________________
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३३७
(७) अन्येषामपि गुणतारतम्येन देशाचारानुसारेण | मन्वादिकं युगान्तरपरतयाऽपि सुयोजं तथापि अन्त्यम वा यथायथं व्यवस्था द्रष्टव्या । न्यथा दुर्योजमेवेत्याहुः | वस्तुतो नियोगनिषेधेनैव क्षेत्रसवर्णादिभेदेन देशाचारभेदेन वा विरोधः परिहर जनिषेधे तत्र क्षेत्रज इत्यौरसविशेषणमावश्यकं यथा तथा कृत्रिम इत्यपि दत्तस्यैव विशेषणमिति बोध्यम् ।
व्यप्र. ४८४
णीयः ।
व्यप्र.४८५
(८) मिताटीका -- [ कलौ पुत्रत्वं केषां इत्यत्र केचि न्मतम् ] - यद्यप्यत्र प्रकरणादंशहर इत्येवोचितमिति पिण्डद इत्यसंबद्धं, अथ श्राद्धप्रकरणेऽनुक्तत्वात्प्रकरणान्तरे संगत्यभावादत्रैव पुत्रप्रसंगेन तदप्युक्तं लाघवादिति चेत्, एवमपि अन्ते वाच्यमागन्तूनामिति न्यायात् नादाविति तथोक्ता संगतिरेव, तथापि पुत्राणां पिण्डदत्वमावश्यक मदाने प्रत्यवायश्रवणात् धनहरत्वं तु आनुषङ्गिकमन्वाचयशिष्टं न तु मुख्यमिति, नापि तेषामंशहरत्वप्रयुक्तं पिण्डदत्वमिति अंशहरत्वप्रयुक्त पिण्डदत्वस्यान्यत्रयेति । कचित्समनियतस्य शास्त्रीयत्वेऽपि पिण्डदत्वप्रयुक्तांशहरत्वस्य तथा न शास्त्रीयत्वमिति अनयोर्मिथो न व्याप्यव्यापकभावो नापि सार्वत्रिकं समनैयत्यं इति च सूच नार्थे भगवता योगीश्वरेण 'पिण्डदोंऽशहरचे' त्युक्तम् । अनेनैवाशयेनावतरणे प्रकरणसंगतये तथोक्तमप्यत्र व्याख्याने मौलक्रमेणैव व्याख्यातं व्याख्यात्रेति बोध्यम् । बाल.२।१३२(पृ.१७४)
केचित्तु औरसेन पुत्रिकासंग्रहवत् दत्तपदेन तत्समकक्षक्रीतस्वयं दत्तकृत्रिमाणामपि ग्रहणम् । अत एव 'श्रेयसः श्रेयस' इति मनूक्तिः, 'स्वगोत्रेण कृता ये स्युर्दत्तक्रीतादयः सुताः । विधिना गोत्रतां यान्ति न सापिण्ड्यं विधी यते ||' इति वृद्धगौतमोक्तिः । 'दत्तक्रीतादिपुत्राणां बीजवप्तुः सपिण्डता । सप्तमीं पञ्चमीं चैव गोत्रं तत्पालकस्य च ||' इति बृहन्मनुः । ' औरसः क्षेत्रज - श्चैव दत्तः कृत्रिमकः सुतः ।' इति कलिधर्म प्रस्तावे पराशरश्च संगच्छते । औरसादीनां सर्वेषां पुत्राणां प्रकृतत्वादौरसादीनुपक्रम्य 'तेषां पूर्वः पूर्वः श्रेयान्स एव दायहरः स चान्यान्विभृयादिति' वैष्णवम् । औरसा
पुत्राणां पूर्वपूर्वभावे परः परो रिक्थमर्हति पूर्वसद्भावे परसंवर्धनं स एव कुर्यादिति, तदप्यपवादेतरविषयम् । यदि तु समानरूपा बहवः पुत्रास्तदा सर्वे एव विभज्य धनं गृह्णीयुरिति मनुव्याख्यातारः । यद्यपि * शेषं मितागतम् ।
बाल.२।१३२(पृ.१८० ) अत्र द्वादशविधाः पुत्राः सजातीया एव ग्राह्याः संजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥ (१) सर्वे चैते दत्तकादयः सजातीया इत्येतत् प्रदर्शयितुमाह-सजातीयेष्वयमिति । अयं मया विधिरुक्त इति वदन् स्मृत्यन्तरोक्तानां विषयान्तरेऽर्थवत्तां दर्शयति । तच्च व्याख्यातमेव पितर्युपरत एवेयं द्रव्यसंबन्धपौर्वापर्यकल्पनेति, जीवति तु स्मृत्यन्तरोक्तया विभागव्यवस्थविश्व. २।१३७
(२) इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाहसजातीयेष्त्रयमिति । समानजातीयेष्वेव पुत्रेषु अयं 'पूर्वाभावे परः पर' इत्युक्तो विधिः न भिन्नजातीयेषु । तत्र च कानीनगूढोत्लन्नसहोढ जपौनर्भवाणां सवर्णत्वं जनकद्वारेण न स्वरूपेण । तेषां वर्णजातिलक्षणाभावस्योक्तत्वात् । तथाऽनुलोमजानां मूर्धावसिक्तादीनामौरसेष्वन्तर्भावात्तेपामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वोरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । मिता.
(३) गूढोत्पन्नादय आत्मनः सजातीया एव सवर्णा एव पुत्रत्वेन ग्राह्या नेतर इति तात्पर्यार्थः । शूद्रापुत्रः स्वे क्षेत्रे स्वयमुत्पादितश्चेति न प्रतिनिधिः किं त्वौरसः, तथाऽपि प्रतिनिधिषु मनुना पठितः । तत्रायमभिप्रायःअन्येष्वनुलोमजे०पौरसेषु सत्सु न प्रतिनिधिरस्ति, शूद्रापुत्रस्यौरसत्वे सत्यपि पुत्रप्रतिनिधिः कार्य एवेति ।
अप.
(४) मिताटीका - तेषां वर्णजातिलक्षणाभावस्योक्त* विवादरत्नाकरस्थं प्रकाशमतं मितागतम् । (१) यास्मृ. २।१३३; अपु. २५६।२०; विश्व. २।१३७; मिता.; अप; गौमि. २८ । ३११ उ. २।१४ २३ ममु. ९।१७४; विर. ५७३; स्मृपा.६७, मपा. ६५१ मया विधि : (यथाविधि); मच.९।१७४ मया विधि: (विधिर्मया); दमी. २९, ५४; वीमि व्यप्र. ४७४,४८०, ४८७६ संप्र. २११; व्यम. ४०, ४७; विता. ३६४; बाल. २।१३५ (१.२१६ ); समु. १३७; कृभ. ८६५.