________________
दायभागः - पुत्रप्रकाराः तेषां दायहरत्वविचारश्व
वरणाग्रहणं पाणेः संस्कारोऽपि विचक्षणैः । तयोरनि यतं प्रोक्तं वरणं दोषदर्शनात् ॥' इति ( नास्मृ. १५/२४, २-३ ) । प्रतिगृह्य वाचा दत्तां स्वीकृत्य । संवत्सरमतिकम्येति पाठान्तरम् । स्त्रीपुंसयोः संसर्गात् प्राक् त्रितयं क्रियते, वरणं पाणिग्रहणं सप्तपदीप्रक्रमश्चेति । तत्र वरणं नाम वरस्य संप्रदानत्वाय कन्यादात्रा प्रार्थनम् । तदेव च वाग्दानम् । एवंस्थिते तयोः पाणिग्रहणसत पदप्रक्रमयोः पूर्वभावि यद्वरणं तदनियतमनियामकमित्यर्थः । तयोरेव भार्यात्वोत्पादकत्वादिति भावः । अत्र मनुरनुपदमेव स्फुटीभविष्यति । दोषेति । अस्यार्थः वरणस्यानियामकत्वमपि पूर्ववरस्य दोषे सत्येवेतीति । इदं च माधवीये स्पष्टम् । एतदेकवाक्यतयैव माधवेन
- 'वरयित्वा तु यः कश्चित्प्रगश्येत्पुरुषो यदा । रक्तागमांस्त्रीनीत्य कन्याऽन्यं वरयेत् पतिम् ॥' इति कात्यायनोक्तम् । प्रणश्येद्देशान्तरं गच्छेत् अन्यथा प्रतीक्षा वैयर्थ्यापत्तेरित्येवं व्याख्यातम् । वरमिति पाठान्तरम् । मन्त्रोपनीता पाणिग्रहण मन्त्रजन्यसंस्कारवती । इत्थं एत देकवाक्यतयोक्तनारदीये ऋतुपदेन रजोदर्शनमेव न तु कालः। एवं च संवत्सरमतिक्रम्येति पाठान्तरमयुक्तमेवेति बोध्यम् । तथा च पाणिग्रहणादिकं विना वाचा दानमिवाद्भिरपि दानं न भार्यात्वोत्पादकमित्यर्थः । कुमारी पितुः अन्यस्मै यादृशसंबन्धेन पित्रा विवाह्यते तादृक् पितृसंबन्धवती । तथा च न तस्या वैधव्यम् । एतपरमेव यमवाक्यं पूर्वाध्याये उक्तं तादृशम् । तथा च पराशरोऽपि - ' नष्टे मृते प्रत्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।।' इति । वाग्दानानन्तरं पाणिग्रहणात्प्राक् पतौ संभावितोत्पत्तिकपतित्वे पूर्वस्मिन्वरे नष्टे सति लक्षणया दूरदेशगमनेना परिज्ञातवृत्तान्ते सतीत्यर्थः । एवं दुष्टे पूर्ववरे वाग्द
१३४५
| चोरवत् ॥' (नास्मृ. १५ । ३२ ) इति तत्रैव दण्डं विधत्ते । प्रदानं स्वामित्व हेतुर्न तु वाग्दानम् । तथा च मनुः - 'मङ्गलार्थ स्वस्त्ययनं यज्ञश्वासां प्रजापतेः । प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारकम् || पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥' (मस्मृ. ५। १५२,८।२२७ ) इति स्वस्त्ययनं कुशलेन कालातिवाहनहेतुः करणसाधनत्वात् कनकधारणादि स्वस्ति भवन्तो ब्रुवन्त्वित्यादि च यत्, यश्च प्रजापतिदेवताको वैवाहिको होमस्तत्सर्वं मङ्गलार्थम् । अभिमतार्थसिद्धिर्मङ्गलं तदर्थम् । निष्ठा भार्यात्वसमाप्तिरूपा । प्रतिगृह्य वाग्दानेन गते वरे ऋतुत्रयप्रतीक्षणादिकं मुख्यप्रागुक्तकालादूर्ध्वमपि दात्रा अदीयमानत्वविषयमेव। 'गम्यं त्वभावे दातृणामित्याद्येकवाक्यत्वात् । तस्माद्वाग्दानस्थले उक्त एवं प्रकारभेदः । 'अपुत्रां गुर्वनुज्ञात' इति 'अपुत्रेण परक्षेत्रे' इति च मूलं विवाहिताविषयमेव । तथैव च व्याख्यातं व्याख्यात्रा | मनूक्त नियोगोऽप्येतद्विषय एव । अत एव तत्र विधवापदोक्तिस्वारस्यम् | 'नान्यस्मिन्निति निषेधस्तु देवरसपिण्डसगोत्रान्यविषयकः । क्रमोक्त्या स्वरसतस्तथैव प्रतीतेः । एतस्यैव पोषकं 'नोद्वाहिकेष्विति प्रागुक्तनियोगान्यसामान्यनियोगाद्यभावबोधकम् । एकं पुत्रम - त्याद्युक्तपोषकमेव । अयमिति । अत एव पशुधर्म इत्युक्तम् । स च वारंवारं नियोजनादिरूपः । तदेव द्रढयति । तत इति । सामान्येनोक्त नियमानादरेण पुनः पुनस्तदर्थं नियोजयतीत्यर्थः । अत एव व्यभिचारदोषश्रवणस्य संयमप्राशस्त्यस्य चोपपत्तिरिति न तद्विरोधः । 'यस्था म्रियेते 'ति तु देवरसत्वेऽन्यस्मै न देया किंतु तस्मा एव देयेत्येवंपरम् । अत एव 'यथाविधी 'ति पद्यं सर्वे सफलम् । पुनरुपनयने विशेषवदत्र पुनर्विवाहे न विशेष इति यथाविधीत्युक्तम् । अधिगम्येत्यनेन दाम्पत्यमुक्तम् । शुक्लेत्यादिनां तस्यामदुष्टात्वं, भजेतेत्यनेन यावज्जीवं रमणाद्युक्तम् । अत एव आप्रसवादित्युक्तिवीप्साद्वयं च । अन्यथा तस्य सामान्य सिद्धत्वादेव वीसानर्थक्यं स्पष्टमेव । एवं च प्रधान एवायं विवाहो नाङ्गम् । अत एवानेन विधानेन विन्देतेत्युक्तम् । देवर इति पतिरिति च सूत्रशाटकवत् भाविसंज्ञया ।
पवन्तराय देयेत्यपि सिद्धम् । एवं च 'वाग्दत्ता, मनोदत्ता, अग्निं परिगता, सप्तमं पदं नीता, भुक्ता, गृही तगर्भा, प्रसूता चेति सप्तविधा पुनर्भूः तां गृहीत्वा न प्रजां न धर्म विन्देदिति बोधायनोक्तो वाग्दत्तामनोदत्त योर्निषेधः पूर्ववरस्य निर्दोषत्वे सति बोध्यः । अत एव नारदः - 'दत्तां न्यायेन यः कन्यां वराय न ददाति ताम् । अदुष्टश्वेद्वरो राज्ञा स दण्ड्यस्तत्र