________________
१३३०
व्यवहारकाण्डम्
याज्ञवल्क्यः
औरसपुत्रिकासुतक्षेत्र जगूढजकानीन पौनर्भवदत्तकक्रीतकृत्रिम - - स्वयं दत्तसहोढजापविद्धाः, तेषां विधिः लक्षणानि च 'औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्र जातस्तु सगोत्रेणेतरेण वा । ३ (१) किंलक्षण औरसः पुत्रः । उच्यते -- औरस इति । सवर्णा ब्राह्मादिविवाहसंस्कृता धर्मपत्नी । तस्यां स्वयमु त्पादितः पुत्र औरसः । तत्समत्ववचनं क्षेत्रजादिभ्योऽधि कत्वज्ञापनार्थम् । पुत्रिकास्वरूपं स्मृत्यन्तरादवगन्तव्यम् । क्षेत्रजस्तु क्षेत्रपल्यां सगोत्रेणान्येन वा नियोगोत्पादितः । विश्व.२।१३२
(२) समानासमानजातीयानां पुत्राणां विभागक्लतिरुक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यस्तेषां स्वरूपं तावदाह — औरस इति । उरसो जात औरसः पुत्रः स च धर्मपत्नीजः, सवर्णा धर्मविवाहो
धर्मपत्नी तस्यां जातः औरसः पुत्रो मुख्यः । तत्सम औरससमः पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः - ' अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पुत्रिकैव सुतः पुत्रिकासुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वात् मात्रवयवानां बाहुल्याच्च । यथाह वसिष्ठः – 'द्वितीयः पुत्रिकैव' || द्वितीयः पुत्रः पुत्रिकैवेत्यर्थः । यामुष्यायणस्तु जनकस्यौरसादपकृष्टोऽन्यक्षेत्रोत्पन्नत्वात् । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः | मिता. पुत्रः क्षेत्रजः । (३) यो धर्मपत्नीजः स औरसो ज्ञेयः । यया सह * विचि, विता. मितागतम् । पुत्रतुल्यैषा शान्ता प्रियतरात्मजा । सोऽयं ते श्वशुरो ब्रह्मन् यथैवाहं तथा नृपः ॥ ).
|
(१) यास्मृ.२।१२८; अपु.२५६ । १५; विश्व. २।१३२ मिता.; अप.; व्यक. १५५ प्रथमः पादः, १५६ पू.; विर. ५५४: प्रथमः पादः३५५६ उत्त. : ५६० द्वितीयः पादः पमा. ५१२;मपा.६५०; विचि.२३२; स्मृचि. ३१ सगो (स्वगो) वा (च) : ३३; नृप्र. ३९; सवि. ३९०; वीमि ; व्यप्र. ४६७ : ४७० उत्त.:५१९ पू.; व्यम. ४७; विता. ३५८; राकौ. ४५३६ बाल. २।१३५ (१.२१६); समु. १३७.
|
धर्मश्वर्यते सा धर्मपत्नी । यद्यपि पत्नीशब्देनैव सहधर्मचारिणी कथ्यते, तथाऽपि धर्मशब्दोपादानादत्र पत्नीशब्दो भार्यामात्रपरः । धर्मपत्नीशब्देन च शूद्रा व्याव र्त्यते, तस्याः सहधर्मचारित्वाभावात् । यदाह वसिष्ठः'कृष्णवर्णा वै रामा रमणायैव न धर्माय' इति । एवं च तत्पुत्रो नौरसः । अत एव पुत्रप्रतिनिधिषु च तमाह मनुः पुत्रान् द्वादश याना हेत्यादिना । यथाशास्त्रं परिणीतायां द्विजातिस्त्रियामुत्पन्न औरस: पुत्रः । अन्वर्थसंज्ञा चैषा, तेनोरसि भव औरसः । तेन स्वोत्पादितत्वमौरसस्य लक्षणम् । अत एवाह वसिष्ठः - 'स्वयमुत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः प्रथमो मुख्यः । तेन स एव पुत्रशब्दस्य मुख्योऽर्थः । क्षेत्रजादिस्तु गौणः । ततः परिपूर्णमिदमौरसस्य लक्षणम् | 'औरसो धर्मपत्नीज' इति पदद्वयेनोक्तम् |
अप.
(४) सगोत्रेण स्वकुलोद्भवेन, इतरेण उत्कृष्टवर्णेन । + विर. ५५६
(५) सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जातः पुत्रः औरसः स च मुख्यः, तथा आसुरादिविवाहोढासवर्णापुत्रेऽपि तथा अनुलोम विवाहितक्षत्रियादिस्त्रीषु ब्राह्मणादुत्पन्नो मूर्धावसिक्तोऽम्बष्ठो निषादापरपर्यायपारशवश्च वैश्यादिस्त्रियां राजत उत्पन्नौ माहिष्योग्रौ च शूद्रायां वैश्यादुत्पन्नः करणश्चेत्येते औरसा एव ।
मपा.६५१
(६) अत्र सावर्ण्य द्विजातित्वेन ब्राह्मण्यादित्रयस्य विवक्षितम् । अन्यथा ब्राह्मणविवाहितयोः क्षत्रियावैश्ययोः तेनोत्पन्नः पुत्रो न द्वादशविधपुत्रान्तर्भूतः स्यादिति पारिजातः । वीमि. (७) सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जात औरसः पुत्र इति मिताक्षरा । वस्तुतस्तु नेदमेवं बोद्धव्यम् । अनुलोमजानां मूर्धावसिक्तादीनां औरसेष्वन्तर्भावादिति स्ववचनविरोधात् । न हि ते सवर्णायामुत्पन्नाः । ब्राह्मणादिषु येषां येन धर्मविवाहस्तदू ढोत्पन्नानामनौरस -- त्वप्रसङ्गे तेषु सत्स्वप्यन्येषां दायग्रहणप्रसङ्गाच्च । तस्मादुत्कर्षाभिप्रायं सवर्णाग्रहणम् । धर्मपत्नीजत्वमात्रं वाक्योपात्तं क्षेत्रजादिव्यावर्तकं लक्षणम् । व्यप्र.४६७ सगोत्रेण देवरसपिण्डादिना । इतरेण असगो + औरसपदं अपवत् ।