________________
तेषां दायहरत्वविचारश्व
१३२१ कथनात्तत्रानुक्तिरिति न न्यूनता । सर्वथा ततः पुत्रा - धिक्यलाभान्न द्वादशत्वं नियतम् । अत एव 'ननु क्षेत्रजाद्यपेक्षया पुत्रिकापुत्रस्य पुत्रत्वेनाधिक्ये द्वादशसंख्यातिरेक आप्नोति । भवतु को दोषः त्रयोदशोऽयं पुत्रोऽस्तु' इति मेधातिथिना व्याख्यातम् । अत एव विज्ञानेश्वरेण 'भ्रातॄणामित्यस्य तथा व्याख्याने संख्याविरोधरूपदोषोद्भावनं न कृतम् । अत एव च बृहस्पतिः - 'पुत्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्वशः । संतानकारणात्तेषामौरसः पुत्रिका तथा ॥ आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् । तथैकादश पुत्रास्तु पुत्रिकौरसयोर्विना ।' इति । एवं च तत्र तत्र द्वादशोक्तिः । तत्र तत्र परिगणितानां स्फुटतया संख्याबोधनद्वारा न्यूनत्वव्यवच्छेदनार्थी, नाधिक्यव्यवच्छेदार्था । तत्रान्येषां यथासंभवमन्तर्भावमभिप्रेत्य वेति न दोषः । अन्यथा तेन तत्र तस्य गणनात्तस्यान्यत्र गणनान्मिथो विरोधः स्पष्ट एव । एवमेवकारोऽपि वासिष्ठो योज्यः । तस्मात्तदाधिक्ये न दोषः । बाल.२।१३५ (पृ.२३५-२३६) (९) पुत्रिकापुत्रस्य पौत्रतुल्यतया पुत्रेष्वनुपादानं क्षेत्रजशब्देन संगृहीतत्वाच्चेति ।
नन्द.
मुख्यगौणपुत्राणां दायहरत्वक्रमः 'श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति । बहवचेत्तु सदृशाः सर्वे रिक्थस्य भागिनः ॥
(१) श्रेयानुत्तमः । पापीयानपकृत्तमः । तन्निषेधश्व औरसपुत्रिकाजक्षेत्रजगूढज कानीन पौनर्भवदत्तकक्रीतकत्रिमस्वयं दत्तसहोढ जापविद्धानुक्रमेण परिगणय्य याज्ञवल्क्येन 'पिण्डदोंऽशहरचैषां पूर्वाभावे परः पर' इति विशेषतो विधानात्तद्वचनानुसारेण कर्तव्यः । अत्र तु क्रमपाठो न पूर्वपूर्वोत्कर्ष इति आपादनार्थः । क्रमपाठोऽत्र स्वबन्धुदायादबान्धवविवेकपरत्वादिति । सदृशा औरसा एव दत्त्रिम एव त्वित्यादि ( ? ) । मवि.
दायभागः - पुत्रप्रकाराः,
त्याहुरिति।' (वस्मृ.१७।३५) बौधायनेनापि, 'द्विजातिप्रवरात् शूद्रायां जातः कामात्पारशव' इति । (बौध . २ । २।३३-३४) मनुनाऽपि, 'यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् । स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥' (मस्मृ. ९ | १७८) इति । द्वितीयस्तु द्विजातेर्दा स्यामुत्पन्नः । तत्राद्यस्य न तदभावे कृत्स्नधनहारित्वम् । 'यद्यपि स्यात्तु सत्पुत्रो पुत्रोऽथवा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रा पुत्रा धर्मतः ॥ इति मनूक्ते: (मस्मृ. ९।१५४) । अत एव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सर्वधनग्रहणं सि द्धम् । द्वितीयस्तु 'जातोऽपि दास्यां शूद्रेणेत्यत्र शूद्रग्रहणात्पितुरिच्छ्याऽपि नांशं भजते नाप्यर्द्ध दूरत एव कृत्स्नम् । किं तु 'अनुकूलश्वेज्जीवन मात्रं लभते' इति । औरसलक्षणं तु मूले 'औरसो धर्मपत्नीज' इति वसिष्ठो ऽप्युक्तः । विष्णुरपि, 'अन्य द्वादश पुत्रा भवन्ति । स्वक्षेत्रे संस्कृतायामुत्पादितः स्वयमौरसः प्रथम' इति । देव लोsपि 'संस्कृतायां च भार्यायां स्वयंमुत्पादितो हि यः । औरसो नाम पुत्रः स' इति । आपस्तम्बोऽपि 'सवर्णा पूर्वशास्त्रविहितां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः । दायेनाव्यतिक्रमश्वोभयोरिति । ' ( आध. २।१३।१) बौधायनोsपि, 'सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्रं विद्यादिति । (बौध. २।२।१४ ) श्रुतिश्च 'अङ्गादङ्गादिति' ‘आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथेह पुरुषस्यात्मा तस्मात्त्वमिह जायसे ||' 'आत्मा पुत्र इति प्रोक्तः पितुर्मातुरनुग्रहात् । सर्वान् नस्त्रायसे यस्मात्पुत्रस्तेनासि संज्ञितः ||' इति च । 'सवर्णा धर्मविवावोढा धर्मपत्नी तस्यां जात औरसः पुत्रो मुख्यः' इत्यत एव विज्ञानेश्वरेण व्याख्यातम् । मनुनाऽपि -- 'स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम् |' (मस्मृ. ९ । १६६ ) इति ।
एवं च शूद्रापुत्रस्य द्विविधस्यापि तल्लक्षणानाक्रान्तत्वात्पृथगुक्तिः । अत एव मूर्धावसिक्तादीनामौरसेष्वन्तर्भाव इति विज्ञानेश्वरेणोक्तम् । शूद्रापुत्रस्त्वौरसोऽपीत्यत्र तुः स यौगिको न तु रूढः, केषांचित् गणनाकरणे बीजं तु कृत्स्नधन हारित्वाभावादेव । मूलेन तु चतुरित्यादिना क्षत्रियापुत्रादिवत्तस्य कथनं प्राक् कृतमेव । मनुनाऽपि
पू.; व्यप्र.४८६ उवत् ; व्यउ. १४८ पू. बाल. २।१३२,
(पृ. १७७), २।१३५ (१.२३६, मनुशंखलिखिताः, २४०);
पूर्व पुत्रिकापुत्रस्य ' दौहित्र एव च हरेदि त्यादिना | समु. १२८ उत्त., १३७ उवत्, पू.; दच.३० गौमिवत्.
(१) मस्मृ. ९।१९८४ ग. पुस्तके, लाभे (भावे); व्यक. १५५; गौमि. २८/३२ लाभे पापी ( भावे यवी) पू.; उ. २।१४ २ लाभे ( भावे) पू. विर. ५५२ उवत्; स्मृला.६७ उवत्,