________________
दायभागः - पुत्रप्रकाराः,
तिष्वित्यर्थः ' जातिर्जातं तु सामान्यम्' इति त्रिकाण्डी यस्मरणात् । अत्रापि सामान्योपादानेऽपि प्रत्यासत्तिः पूर्ववन्नियामिका | 'गुरुगोत्रसमेऽपि वा' इत्यत्रापि प्रव र्तते, पौरोहित्याद् राजन्यविशामिति स्मरणात् । 'स्वगोत्रेषु कृता ये स्युः' इत्युपक्रमस्य त्रैवर्णिकसाधारण्याच्च । सपि Postभावे गुरुगोत्रसम इत्यत्रापि तुल्यं प्रत्यासत्तेर्निया - मकत्वात् । शूद्रजातिष्विति । अत्रापि प्रत्यासत्तिः पूर्वव देव । गुरुगोत्राश्रवणाच्च 'गुरुगोत्रसमेऽपि वा' इत्य. स्यात्राप्रवृत्तिः । तेन शूद्रजातिमात्र इति सिद्धयति ।
तदाह ब्रह्मपुराणं 'शूद्राणां दासवृत्तीनां परपिण्डोपजीविनाम् । परायत्तशरीराणां न क्वचित्पुत्र इत्यपि ॥ तस्माद्दासस्य दास्याश्च जायते दास एव हि ।' इति । त्रैवर्णिकानां त्रैवर्णिकानुलोमजानां चोत्कृष्टत्त्वात् प्रतिलोमजानां चापकृष्टत्त्वात् न क्वचित्पुत्रः कर्तुं शक्यते, इति शूद्र एव पुत्रीकार्यो दासदास्युत्पन्नत्वादिति । ३ ननु क्षत्रियादिवाक्यत्रयं नारम्भणीयं, न्यायसाम्येन पूर्ववाक्यादेव तदर्थसिद्धेः, आरम्भे वापि 'सर्वेषां चैत्र वर्णानाम्' इत्यनेन पौनरुक्त्याच्चेति चेत्, मैवम् । क्षत्रियादिपदैः क्षत्रियादिसमानधर्मकमूर्धावसिक्तादीना - मपि प्राप्त्यर्थत्वात् । ' ब्राह्मणेन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति, क्षत्रियेण वैश्यायां वैश्य एव, वैश्येन शूद्रायां शूद्र एव भवति' इति शङ्खस्मरणात् । 'सजातो' इति क्षत्रियादिसमानधर्मत्वेऽपि मूर्धावसिक्तादीनां क्षत्रियादिपु त्रत्त्वाभावबोधनायेति । 'तिस्रो वर्णानुपूर्व्येण' इत्यानुपूर्व्यलिङ्गात् । न च 'सर्वेषां' इत्यनेन पौनरुक्त्यं तस्य वर्णानामनुलोमानां च स्वजातिनियमानुवादेन प्रतिलोमानां तदभावबोधनार्थत्वात् । तदेवाह – सर्वेषा मिति । वर्णपदोपादानसामर्थ्याद्वर्णानामेव सजातिनियमः स्यात् नानुलोमजानामिति तत्प्राप्त्यर्थं सर्वपदोपा दानं, प्राप्तिश्च वर्णसमानधर्मत्वात् । न च वर्णविशेषणं तत्, चकारानुपपत्तेः । ततश्च वर्णानामनुलोमजानां च 'जातिष्वेव ' इति नियमः, नान्यतो, नान्येषु प्रतिलोमेष्वित्यर्थः ।
तेषां दायहरत्वविचारश्च
| संहारादिति चेत्, मैवम् । अपवादलौकिकवैदिकप्रत्यासत्तिनियामकवृद्धव्यवहाररूपन्यायविरोधात् प्रयोजनाभावादतिप्रसंगात् । अनेनैव प्रत्यासत्तिसामान्याप| वादे ' दौहित्रो भागिनेयश्च' इति प्रत्यासत्तिविशेषापवादासङ्गतेश्च । तस्माद्यथोक्तव्याख्येव प्रयोजनवतीति । प्रत्यासत्तिसामान्यात् प्राप्तयोर्दोहित्र भागिनेययोस्त्रैवर्णिकेष्वपवादमाह - दौहित्र इति । तुशब्दस्य चावधारणार्थतया शूद्रैरेवेति नियमात् त्रैवर्णिकव्यावृत्तिः । तत्र हेतुमाह'ब्राह्मणादित्रय' इति । क्वचिदपि शास्त्रे भागिनेयस्य त्रैवर्णिक सुतत्वादर्शनाच्छूद्रविषयत्वमेवेति समुदायार्थः, भागिनेय इत्यविवक्षितं, हेतौ व्यर्थविशेषणतापत्तेः, विवक्षायां भागासिद्धेश्व । दौहित्र भागिनेयौ शूद्रविषयी शास्त्रान्तरे त्रैवर्णिकविषयत्त्वाभावात्, यथा सुरापानादाविति प्रयोगात्, तेनोभययोस्त्रैवर्णिकविषयत्वासिद्धिः ।
ननु इदं पूर्ववाक्यप्राप्तप्रत्यासत्यपवादकतयैव कुतो नेष्यते ' अदूरबान्धवं' इति वसिष्ठवाक्य विरोधादिति चेत्, न, तस्य ब्राह्मणवाक्यैकवाक्यतयोप
१३६९
अथेदं वाक्यद्वयं शब्दविधयैव स्वस्वविषये प्रमाणं नानुमानविधया, तेन भागिनेयमात्रस्यैव त्रैवर्णिकविषयत्वाभावो न दौहित्रस्येति वाच्यं तदपि न, वाक्यभेदापत्तेः, दौहित्रस्य त्रैवर्णिकेषु विकल्पापत्तेश्च । अदूरबान्धवत्त्वेन प्राप्तत्त्वाच्छूद्राणामेवेति नियमेन निषिद्वत्त्वात् । यद्वा शूद्राणामेवेति नियमेन दौहित्रस्य त्रैवर्णिकेषु निषेधः सिद्धयति । त्रैवर्णिकानां भागिनेय एव न भवति इति नियमेन दौहित्रस्य प्राप्तिश्व सिद्धयतीति विकल्पः । किं च शब्दविधया प्रामाण्ये पूर्ववाक्ये किं नियमः परिसंख्या वा स्यात् । कथं नियमः कथं च परिसंख्या । दौहित्रभागिनेयावेव शूद्राणामिति नियमः । पक्षे दौहित्रादेः पक्षे च भ्रातृव्यादेः प्राप्तत्त्वात् । शूद्राणामेव दौहित्र भागिनेयौ इति च परिसंख्या दौहित्रादेश्चतुर्ष्वपि वर्णेषु युगपत्प्राप्तत्त्वात् । तत्राद्ये भ्रातृव्यादिविधायकसामान्यशास्त्रस्य बाधः, 'सर्वेषामेव वर्णानां जातिष्वेव न चान्यतः' इत्यत्र जातिपदस्य दौहित्रादिपरतया संकोचः, दौहित्र भागिनेययोरभावे पुत्रीकरणाभावप्रसंगचेति । परिसंख्यापक्षे तु शूद्राणामेवेत्यनेनैव त्रैवर्णिकेषु तन्निषेधसिद्धौ ' ब्राह्मणादित्रये नास्ति' इत्यादि पुनस्तन्निषेधक वाक्य वैय्यर्थ्यापत्तिरिति । तस्मादनुमानविधैव वाक्यद्वयव्याख्या साधीयसीति । किं च न्यायमूलिकाया अनुमान विधायाः श्रुतिमूलिकायाः