________________
१३५२
व्यवहारकाण्डम्
उभयोरर्थसंबद्धः स कुर्यादुभयोरपि*।। तथा चायमपि यामुष्यायणः । संविदंशे तत्त्वं तु अरोगिणीं भ्रातृमतीमित्यत्रोक्तम् ।
बाल. २।१२८
पुत्रीकरणविधिः
• अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः । पिण्डोदकक्रिया हे तोर्नामसंकीर्तनाय च ॥ काण्डपृष्ठसंज्ञाः पुत्राः
।
आपद्दत्तो ह्युपगतो यच स्याद्वैष्णवीसुतः । सर्वे ते मनुना प्रोक्ताः काण्डपृष्ठास्त्रयस्तथा । कुलं काण्डमिति ख्यातं यस्मात् पूर्वाणि ते जहुः तत्र ज्येष्ठतरो यः स्यात्तं वै काण्डं विनिर्दिशेत् ॥ स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥ मरीचिः
गोत्रान्तरगतानां दायाशौचज्ञातिविचारः गोत्रान्तरप्रविष्टानां दायमाशौचमेव च । ज्ञातित्वं च निवर्त्तन्ते तत्कुले सर्वमिष्यते || दक्षः अग्रजदाननिषेधः
आपद्यपि च कष्टायां न दद्यादग्रजं सुतम् । भर्तृहीना च पत्नी च दद्याच्चेन्नरकं व्रजेत् ॥ शातातपः दत्तपुत्रस्यौर्ध्वदेहिकाधिकारः
दत्तः पुत्रः पितुः कुर्याज्जनकस्य मृतेऽहनि । गयायां च ततोऽन्यत्र न पुत्रान्तरसंनिधौ || पराशरः
कलौ चत्वारः पुत्राः औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः+।
दद्यान्मातापिता वाऽपि स पुत्रो दत्तको भवेत् ॥ अत्रिः
(१) बाल. २।१३५ ( पृ. २१९) मनुयमव्यासाः.
(२) व्यप्र. ४८६-४८७ व्यवहारकल्पतरौ क्रमेण बृहस्पतिः, विवादरत्नाकरें तु हारीत: । (३) समु. १३९. (४) समु. ९५. (५) बाल. २।१३२ (पृ. १७७). (६) पस्मृ. ४।१९; दमी. २३ पू.; बाल. २।१३५
पुत्रमहिमा पुत्रीकरण विधिश्च जातमात्रेण पुत्रेण पितॄणामनृणी पिता ॥ ऐटव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदा । पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात्प्रयत्नतः ॥
(१) अपुत्रोऽजातपुत्रो मृतपुत्रो वा । 'अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च' इति शौनकीयात् । 'वन्ध्यो मृतप्रजो वापि' इति पाठान्तरम् । अपुत्रेण इति अपुत्रताया निमित्तताश्रवणात् पुत्राकरणे प्रत्यवायोऽवगम्यते । पुत्रोत्पादनविधेर्नित्यतया तल्लोपस्य प्रत्यवायनिमित्ततात्पर्यावसानात् । 'नापुत्रस्य लोकोऽस्ती 'ति पुत्रसामान्याभाव एवालोकताश्रवणात् । 'जायमानो ह वै ब्राह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः, एप वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी' इत्यत्रापि पुत्रसामान्यस्यानुण्यहेतुताश्रवणाच्च । अपुत्रेणैव इति एवकारेण पुत्रवतो नाधिकारो बोधितः । अनेन 'माता पिता वा दद्यातां यमद्भिः पुत्रमापदि' इति आपत्पदमपि मानवीयं व्याख्यातम् । व्याख्यातं च अपरार्केणापि तथा 'आपदि प्रतिग्रहीतुरपुत्रत्वे' इति । यद्वा, 'आपदि दुर्भिक्षादौ, आपद्ग्रहणादनापदि न देयः, दातुरथं प्रतिपेधः' इति मिताक्षरा । तथा च कात्यायनः 'आपकाले तु कर्तव्यं दानं विक्रय एव वा । अन्यथा न प्रकर्तव्यमिति शास्त्रविनिश्चयः ।।' इति । मनुरपि - 'अपुत्रेण सुतः कार्यों यादृक् तादृक् प्रयत्नतः । पिण्डोदकक्रियाहेतोर्नामसंकीर्तनाय च ॥ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ||' इति । यत्तु विश्वामित्रादीनां
* सवि.व्याख्यानं ‘अकृता वा कृता वापि' इति मनुवचने
(पृ. १३००) द्रष्टव्यम् ।
+ दमी.व्याख्यानं ‘अपुत्रेणैव कर्तव्य:' इत्यत्रिवचने द्रष्टव्यम् । (पृ. २४० ) पू.; समु. १३९ पू.
(१) बाल. २।१३५ (पृ. २१९).
२४० ).
(२) बाल. २1१३५ (पृ. (३) दमी. ३:३६ पू., १४०; संप्र. २०५६ बाल. २ । १३१, २ १३५ ( पृ. २१९); समु.९५ व्य: (व्यं) तो (तु); कृभ.८७९ पू., बौधायनः; दच. २.