्तदा' इति विशेषस्मरणात् । तथा प्रतिष्ठिता प्रतिष्ठितानां समवाये अप्रतिष्ठितैव तदभावे प्रतिष्ठिता । 'स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां च' इति गौतमवचनस्य पितृधनेऽपि समानत्वात् । न चैतत्पुत्रिकाविषयमिति मन्तव्यम् । 'तत्समः पुत्रिकासुत' इति पुत्रि - कायास्तत्सुतस्य चौरस समत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दाद्दुहित्रभावे दौहित्रो धनभाक् । यथाह विष्णुः - 'अपुत्रपौत्रसंताने दौहित्रा धनमाप्नुयुः । पूर्वेषां तु स्वधा कारे पौत्रा दौहित्रिका मताः ॥' इति । मनुरपि - ' अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति (मस्मृ. ९ | १३६ ) ।
पितृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्वेव गच्छतीति पितामहयेव गह्वातीति । तदप्याचार्यो नानुमन्यते । विजातीयपुत्राणामपि धनग्रहणस्योक्तत्वात् 'चतुस्त्रिद्येकभागाः स्युः' (मस्मृ. ९।१८९) इत्यादिनेति । यत्पुनः - 'अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थिति:' इति मनुस्मरणं तन्नृपाभिप्रायं, न तु पुत्राभिप्रायम् । भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुः भिन्नोदराणां मात्रा विप्रकर्षात् । 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति स्मरणात् ।
सोदराणामभावे भिन्नोदरा धनभाजः । भ्रातृणामप्यभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः । भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात् । यदा त्वपुत्रे भ्रातरि स्वते तद्भ्रातृणामविशेषेण धनसंबन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्भ्राता मृतस्तदा तत्पुत्राणां पितृतोऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे पितृतो भागकल्पनेति युक्तम् ।
तदभावे पितरौ मातापितरौ वनभाजौ । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वा देकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकशेषाभावपक्षे च मातापितराविति मातृशब्दस्य पूर्व श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धन संबन्धेऽपि क्रमापेक्षायां प्रतीतक्रमा नुरोधेनैव प्रथमं माता धनभाक् तदभावे पितेति गम्यते । किं च पिता पुत्रान्तरेष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्यतिशयात् 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति वचनान्मातुरेव प्रथमं धनग्रहणं युक्तम् । न च सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपि तु समानोदकादिष्वपि, अविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्यस्मादेव वचनादवगम्यत इति । मातापित्रोर्मातुरेव प्रत्यासत्यतिशयाद्धनग्रहणं युक्ततरम् । तदभावे पिता धनभाक् ।
भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । 'मातर्यपि च वृत्तायां पितुर्माता धनं हरेत् (मस्मृ. ९।२१७ ) इति मात्रनन्तरं पितामह्या धनग्रहणे प्राते पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् 'पितुर्माता धनं हरेत्' इत्यस्य वचनस्य धनग्रहणाधिकार प्राप्ति मात्रपरत्वादुत्कर्षे तत्सुतानन्तरं पितामही गृह्णातीत्यविरोधः । पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसंतानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसंतानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूदवश्चेत्येवमासप्तमात्समान गोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समानोदकानां धनसंबन्धः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः - 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति ।
पित्रभावे भ्रातरो धनभाजः । तथा च मनुः'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति । (मस्मृ. ९।१८५) । यत्पुनर्धारेश्वरेणोक्तम् । 'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरे द्धनम् ||' इति (मस्मृ.९।२१७) मनुवचनाजीवत्यपि पितरि