________________
१३४०
व्यवहारकाण्डम्
मन्त्रादिरहितविधिना पुत्रत्वमन्यथा दासत्वमिति तु न । पूर्वोक्तहेतोः । अत एव कालिकापुराणे अदासतेति छेद इति केषाञ्चित्कल्पनाऽपि निरस्ता । अत एव तेषां दासत्वप्रतिपादनार्थे न तु परिसंख्यार्थमित्येवं मानवं व्याख्यातं व्याख्यात्रा | स्पष्टं चेदं वाचस्पति गोविन्दार्णवादिनिबन्धेषु । 'ब्राह्मणादित्रये नास्तीत्यादि तु दत्ताख्यदासत्वस्यैव बोधकम् । न च तत्र सुतपदान्न तथेति वाच्यम् । मानवेऽप्यत्र सुतपदमत्त्वात् । किं च मनूक्तद्वितीयसमुच्चयानापत्तेः । एतेनोक्तसमुच्चा यकत्वं तस्य नानुक्तसमुच्चायकत्वमित्यप्यपास्तम् । प्रागुक्तसमुच्चायकत्वे मनूक्तद्वितीय समुच्चयानापत्तेः । ब लाद्दासीत्यत्रापि तेन तयोः समुच्चयानापत्तेश्च । स्मृत्य न्तरीयेषु मानवस्यैव समुच्चयो न नारदीयस्येत्यत्रात एव मानाभावाच्च । एतेन जात इत्यनेनैव मनूक्तोभयसंग्रह इति स व्यर्थ एवेत्यप्यपास्तम् । फले संभवति तत्त्वकल्पनाया अन्याय्यत्वात् । एतदर्थमपि नारदीयं परिगणनम् । अन्यथा अपिवैयर्थ्य स्पष्टमेव । पादपूरकत्वकल्पनापेक्षयोक्तमेवोचितम् । अत एव मनु ना दासदास्यां वेत्यप्युक्तम् । विज्ञानेश्वरस्त्वत्राप्यंशे उदासीनः । एवं चान्येषामपि दासानां शूद्रस्वामिकधनांशहरणमुक्तरीत्या सिद्धम् । एवं सति 'शूद्राणां तु सधर्माण: सर्वेऽपध्वंसजाः स्मृताः ।' (मस्मृ. १०१४१) इति मनोरन्यत्राप्यवर्णेषु तादृशेषु तथा बोध्यम् । न च मनुविष्ण्वादिभिः 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं हरेत्' । (मस्मृ. ९ । १८७ ) इत्यादिना प्रत्यासत्ते रेवांशहरत्वे नियामकत्वस्योक्तत्वेन गृहजातस्य तत्सत्त्वेऽपि क्रीतादिदासेषु तदभावात्कथं तेषां तद्धरत्वमिति वाच्यम् । दत्तक्रीतादिपुत्रवदत्रापि उपाधिना तत्संभवात् । 'भ्रात रस्त्वर्धभागिनमि'ति, 'अभ्रातृको हरेदिति च तस्य भ्रातृत्वातिदेशाच्च । मानवेन सुतत्वातिदेशाच्च । अन्यथा 'मृते स्वामिन्यात्मीयमिति विष्णूक्तं दासानां स्वामिमरणे सजातीयाशौचमपि न स्यात् । अत एव दासीगमनेऽन्यस्य दण्डोऽप्युक्तः, 'अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ॥' (यास्मृ. २।२९०,२९१) इत्यादि । अत एव च
I
भक्तदासस्य स्वामिना सह विवाद उक्तः । अत एव च तेषां प्रव्रज्यावसितभिन्नानां दासत्वान्मुक्तौ कारणानि, मोक्षक्रमश्वोक्तः -- 'बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्कयादपि ॥ इति मूले (यास्मृ. २।१८२ ) ( यो वैषां स्वामिनं कश्चिन्मोक्षयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च || अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं यदुर्भिक्षे न तच्छुध्येत कर्मणा || भक्तस्योत्क्षेपणात्सयो भक्तदासः प्रमुच्यते । आहितोऽपि धनं दत्वा स्वामी यद्येनमुद्धरेत् ॥ ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्रमुच्यते । कृतकालव्यपगमात्कृतकोऽपि विमुच्यते || तवाहमित्युपगतो युद्धप्राप्तः पणे जितः । प्रतिशी प्रदानेन मुच्येरंस्तुल्यकर्मणा ॥ निग्रहाद्वडवायास्तु मुच्यते वडवाहृतः ॥' इति नारदश्च । ( नास्मृ. ८ । ३० - ३६ ) । विनतायाः कद्रदास्यान्मुक्तिरपि वैनतेयकृता महाभारते स्रष्टा । 'स्वं दासमिच्छेद्यः कर्तुमदासं प्रीतमानसः । स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा || साक्षताभिः सपुष्पाभिर्मूर्द्धन्यद्भिवाकिरेत् | अदास इति चोक्त्वा त्रिः प्राङ्मुखं तमथो - त्सृजेत् ॥' ( नास्मृ ८१४२, ४३ ) इत्यन्तेऽन्यः । तस्मात्प्रत्यासत्तेः सत्त्वात् युक्तं तस्यापि तद्धरत्वम् । किं च पुत्रत्वादिप्रत्यासत्यपेक्षया दासत्वप्रत्यासत्तिरुत्तमोत्तमा । अत एवोक्तं 'तेषां दासस्य दासोऽहमिति । अत एव च दास्यं नवविधभक्तिमध्ये गणितं, 'श्रवणं कीर्तनं' इत्यादि । तत्र तत्र मुख्याधिकारिणश्वोक्ताः, श्रीविष्णोः स्मरणे परीक्षिदित्यादि । दासविषये आशौचमपि ऋषिभिः प्रतिपादितम् । अत एव - ' छाया स्वो दास - वर्गस्तु दुहिता कृपणं परम् ।' इति मनूक्ति: (मस्मृ. ४ १८५) । सा चाचारे प्रपञ्चिता । अत एव श्राद्धे दासानां तृप्त्यर्थे भूमावुच्छिष्टान्नदानमुक्तम् । अत एव दासीनां 'वस्त्रं पत्रमि' त्यादिना मनुना विभाज्यत्वनिषेधः कृतः । न चैवं - ' भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' (मस्म. ८ ४१६ ) इति मनुविरोध इति वाच्यम् । एते त्रयोऽर्जितधना अपि अधना धनास्वामिनः भर्त्रादेरेव हि तत्र स्वामित्वं, ते यद्धनं अधिगच्छन्ति अर्जयन्ति