________________
व्यवहारकाण्डम्
१३२४
इदं त्वौरसपौनर्भवविषयम् । यदोत्पन्नौरसभर्तुर्मृतत्वात् (५) व्याध्यादिना प्रथमौरसपुत्राभावे क्षेत्रजादिषु कृतेषु पश्चादौषधादिना विगतव्याधेरौरसे उत्पन्ने सतीदमुच्यते ।
बालापत्यतया स्वामिधनं स्वीकृत्य पौनर्भवभर्तुः सकाशा | त्पुत्रान्तरं जनयेत् तस्यापि च पौनर्भवस्य भर्तुर्मृतत्वाद्रिक्थहरान्तराभावाद्धनं गृहीतवती, पश्चात्तौ द्वाभ्यां जातौ यदि विवदेयातां स्त्रीहस्तगतधने तदा तयोर्यस्य यजनकस्य धनं स तदेव गृह्णीयान्न त्वन्यपितृजोऽन्यजनकस्य ।
*ममु.
1
(३) अत्र स्त्री वेश्यापुनर्भूस्वैरिणीतरेति पारिजातः । विर. ५८८ (४) द्वावौरसपौनर्भवौ विवदेयातां धनमावाभ्यां ग्राह्यं पोषण ते कार्यमिति । नेतरः अन्यपैतृकमन्यो न गृह्णीयादिति भावः । अथवा अध्यावाहनिकादिस्त्रीधनमात्रविषयं, अत एव स्त्रिया धनमिति समाख्या संगच्छते । " एक एवैौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थ प्रदद्यात्तु प्रजीवनम् ॥
मच.
ममु.
(६) शेषाणां, ये तत्र तत्रांशभागित्वेन निषिद्धास्तेषामानृशंस्यं दया, प्रजीवनं भरणम् । विर. ५४२ (७) तदौरसप्रशंसापरमेव न चतुर्थांशभागनिषेधपरम् । अन्यथा चतुर्थांशभाक्त्वप्रतिपादकवसिष्ठकात्यायनवचनयोरानर्थक्यप्रसङ्गात् ।
पमा. ५१६
(८) तदपि दत्तकादीनां औरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यमिति विज्ञानेशः । सोमेश्वरस्तु - दत्तादिव्यतिरिक्तानां कानीनगूढोत्पन्नसहोढपौनर्भवानामेव जीवनदानमिति शेषशब्दार्थ इत्याह । भारुचिस्तु 'एक एवौरसः पुत्रः' इत्यादिवचनात् एकपुत्रविषये दत्तादिस्वीकारोऽस्ति, तथा च दत्तपुत्रादिस्वीकारात्पूर्व स्थितस्य पुत्रस्य दत्तादीनां प्रजीवनप्रदानं नान्येषामित्याह । अयमेव पक्षः श्रेयान् । सवि. ३९३-३९४
(९) तदपि दत्तकादीनामौरसप्रतिकूलत्वेऽत्यन्तनिर्गुणत्वे च चतुर्थांशादिनिषेधपरं कानीनादिपरं च ।
(१) औरसवचनं सर्वक्षेत्रजाद्युपलक्षणार्थम् । य एवैकः पुत्रत्वाद् रिक्थभाक् स एव कृत्स्नं पितृधनं गृह्णीयात् । इतरेषामानृशंस्यार्थ प्रजीवनमात्रं कु र्यादित्यर्थः । विश्व. २।१३६
+व्यप्र.४८२
(१०) तत्र, सवर्णोत्तम जारजा औरसे सति क्षेत्रजसमत्वाच्चतुर्थांशहराः । असवर्णास्तु जीवनोपयुक्तभाजः ।
Xविता. ३७५ षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्यैतृकाद्वनात् । औरसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥
(२) सत्यौरसे क्षेत्रजादन्ये सर्वेऽदायादाः प्रजीवनमौरसालभेरन् । आनृशंस्यमपापं, अददत्पापमाप्नोति । मेधा. (३) तदपि दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । Xमिता. २।१३२ (४) ये तु पितुरौरसाच्च भ्रातुर्हीनवर्णास्ते ग्रासाच्छादन मात्राधिकारिणः । तदाह मनुः - एक एवेति । दा.१४८
(१) अत्र ('औरस क्षेत्र जौं' इत्यत्र च ) क्षेत्रजः पुत्रिकापुत्र एवाभिप्रेतः । नन्वसावौरसतुल्य एव । सत्यम् । तेनैव चोक्तं 'पितृरिक्थस्य भागिनाविति । कथं तर्हि “षष्ठं पञ्चममेव वेति । जनकपितृधनाभिप्रायमेवैतत् ।
|
x वीमि मितावद्भावः ।
* नन्द ममुगतम् । (१) मस्मृ. ९ | १६३; विश्व. २।१३६६ मेघा. ९ | १४१३ मिता. २।१३२६ दा. १४८; व्यक. १५३३ स्मृच.२८८ पू.; विर. ५४२; स्मृसा. ६७ पू.; पमा. ५१५३ रत्न. १४२; विचि. २३३-२३४; व्यनि. ( - ); नृप्र. ४०; सवि. ३९३ (तु); चन्द्र. ९१ सुन: (स्तुनः) पू.; वीमि. २।१२८६ व्यप्र. ४८२:४८५ पू.; विता. ३७० सुन: (स्तुनः) तु प्र (तूप) : ३७५; राकौ . ४५४ पू. बाल. २।१३५ (५.२१६); समु.१३९; दच.२९ बृहस्पतिः.
+ मितावद्भावः । X (पृ. ३७०) मितावद्भावः । (१) स्मृ. ९ | १६४; विश्व. २।१३६; मिता. २ । १३२१ दा. १४७; अप. २।१२७; व्यक. १५३ पैतृका (त्पैत्रिका); गौमि. २८।३२; उ.२।१४ २१ विर. ५४३६ स्मृसा. ६७ तु (च) प्रदद्यात् ( दद्याद्वै) वा (च); पमा. ५१६; व्यनि.जन् (जेव); नृप्र. ४० वा (च); सवि. ३९४६ चन्द्र.९१६ व्यप्र. ४८२ ; उ. १४८ वा (च); विता. ३७३ वा (च); राकौ . ४५४ जन् ( जेत् ) वा (च); बाल. २।१३५ (पृ. २३९) प्रथमपादः; समु. १३९.