________________
१४२०
व्यवहारकाण्डम्
भागाच्चतुर्थाशभागिनी सा कर्तव्या । एतदुक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति तस्य चतुर्थोऽशस्तस्या भवति । तद्यथा । यदि कस्यचि ब्राह्मणस्यैका पत्नी पुत्रश्चैकः कन्या चैका तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्वा शेषं पुत्रो गृह्णीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभन्य तुरीयमंशं कन्यायै दत्वा शेषं द्वौ पुत्रौं विभज्य गृह्णीतः । अथ त्वेकः पुत्रो द्वे कन्ये तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्वाऽवशिष्टं सर्वे पुत्रो गृह्णातीत्येवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस्त्रींश्चतुर्धा विभज्य तुरीयांश क्षत्रियाकन्यायै दत्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्वा शेषं सर्व ब्राह्मणीपुत्रौ विभज्य गृह्णीतः। एवं जातिवैषम्ये भ्रातृणां भगिनीनां च संख्यायाः साम्बे वैषम्ये च सर्वत्रोहनीयम् । न च 'निजादंशा द्दत्त्वांशं तु तुरीयकमिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्त्वेति व्याख्यानं युक्तम् । मनुवचन विरोधात् ' स्वेभ्योंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक्। स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' (मस्मृ. ९ | ११८) इति । तस्मात्पितुरूर्ध्व कन्याप्यंशभागिनी पूर्व चेद्यत्किंचित्पिता ददाति तदेव लभते विशेषवचनाभावादिति सर्वमनवद्यम् । + मिता
(३) भगिनीनां संस्कार्यतामाह नाधिकारिताम् । एवं च बहुतरधने विवाहोचितधनं दातव्यं न चतुर्थांश्ननियम इति सिध्यति । एतच्च कन्यापुत्रयोः समसंख्यत्वे ज्ञातव्यं विषमसंख्यत्वे च कन्याया एव बहुतरधनं वा स्यात् पुत्रस्य वा निर्धनता स्यात्, न चैतदुचितं पुत्रस्य
+ शेषं 'स्वेभ्योंशेभ्यस्तु' इति मनुवचने (पृ. १४१७) द्रष्टव्यम् । अप, रत्न, व्यउ., व्यम, विता. मितागतम् । पमा. मितागतम्, अधिकं 'स्वेभ्योंशेभ्यस्तु' इति मनुषचबे द्रष्टव्यम् ।
प्राधान्यात् ।
दा.६९-७०
(४) एकस्य पुत्रस्य यावान्निजांशस्तच्चतुर्थाशं प्रतिभगिनि प्रदाय भ्रातृभिर्भगिन्यः संस्कार्या विवाहयितव्या इत्यर्थः । अनल्पविभाज्यद्रव्यविषयमेतत् ।
स्मृच. २६८ (५) असंस्कृतानां विवाहान्तसंस्कारैरसंस्कृतानां भ्रातणां भगिनीनां च विवाहान्तसंस्कारं कृत्वा पश्चाद्विभागः कर्तव्य इत्यर्थः । भगिन्यश्चेत्यादेरयं तात्पर्यार्थः । भगिनीनामसंस्कृतानां विवाहं कृत्वा ताभ्यश्चतुर्थमंशं दद्यात् ।
मपा. ६४८
केचन एवं मन्यन्ते । पूर्वोक्तरीत्या चतुर्थमंशं कन्यकायै दत्त्वा तेनैव विवाहः कर्तव्यः न तु समुदितद्रव्येण विवाहं कृत्वा पुनरपि चतुर्थीशदानमिति तन्मेधातिथिमिताक्षराकारादीनामनभिमतत्वादुपेक्षणीयं अथवा देशा' चारतो व्यवस्था ।
मपा. ६५०
(६) मिताटीका -- केचन 'निजादंशादि ति पदं एवं व्याचक्षते । तद्यथा । यावन्तो भ्रातरः तावन्तः अंशान् विधाय स्वात्स्वादंशाच्चतुर्थश्चतुर्थो भागो दातव्यो भगिन्यै । तथा भगिनीद्वित्वे बहुत्वे चैकैकस्यै प्रत्येकं चतुर्थश्चतुर्थो तावन्तः अंशात् दातव्य इति । अपरे तु भ्रातृभिः स्वात्स्वादंशाच्चतुर्थमंशं उद्धृत्य भगिन्यै दातव्यम् । यदा द्वे भगिन्यौ वह्नयो वा तदाऽप्युद्धतमेवैनं भागं ते ताश्च गृह्णीयुर्न पृथगुद्धार इति व्याचक्षते । तदुभयमनुपपन्नम् । तथाहि । आये यदैको भ्राता भगिन्यश्च सप्ताष्टास्तदा प्रतिभगिनि चतुर्थेऽशे दीयमाने भ्रातुरकिंचनता स्यात्। अथैका भगिनी बहवो भ्रातरः । तदा भ्रातृभिश्चतुर्थे चतुर्थेऽशे दीयमाने भ्रातुरधिकांशता भगिन्याः स्यात् । तथा पुत्रापेक्षया पुत्र्या न्यूनांशकप्रापक वचनविरोधः । द्वितीये तु व्याख्याने भगिन्या एकत्वे भ्रातृणां च बहुत्वे पूर्वोक्त एव दोषः । भ्रातुरेकत्वे भगिनीनां च सप्ताष्टत्वे भ्रातृभागस्यैकनिष्ठत्वे तच्चतुर्थभागस्य स्वल्पत्वेन तत्राप्यंशकल्पनायामतितुच्छता स्यात्तदंशस्येति । 'दत्वांऽशं तु तुरीयकमित्यस्याविषयः । भवतु वा तथापि तद्वचनविरोधः । अस्मदुच्यमानरीत्या तु प्रत्येकं भगिनीनामपि चतुर्थेऽशे सिद्धे तुरीयकमित्येतत्पदं न विरुध्यते, त्वन्मते तु तदभावाद्विरुध्येतेत्यनेनाभिप्रायेणैक