________________
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
तेषां वै समवेतानामपि कश्चिद् गयां व्रजेत् ॥ 'औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः । समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः ॥ तेवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् । असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ उवाच नरशार्दूलमम्बरीषमिदं वचः । अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥ • ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो । तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ।। प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः । मातॄणां च कनीयांसः तस्माद्रक्ष्ये कनीयसम् ॥ उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च । शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ पिता ज्येष्ठं अविक्रेयं माता चाह कनीयसम् । विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व मामू* ॥ से त्वं केसरिणः पुत्रः क्षेत्र जो भीमविक्रमः । मारुतस्यैौरसः पुत्रस्तेजसा चापि तत्समः ॥ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि । हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ॥
दत्तकसुता
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो वीरः श्रीमान् सत्यपराक्रमः ॥ सख्यं तस्याङ्गराजेन भविष्यति महात्मना । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ अपुत्रस्त्वङ्गराजो वै लोमपाद इति श्रुतः । स राजानं दशरथं प्रार्थयिष्यति भूमिपः ॥ अनपत्योऽस्मि धर्मज्ञ कन्येयं मम दीयताम् ।
*ऐतरेयब्राह्मणस्य शुनःशेषकथायाः रूपान्तरेणानुवादरूपाणि इमानि वचनानि । इयमेव कथा महाभारते १३ | ३ | ६६ भागबते ९१६; हरिवंशे १।२७६ देवीभागवते ७।१६ च समुपलभ्यते ।
(१) वारा. २ २६ ३६६ बाल. २।१३५ (पृ. २४०) जना (परा).
(२) वारा. २।३६।१६; बाल. २।१३५ (पृ. २४० ). (३) वारा. १।६१।१७-२१.
(४) वारा. ४।६६ । २९, ३०. (५) वारा. ५।३५।८२.
(६) दमी. ११२-११३.
१३२९
शान्ता शान्तेन मनसा पुत्रार्थ वरवर्णिनी ॥ ततो राजा दशरथो मनसाऽभिविचिन्त्य च । दास्यते तां तदा कन्यां शान्तामङ्गाधिपाय सः । प्रतिगृह्य तु तां कन्यां स राजा विगतज्वरः । नगरं यास्यति क्षिप्रं प्रहृष्टेनान्तरात्मना || कन्यां तां ऋष्यशृंगाय प्रदास्यति स वीर्यवान् ॥ इत्यादि । तत्रैव लोमपादं प्रति दशरथवाक्यम् — शान्ता तव सुता वीर सह भर्त्रा विशांपते । मदीयं नगरं यातु कार्य हि महदुद्यतम् ॥ इति । तत्रैव ऋष्यशृङ्गं प्रति लोमपादवाक्यम् —
अयं राजा दशरथः सखा मे दयितः सुहृत् । अपत्यार्थ ममानेन दत्तेयं वरवर्णिनी । याचमानस्य मे ब्रह्मन् शान्ता प्रियतरा मम । सोऽयं ते शुधीर यथैवाहं तथा नृपः + ॥
दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि उपलभ्यन्ते। तत्र दत्तकाया रामायणे बालकाण्डे दशरथं प्रति सुमन्त्रस्य सनत्कुमारोक्तभविष्यानुवादो लिङ्गम् — इक्ष्वाकॄणामित्यादि । अत्र दीयतां दास्यते - प्रतिगृह्य - दत्ताशब्दैर्दानविधिः स्पष्ट एव । तथा अपुत्रः इत्युपक्रम्य पुत्रार्थ इत्युपसंहारात्, औरसपुत्रीवद्दत्तपुत्र्यपि पुत्रप्रतिनिधिर्भवतीति गम्यते । दमी. ११२-११३
+ अस्माभिः संप्रत्युपलभ्यमानमुद्रितवाल्मीकि रामायणपुस्तकद्वयेऽयं श्लोक संग्रहोऽन्विष्टोऽपि नोपलब्धः । तत्रोपलभ्यमानश्लोकास्तु एतादृशाः समुपलभ्यन्ते -
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ पुत्रस्त्वङ्गस्य राशस्तु रोमपाद इति श्रुतः । अङ्गराजं दशरथो गमिष्यति महायशाः । अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् । आहरेत त्वयाशप्तः संतानार्थं कुलस्य च ॥ श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ राजा दशरथो यष्टुकामः कृताञ्जलिः । ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ( वारा. १।११।२-८)
1
च
(वाल्मीकि रामायणीय शिरोमणिटीकायां तु पौराणिकी गाथेयमुद्धृता — अनेन मेऽनपत्याय दत्तेयं वरवर्णिनी । याचते