________________
६०२
असा.
दानेन गमयन्ति । येदन्नमद्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि । वैश्वानरस्य महतो महिना शिवं मह्यं मधुमदस्त्वन्नम् ॥
हे देवाः अनृतेन असत्यवदनेन अन्यदीयं अपहृत्य यद् अन्नं अनि भक्षयामि । उत्तमर्णाय पुनर्दास्यन् अदास्यन् पुनः प्रदानं अकरिष्यंश्च संगृणामि दास्यामीति केवलं प्रतिजानामि । तत् सर्व अन्नं वैश्वानरस्य विश्वनरहितस्य महतः अतिशयितप्रभावस्य देवस्य महिम्ना माहात्म्येन मह्यं शिवं सुखकरं मधुमत् माधुर्थवत् अस्तु
भवतु ।
व्यवहारकाण्डम्
असा.
अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि । इदं तदने अनृणो भवामि त्वं पाशान् वितं वेत्थ सर्वान् ॥
अपमित्यं अपमातव्यं अपाकर्तव्यं धान्यादिकं ऋणं उत्तमर्णाद् गृहीतं अप्रतीत्तं पुनस्तस्मै न प्रत्यर्पितम् । ईदृशं यहणमेव अहं अस्मि भवामि । ऋणबाहुल्यख्यापनार्थं तादात्म्यव्यपदेशः । यस्मादेवं तस्माद्बलिना बलबता येन ऋणेन शासितुः यमस्य वशे चरामि हे अभे त्वत्प्रसादाद् इदमिदानीं तत् तेन ऋणेन अनृणः ऋणरहितो भवामि । त्वं खलु तान्सवन् ऋणोद्भवान् पारलौकिकान् पाशान् बन्धनरज्जुविशेषान् विचृतं विचर्तितुं मोचयितुं वेत्थ जानासि । शक्तो भवतीत्यर्थः ।
असा.
sa सन्तः प्रतिद्म एनज्जीवा जीवेभ्यो नि हराम एनत् । अपमित्य धान्यं यज्जघसाहमिदं तद अनृणो भवामि ॥
इह लोके एव सन्तः विद्यमाना एनदृणं प्रति दद्मः उत्तमर्णाय प्रत्यर्पयामः । एतदेव विवृणोति । जीवाः इह लोके जीवन्तः एव जीवेभ्यः जीवद्द्भ्य उत्तमर्णेभ्यो देहत्यागात् पुरैव एनदृणं नि हरामः नितरां नियमेन वा अपाकुर्मः। धान्यं व्रीहियवादिकं उत्तमर्णसकाशाद् अपमित्य प्रस्थाढकादिसंख्यया परिवृत्य गृहीत्वा
(१) असं. ६ | ७१ ३. २।४।८; बैसू. २४/१५ (३) असं. ६।११७ २,
(२) असं. ६ | ११७|१; गोबा. कौसू. ६७।१९ : १३३ १.
यदहं जघस भक्षितवान् अस्मि । हे अग्ने इदमिदानीं तत् तस्मात् परकीयधान्यभक्षणात् त्वप्रसादेन अनृणः ऋणरहितः ऋण निमित्तनरकपातरहितो भवामि । असा
अनृणा अस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणाः स्याम । ये देवयानाः पितृयाणाश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ||
हे अ त्वत्प्रसादाद् अस्मिन् भूलोके अनुणाः । ऋणमत्र लौकिकं वैदिकं च परिगृह्यते । लौकिकं तावद् उत्तमर्णाद् गृहीतं हिरण्यधान्यादिकं प्रसिद्धम् । वैदिकं तु 'जायमानो वै ब्राह्मणस्त्रिभिणवा जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति [ तैसं. ६ | ३ | १०१५ ] तेन सर्वेण ऋणेन रहिताः स्याम भवेम । परस्मिन् लोके स्वर्गादौ एतद्देहपरित्यागेन दिव्यशरीरपरिग्रहेण सुकृतफलभोगस्थानेऽपि अन्रणाः स्याम । ऋणादाननिमित्तो भोगप्रतिबन्धस्तत्रापि मा भूद् इत्यर्थः । तृतीये लोके स्वर्गादपि उत्कृष्टे नाकपृष्ठादौ वयं अनृणा भवेम । अन्येऽपि ये लोकाः- देवयानाः देवा एव येषु यान्ति गच्छन्ति ते तथोक्ताः । ये च लोकाः पितृयाणाः पितॄणां असाधारण भोगभूमयः तान् सर्वान् लोकान् तत्प्राप्त्युपायभूतान् पथः मार्गाश्च । यद्वा लोक्यन्ते इति लोकाः पन्थानः देवानेव यैर्यान्ति ते देवयानाः पितृनेव यैर्यान्ति ते पितृयाणाः । ये एवं उभये विभिन्ना मार्गाः तान् सर्वान् अनृणाः ऋण प्रतिबन्धरहिताः सन्तः आ क्षियेम अभिगच्छेम ।
असा.
येस्ताभ्यां चक्रम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः । उग्रपश्ये उग्रजितौ तदद्यात्सरसावनु दत्तामृणं नः ॥
हस्ताभ्यां इन्द्रियाणामुपलक्षणं एतत् । हस्तपादादीन्द्रियैः किल्बिषाणि पापानि यत् चक्रम वयं कृतवन्तः स्मः | अक्षाणां इन्द्रियाणां गत्नुं गन्तव्यं शब्दस्पर्शादिविषयं उपलिप्समानाः उपलब्धुं अनुभवितुं इच्छन्तः । यद् ऋणं चक्रमेत्यर्थः । हे उग्रपश्ये तीक्ष्णदर्शने । हे उग्रजितौ उग्रान् उद्गूर्णबलान् प्रतिकर्तुं अशक्यान्
(१) असं. ६ | ११७ ३ ; तैब्रा. ३।७।९।८; तैआ. २।१५।१६ • आपश्री . १ ३।२२।५; माश्रौ. २।५।५।२२.
(२) असं. ६।११८ १; तैचा. ३।७।१२।३,