________________
१४३०
व्यवहारकाण्डम्
कौटिलीयमर्थशास्त्रम्
स्त्रीणां धनागमाः । स्त्रीणां वृत्तिरूपो दायः । स्त्रीधने भर्तुरधिकारमर्यादा । मृते भर्तरि पुनर्विवाहे नियोगे वा कृतेऽकृते वा
स्त्रीधनकृत्यम् । स्त्रीधनविभागः ।
'पितृप्रमाणाश्चत्वारः पूर्वे धर्म्या : मातापितृप्रमाणाः शेषाः । तौ हि शुल्कहरौ दुहितुः । अन्यतराभावेऽन्यतरो वा । द्वितीयं शुल्कं स्त्री हरेत । सर्वेषां प्रीत्यारोपणमप्रतिषिद्धम् । वृत्तिराबन्ध्यं वा स्त्रीधनम् । परद्विसाहस्रा स्थाप्या वृत्तिः । आबन्ध्यानियमः |
तदात्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुमदोषः । प्रतिरोधकव्याधिदुर्भिक्ष'भयप्रतीकारे धर्मकार्ये च पत्युः । संभूय वा दम्पत्योर्मिथुनं प्रजातयोस्त्रिवर्षोपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत । गान्धर्वासुरोपभुक्तं सवृद्धि'कमुभयं दाप्येत । राक्षस पैशाचोपभुक्तं स्तेयं दद्यात् । इति विवाहधर्मः ।
I
मृते भर्तरि धर्मकामा तदानीमेवास्थाप्या भरणं शुल्कशेषं च लभेत । लब्ध्वा वा विन्दमाना सवृद्धिकमुभयं दाप्येत । कटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत । निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः । श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत । ज्ञातिहस्तादभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः । न्यायोपगतायाः प्रतिपत्ता स्त्रीधनं गोपायेत् । पतिदायं विन्दमाना जीयेत । धर्मकामा भुञ्जीत । पुत्रवती विन्दमाना स्त्रीधनं जीयेत । तत्तु स्त्रीधनं पुत्रा हरेयुः । पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात् बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनमवस्थापयेत् । कामकारणीयमपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात् । अपुत्रा पतिशयनं पाल
।
गुरु स्त्रीधनंआ आयुः क्षयाद् भुञ्जीत, आपदर्थं हि स्त्रीधनम् । ऊर्ध्वं दायादं गच्छेत् । जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन् । अपुत्रायाः दुहितरः । तदभावे भर्ता । (१) कौ.३ २.
शुल्कमन्वाधेयमन्यद् वा बन्धुभिर्दत्तं बान्धवा हरेयुः । इति स्त्रीधनकल्पः ।
पितृप्रमाणा इति । एतेष्वष्टसु विवाहेषु पूर्वे ब्राह्मादयश्वत्वारः, पितृप्रमाणाः धर्म्याः पितृप्रमाणत्वाद् धर्मयुक्ताः । अन्ये त्वधर्म्या इत्यर्थसिद्धम् । मातापितृप्रमाणा इति । माता पिता चेत्युभौ प्रमाणभूतौ येषां ते तथाभूताः, शेषाः गान्धर्वादयः । कस्मान्मातापितृप्रमाणकत्वमित्याह - तौ हीत्यादि । मातापितरौ हि, शुल्कहरौ दुहितुः कन्याशुल्कं गृह्णीतः । अन्यतराभावे अन्यतरो वा माता पिता वा शुल्कं हरति । एवं विवाहधर्म उक्तः ।
स्त्रीधनं प्रस्तौति - द्वितीयमिति । द्वितीयं शुल्कं वरसकाशग्राह्यपरिभाषितशुल्कव्यतिरिक्तं शुल्कं प्रीतिवशाद् दत्तं, स्त्री कन्यैव हरेत, न तु पितरौ । सर्वेषां प्रीत्यारोपणमप्रतिषिद्धमिति । वरेण न केवलं वरबन्ध्वादिभिः सर्वैरपि कन्याया देहे भूषणादिनिवेशनं अप्रतिषिद्धं अनिवारितम् । अर्थात् तदपि कन्यैव हरेत । तदिदं कन्याहरणीयं स्त्रीधनशब्दितं द्विरूपमित्याह - वृत्तिराबन्ध्यं वा स्त्रीधनमिति । वृत्तिर्भूमिहिरण्यादिर्जीविकार्था, आबन्ध्यं भूषणादि । परद्विसाहस्रा कार्षापणसहस्रद्वयपरमावधिः, वृत्तिः, स्थाप्या कल्पयितुमर्हा । आबन्ध्यानियमः आभरणस्य सङ्ख्यानियमाभावः । तदिति । तत् स्त्रीधनं, आत्मपुत्रस्नुषाभर्मणि स्वस्य पुत्राणां तद्भार्यायाश्च पोषणे, प्रवासाप्रतिविधाने च भर्तृविदेशगमननिमित्ते जीविकोपायविरहसंकटे च भार्यायाः, भोक्तुं, अदोषः दोषाभावः । प्रतिरोधकेत्यादि । 'सांप्रतमेवादत्त्वा मा याही'त्येवं रोधेन हरणं प्रतिरोधक तत्प्रतीकारे व्याधिप्रतीकारे दुर्भिक्षप्रतीकारे भयप्रतीकारे च, धर्मकार्ये च विषये, पत्युः स्त्रीधनव्ययकारिणः, अदोष इत्यनुवर्तते। स्त्रीधनस्य व्ययाद् भर्तुरदोष इत्याह-संभूय वेति । दम्पत्योः, मिथुनं प्रजातयोः अपत्यद्वयं यद्वा पुमपत्यमेकं स्त्र्यपत्यं चैकं जनितवतो:, संभूय मिलित्वा, त्रिवर्षोंपभुक्तं च स्त्रीधनं, धर्मिष्ठेषु विवाहेषु ब्राह्मादिषु चतुर्षु, नानुयुञ्जीत नार्थयेत प्रत्यर्पयेदिति । गान्धर्वेत्यादि । गान्धर्वापुरोपभुक्तं, उभयं धर्मकार्यादिविनियुक्तं संभूय त्रिवर्षोपभुक्तं च समनन्तरोक्तं द्विरूपं स्त्रीधनं सवृद्धिकं, दाप्येत निर्यात्येत । राक्षसेत्यादि । राचसपैशाच्ोपभुक्तं