________________
१३७०
शब्दविधाया गुरुत्वात्, श्रुतिकल्पने श्रुतिद्वयकल्पनाच्च । न्यायमूलकत्वे च नास्तीति वर्तमानोपदेशो लिङ्गम् ।
यदा तु ' दौहित्रो भागिनेयो वा शूद्राणां विहितः सुतः' इति पाठस्तदापि शूद्राणामेव शूद्राणामपीति वा इत्यन्वयसंशयव्युदासाय नियमपरतामेव स्पष्टीकर्तु 'ब्राह्मणादित्रय' इत्यस्य प्रवृत्तेरेकवाक्यतैव नियमपरता चेयम् । दौहित्रभागिनेयकर्मक पुत्रीकरणभावनायामनियमेन चतुर्णामपि वर्णानां कर्तृत्त्वेन प्राप्तौ शूद्रनियमेन शूद्राणामेवेत्यन्वयः सिद्धयति, तथा च भागिनेयपदं दौहित्रस्याप्युपलक्षणमेव, अन्यथा दौहित्रभागिनेययोः शूद्रविषयत्वनियमासिद्धेः । सिद्धौ वा दौहित्रस्य त्रैवर्णिकविषये विकल्पापत्तिरित्युक्तमेव । यद्येवं तर्हि भागिनेयस्य त्रैवर्णिकविषयत्वाभाव एव दौहित्रभागिनेययोः शूद्रविषयत्वेन साध्यतामिति चेत्, न । शूद्रविषयत्वादित्यनेनैव सिद्धौ दौहित्रभागिनेयपदोपादानवैयर्थ्यात् । अविवक्षायामुभयाविवक्षातो भागिनेयमात्राविवक्षाया लघुत्वात् । तस्माद्यथोक्तमेव साधीय इति । तदेतत्स्पष्टमाचष्टे शाकल:-'सपिण्डापत्यकं चैव सगोत्रजमथापि वा । अपुत्रको द्विजो यस्मात्पुत्रत्वे परिकल्पयेत् ॥ समानगोत्रजाभावे पालयेदन्यगोत्रजम् । दौहित्रं भागिनेयं च मातृध्वसृसुतं विना ॥' इति । एतेन भागिनेयपदं दौहित्र - मातृष्वस्रेययोरुपलक्षणमिति स्पष्टमेव सिद्धम् । युक्तं चैतत् विरुद्ध संबन्धस्य त्रिष्वपि समानत्वादित्यलं बहुना । नान्यजातीयः पुत्रीकार्य इत्युक्तं तदतिक्रमे कथमित्यत आह शौनकः – 'यदि स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचि त् । अंशभाजं न तं कुर्याच्छौनकस्य मतं हि तत् ॥ ' इति । अन्या ग्रहीत्रपेक्षयोत्कृष्टापकृष्टा वा जातिर्यस्यासौ गृहीतो विधिनापीत्यर्थः । अंशो धनस्य । अंशपदसामर्थ्यात्कृत्स्नधनव्युदासोऽर्थसिद्ध एव, 'असवर्णास्तु ग्रासाच्छादनभाजनाः' इति कात्यायनस्मरणात् । 'पिण्डदोंऽ शहरश्चैषाम्' इत्युपक्रम्य, 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः' इति योगीश्वरस्मरणाच्च । दमी. २४-५४ पुत्रदातुरेका नेकपुत्रत्वादिविचारः 'नैकपुत्रेण कर्तव्यं पुत्रदानं कदाचन । बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः ॥ (१) दमी. ५४; संप्र. २१९; व्यम. ४८; बाल. २।१३०,
व्यवहारकाण्डम्
इदानीं कीदृशः पुत्रीकार्यः इत्यत आह शौनकः - नैकपुत्रेण इति । एक एव पुत्रो यस्येति एकपुत्रः, तेन तत्पुत्रदानं न कार्ये 'न त्वेवैकं पुत्रं दद्यात् प्रतिगृह्णीयादिति वसिष्ठस्मरणात् । अत्र स्वस्वत्व निवृत्तिपूर्वक - परस्वत्वापादनस्य दानपदार्थत्वात् परस्वत्त्वापादनस्य च परप्रतिग्रहं विनानुपपत्तेस्तमप्याक्षिपति, तेन प्रतिग्रहनिषेधोऽप्यनेनैव सिद्धयति । अत एव वसिष्ठः न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' इति । तत्र हेतुमाह'सहि संतानाय पूर्वेषाम्' इति । संतानार्थत्वाभिधानेनैकस्य दाने संतान विच्छित्तिप्रत्यवायो बोधितः । च दातृप्रतिग्रहीत्रोरुभयोरप्युभयशेषत्वात् । यत्तु स्मृत्य - ' न्तरं, 'सुतस्यापि च दाराणां वशित्वमनुशासने । विक्र चैव दाने च वशित्वं न सुते पितुः ॥' यच्च योगीश्वरस्मरणं, 'देयं दारसुतादृते' इति, तदेकपुत्रविषयम् । 'कदाचन' आपदि । तथा च नारदः - 'निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति । आपत्स्वपि हि कष्टासु वर्तमानेन देहिना || अदेयान्याहुराचार्या यद्यत्साधारणं धनम् । इति । इदमप्येकपुत्रविषयमेव वसिष्ठशौनकैकवाक्यत्वात् । तर्हि केन पुत्रो देय इत्यत आहबहुपुत्रेणेति । बहवः पुत्रा यस्येति बहुपुत्रः । नैकपुत्रेणेति : निषेधात् द्विपुत्रस्यैव दानप्राप्तौ यद्बहुपुत्रेणेत्युच्यते तद्विपुत्रस्यापि तत्प्रतिषेधाय ‘एकपुत्रो ह्यपुत्रो मे मतः कौरवनन्दन । एकं चक्षुर्यथाऽचक्षुर्नाशे तस्यान्ध एव हि ||' इत्यादि भीष्मं प्रति शन्तनूक्तेः । बहुपुत्रेण इति पुंस्त्वश्रवणात्, स्त्रियाः पुत्रदानप्रतिषेधः । 'न स्त्री पुत्रं दद्यादिति नैरपेक्ष्यश्रवणाच्चेति भावः । भर्त्रनुज्ञाने तस्या अप्यधिकारः । तथा च वसिष्ठः 'अन्यत्रानुज्ञानाद्भर्तुः' इति । यत्तु 'दद्यान्माता पिता यं वे 'ति यश्च्च 'माता पिता वा . दद्यतामिति मातुः पितृसमकक्षतयाऽभिधानं तदपि भर्त्रनुज्ञानविषयमेव । न चैवं विधवाया आपद्यपि पुत्रदानं न स्यात् भर्त्रनुज्ञानासंभवात् परिग्रहवदिति वाच्यम् । मानवीयलिङ्गदर्शनेन तथाकल्पनात्, नैरपेक्ष्यैकत्त्व श्रव णाच्च । स्त्रीनिरपेक्षस्यैकस्यापि भर्तुर्दानाधिकारः । 'दद्या-माता पिता यं वा' 'माता पिता वा दद्याताम्' इति मातृनिरपेक्षैकपितृनिर्देशाद्वीजस्य प्राधान्यात्, 'अयो-२।१३५ (पृ.२३९); समु. ९४; कूभ. ८८५; दूच.९