________________
दायभागः – पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३६७
पुत्रिण इत्यत्र, पुत्र एषामस्तीति भवनार्थकेन अस्तिना पुत्रभवनप्रतिपादनादभावितस्य च भवनायोगात् प्रतिग्रहीतुव्यापार आक्षिप्यते । तथा च अत्रिः 'अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदा' इति । वसिष्ठोऽपि पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वा अदूरबान्धवं बन्धुसंनिकृष्टमेव प्रतिगृह्णीयात्' इति । शौनकोऽपि 'दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् |' याचयेदिति प्रयोजके णिच्, तेन याचनार्थवृत ब्राह्मणद्वारा याचयेदिति । एतेन अकृतस्यैव भ्रातृपुत्रस्य पितृव्यपुत्रत्वं, 'अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । स एव तस्य कुर्वीत श्राद्धपिण्डोदकक्रियाम् ॥' इति बृहत्पराशरस्मरणादिति चोद्यं निरस्तम् । प्रतिग्रहीतृव्यापारं विना तत्पुत्रत्वानुपपत्तेः । न च गूढोत्पन्नदत्तात्मनोः कर्तृव्यापाराभावः, 'गृहे प्रच्छन्न उत्पन्नो गूढजस्तुः सुतः स्मृतः । दत्तात्मा तु स्वयंदत्त' इति कर्तृव्यापाराश्रवणात् इति वाच्यम् । तत्रापि फलस्य क्रियासामानाधिकरण्यान्यथानुपपत्त्या तत्कल्पनात् । तस्माद् 'भ्रातृणामेकजातानामि'ति 'अपुत्रस्य पितृव्यस्येति वचनं न यथाश्रुतमेवार्थवत् त्रयोदशपुत्रापत्तेः । न चेष्टापत्तिः । पुत्रान्द्वादश यानाह नृणां स्वायंभुवो मनुः । तेषां षड्बन्धुदायादाः पडदायादबान्धवाः ||' इति द्वादशसंख्याविरोधात् । नन्वस्त्येव संख्याविरोधः । 'औरसः पुत्रिका बीजक्षेत्रजौ पुत्रिकासुतः । पौनर्भवश्च कानीनः सहोढो गूढसंभवः ।। दत्तः क्रीतः स्वयंदत्तः कृत्रिमश्चापविद्धकः । यत्र क्व चोत्पादितश्च स्वपुत्रा दश पञ्च च ॥' इति स्मृत्यन्तरस्मरणात् । ' पुत्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्वशः । संतानकारणं तेषामौरसः पुत्रिका तथा ॥' इति बृहस्पतिस्मरणात् । ' क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाहु: क्रियालोपान्मनीषिणः ॥ इति स्मरणात् । ‘औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥' इति मनुस्मरणाच्चेति चेत् । सत्यम् । केषाञ्चित् क्वचि - दन्तर्भावात् क्वचिद्वहिर्भावाच्च तत्तत्सङ्ख्योपपत्तेर्न द्वादशसङ्ख्याविरोध इति स्थितम् ।
किं च अपुत्रदायाधिकारे, 'पत्नी दुहितरश्चैव पितरौ
पितृद्वयसाधारण्येनापि पुत्रेण निर्वाहात् उक्तनिषेधस्य भ्रात्रतिरिक्तविषयतासिद्धेः। किं च दानस्य स्वस्वत्त्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपत्वात् तस्य चानेन निषेधात्, प्रकृते चैकस्योभयसाधारणीकरणेन स्वत्त्व निवृत्त्यभावात् कन्यादान इव दानपदार्थस्य गौणत्वात् पुत्रपदस्य औरसे मुख्यत्वात् औरसत्त्वमेव पुत्राणां सिद्धयति । तेन च भ्रातृकृतपुत्रप्रतिनिधीनां परिग्रहणाभावोऽवगम्यते । 'भवेद्' इत्यनेन पुत्रवत्तायाः सत्ताप्रतिपादनात् भूतपुत्रत्वं भवि व्यत्पुत्त्रत्त्वं च व्यावर्तयति । तेन चातीतेन भ्रातृपुत्रेणा न्यस्य भ्रातुर्न 'पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखमि'त्यादि फलसंबन्धः, न च अनागतपुत्रप्रतीक्षायां पुत्रान्तरपरिग्रह इति । 'तत्' शब्देन अपुत्राणामेव भ्रातॄणां परामर्शाजनकस्य स्वपुत्रसंबन्धाभावव्यावर्तनाय सर्व इति । 'ते' इत्यत्र स च, तौ च ते च इत्येकशेषादेकस्य द्वयोर्बहूनां वा पुत्रेच्छया तत्पुत्रीकरणं भवति । 'तेन' इति येन जनकस्य पुत्रत्वं तेनैव सर्वेषामपीति । पुत्रेण इति एकत्वनिर्देशादेकस्याप्यनेकपुत्रत्वाभिधानेन 'न त्वेवैकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा' इत्येतन्निषेधस्यात्रानवकाश इत्युक्तमेव ।
तथा च कालिकापुराणे वेतालभैरवयोः शंकरात्मज थोरेकेन पुत्रेणोभयोः पुत्रवत्त्वं लिङ्गं दृश्यते । ऋषय ऊचुः 'अपुत्रस्य गतिर्नास्तीत्यादि । ननु इदमेकस्यानेकपुत्रत्वं किं युगपदुत्पत्स्यतेऽथवा क्रमेण ? नाद्यः, युगपत्प्रतिगृह्णीयुरिति विध्यभावात्। नापरः, पूर्वसंस्कारविरुद्धे तत्सजातीयसंस्कारान्तरानुपपत्तेः इति चेत् । न । 'सप्तदशावराश्वतुर्विंशतिपरमाः सत्रमासीरन्' इतिवत्, तत्सर्वशब्दयो र्द्वन्द्वैकशेषेण प्रतिग्रहीतृभ्रातृसाहित्यस्यात्र विवक्षितत्वात् । तेन दानमपि सहितेभ्य एव सिध्यति, यथा तुलापुरुषे सहितानामेव ऋत्विजां संप्रदानत्वं प्रतिग्रहीतृत्वं चेति । तदाहु: ' इत्यावाह्य सुरान् दद्यादृत्विग्भ्यो हेमभूषणम् ।' इत्यत्र ऋत्विग्भ्य इति बहुवचनान्मिलितानामेव संप्रदानत्वम् । तेन च ' सर्वेषामुपरि गुरुहस्तं कृत्वा तदधःक्रमेण ऋग्वेद्यादीनामृत्विजां हस्तानाधाय भूषणानि देयानि ' इति वाचस्पतिमिश्राः । न च युगपदनेकपुत्रत्वामुपपत्तिरपि युगपत्प्रतिग्रहेण द्रौपदी भार्यात्ववदस्य विलक्षस्यैवाने पुत्रत्वस्य प्रसिद्धयामुष्यायणत्ववत्स्वीकारात् ।
व्य. का. १७२