________________
दायभागः - पुत्र प्रकाराः, तेषां दायहरत्वविचारश्च
१३१५
(५) मिताटीका - अत्र दायहरणं सर्वेषामविशेषेण | त्रैपुरुषिकपिण्डदातृतया एकपिण्डसंबन्धेन सपिण्डः प्रतिपादितं, प्रतिनिधीनां क्रमेण तत्तदभावे । तस्य तस्याप्यधिकारार्थं त्रयाणामिति वचनं आनन्तर्येण बाल. २ । १३५(पृ.२१६) च विशेषार्थ अनन्तर इति वचनं वर्णनीयम् । तेन मृतउदकपिण्डदान संबन्ध: भोग्यमृतदेयपित्रादित्रयपिण्डदातुः पितृदौहित्रादेरभावे मृतदेयमातामहादिपिण्डदातृणां मातुलादीनामानन्तर्यक्रमेणाधिकारो बोद्धव्यः । एतत्पर्यन्ताभावे तु सकुल्यः । दा. २११-२१३ (२) तत्र प्रत्यासन्नः पूर्व धनभाक् । यदाह मनुः'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति । अनन्तरता च तेनैवोक्ता -- त्रयाणामिति । संप्रदानकारकीभूतानां पित्रादीनां त्रयाणां चोदकादिदाता, यश्च त त्संततिजोऽन्योऽपि तेषामेवोदकादिदाता स तस्य प्रत्यासन्नः सपिण्डः । तदत्र तु सोदरो भ्राताऽतिशयेन प्रत्यासन्नः, समानसंप्रदानोदका दिदातृत्वात् । तत्पुत्रः पुनरीपद्यवहितः पितृपिण्डे संप्रदानत्वात् । तत्पौत्रस्तु ततोऽपि व्यवहितः पितृपितामहपिण्डयोर्भिन्नसंप्रदानकत्वात् । तत्पौत्रस्त्वत्यन्तव्यवहितः पिण्डत्रयेऽपि संप्रदानभेदात् । एवं भ्राता तत्पुत्रस्तत्पौत्र इति पितृसंततौ त्रयः प्रत्यासन्नाः सपिण्डाः । एवं पितामहसंततौ प्रपितामहसंततौ च । एषाभावे पित्रादित्रयस्य ये प्रपौत्रास्तेषां पुत्रादित्रयं सापि - ण्डयाद्धनग्राहकम् । अप. २।१३५
(३) त्रयाणामिति पितृतत्पितृतत्पितॄणां उदकं कार्य नियमेन तथा पिण्डः पिण्डदानम् । पञ्चमो नोपपद्यत इत्यवश्यमुदकं पिण्डं च दाप्यम् । मवि.
(४) इदानीं क्षेत्रजानामप्यपुत्रपितामहादिधनेऽप्यधिकारं दर्शयितुमाह- त्रयाणामिति । त्रयाणां पित्रादीनामुदकदानं कार्य, त्रिभ्य एव च तेभ्यः पिण्डो देयः । चतुर्थश्च पिण्डोदकयोर्दाता पञ्चमस्यात्र संबन्धो नास्ति । तस्माद्युक्तोऽपुत्रपितामहादिधने गौणपौत्राणामधिकारः । औरसपुत्रपौत्रयोश्च 'पुत्रेण लोकान् जयतीत्यनेनैवात्र पितामहादिधनभागित्वमुक्तम् । ममु. (५) श्रीकर निबन्धे तु पिता हरेदिति । त्रयाणामिति । तत्रायं नियमः । त्रयाणां पिण्डोदकदानप्रतियोगित्वेन तदूर्ध्वत्रयाणां लेपभागित्वेन पिण्डदातृत्वेन सपिण्डत्वम् । ससानां सपिण्डत्वेनासपिण्डव्यावृत्तत्वेनोपस्थितौ नियमे सत्यपि तद्रूपापन्नानामतद्रूपापन्नानामपि एतत्त्वात्कस्येत्य
याणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ।। (१) 'पुत्रा रिक्थहराः पितुः' इत्यभिधाय कुत इत्यपेक्षायां त्रयाणामुदकं कार्यमिति ।
दा. १६४ दा. २०८
अनेन पञ्चमो निषिद्धः । दायभागप्रकरणे 'त्र्याणामुदकं कार्ये त्रिषु पिण्डः प्रवर्त्तते । चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ इत्युक्त्वा 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेदिति (मस्मृ. ९।१८७) लिखितं, पञ्चमस्यैकपिण्ड संबन्धहीनस्य पितृमातृकुलजातैकपिण्डुसंबन्धिसद्भावे अनधिकारार्थम् । अन्यथा 'सपिण्डतातु पुरुषे सप्तमे विनिवर्तते' (मस्म. ५।६०)इति सपिण्डत्वस्योक्तत्वात् 'अनन्तरः सपिण्डाद्यः' इत्यनेन चानन्तर्यस्य धनग्रहणकारणत्वेनाभिहितत्वात् त्रयाणामिति अनर्थकं स्यात् । न च त्रेपुरुषिकश्राद्धविधा नार्थमिदमिति वाच्यं दायभागसंदंशमध्यपाठात् श्राद्धस्य च वचनान्तरविहितत्वात् । तथा च मनुः - 'स्वाध्यायेनार्चयेदृषीन् होमैर्देवान् यथाविधि । पितॄन् श्राद्धेन नूनन्नैर्भूतानि बलिकर्मणा ॥ ’(मस्मृ. ३।८१)
नच जननक्रमेणानन्तर्यग्रहणार्थे वचनं न तु प्रदातृत्वेनानन्तर्यार्थमिति वाच्यं जननक्रमस्य वचनादनवगतेः । किन्तु उदकवत् त्रिभ्यः पिण्डदानं चतुर्थोऽधस्तनः पिण्डदाता पञ्चमस्तु पूर्वतनो न संप्रदानं नाप्यधस्तनः पञ्चमः पिण्डदातेत्यभिधाय आनन्तर्यमभिदधानो मनुः प्रदातृत्वातिशयेनैवानन्तर्य ज्ञापयति । तस्मात् यो यस्त कुलोत्पन्नोऽतद्गोत्रोऽपि स्वदौहित्र पितृदौहित्रादिरतत्कुलोत्पन्नो वा मातुलादिर्धनिनो मृतस्य पितृमातृकुलगत
इति
* व्यप्र. व्याख्यानं ' प्रपितामहः पितामहः बौधायनवचने द्रष्टव्यम् ।
(१) मस्मृ. ९।१८६६ दा. ९७ पू, १६४, २०८, २११ अप. २।१३५ दाते (दस्ते); व्यक. १६०; विर. ५९२; स्मृसा. १३५, १४१, १४७; स्मृचि. ३२६ दात. १८७,१९५६ व्यप्र. ५०४; विता. ३८४५. ४६८पू. बाल. २।१३५ (पृ. २१९); सेनु. ४८पू.; विच. ११८पू., १३२.