________________
१३१२
व्यवहारकाण्डम्
तत्प्रजापदोपात्तयोः स्त्रीपुंसयोर्मध्ये पुत्रस्य तद्वाक्य विहितगुणफलतया अवधृत्यानुवादः पुत्रार्थिप्रवृत्त्यर्थः । गुणाश्च युग्मनिशाशुक्राधिक्यस्त्रीक्षामतेन्दु सौकथ्य पुंसवनापूर्वादयो योगिमन्वादिभिरेव 'एवमित्यादिना स्पष्टीकृताः । आश्वलायनेनापि पाणिग्रहणे पुत्रपुत्रयोर्गुणफलत्वं प्रकटितम् । " गृभ्णामिते सौभगत्वाय हस्तमि त्यङ्गुष्ठमेव गृह्णीयात्, यदि कामयेत ‘पुमांस एव मे पुत्रा जायेरन्नित्यङ्गुलीरेव, स्त्रीकामो रोमान्ते, हस्तं साङ्गुष्ठमुभयकाम इति” । एतेन 'स्त्रियो युग्मासु रात्रिषु' इत्यपि व्याख्यातम् । तस्मात्पुत्रस्यैव श्राद्धकर्तृत्वेन परलोकसाधनतया पुत्र्या अपि दानश्राद्धादिविधिसाधनत्वेन सिद्धे मुख्यत्वे तदपचारे प्रतिनिधिर्युक्त एव । ‘दुहिता दुर्हिता दूरे हिता दोग्धेवी' इति निरुक्त्या दुहितुर्दोहित्रद्वारापि पिचुपकारकत्वं दर्श यति यास्क: । मनुरपि — 'पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥' इति । महाभारते गान्धार्युक्तिश्च 'एका शताधिका बाला भविष्यति गरीयसी । तेन दौहित्रजांलोकान् प्राप्नुयामिति मे मतिः ||' अन्यत्रापि 'दुहितर एव मातापित्रोः किमौ रसाः पुत्राः । निपतन् दिवो ययातिदहित्रैरुद्धृतः पूर्वम् ।।' इति । दौहित्रैरष्टकादिभिः कानीनैर्मागधीपुत्रैः । एवञ्चौरसदुद्दित्रभावे दौहित्रकृतलोकप्रात्यर्थ क्षेत्रजादि दुहितृणामपि प्रतिनिधित्वेनोपादानं सिद्धमेव । न च व्रीहिप्रतिनिधित्वे इव वचनमस्ति । यद्येवं तर्हि भर्त्रपचारे देवरस्येव भार्यापचारे श्यालिकायाः प्रतिनिधित्वं स्यात् । श्वशुरशरीरावयवान्वयेन सौसादृश्यादिति चेत्, मैवम् । न हि श्वशुरशरीरावयवान्वयेन भार्योपादानं किन्तु तस्याः संस्कृतस्त्रीत्वेनं, न च तत् श्यालिकायामस्ति, यत्र च कनिष्ठादौ तदस्ति तत्र भवत्येव तस्याः ज्येष्ठा प्रतिनिधित्वम् । यथाह व्यतिरेकमुखेन योगीश्वरः - 'सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठा न विनेतरा ॥' इति । तस्मात् सिद्ध मासां न्यायत एव प्रतिनिधित्वम् । तत्र क्षेत्रजगूढजकानी सोढपौनर्भवानां पञ्चानां मध्ये क्षेत्रजोत्पादनं मनुरेवाह · -- ' देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया । प्रजेप्सिताधिन्तव्या संतानस्य परिक्षये ॥' इत्यनेन संतानस्योभयविधस्य परिक्षये उभयविधायाः
प्रजाया इष्टत्वेन यथायथं प्रतिनिधित्वमित्यर्थः । इतरासु चतसृषु नोत्पादनविध्यपेक्षा लोकस्वभावसिद्धत्वात्, तासां च नामानि पुत्रवत् तान्येव, प्रवृत्तिनिमित्तस्योभयत्रापि तुल्यत्वात्, तासां चौरसप्रतिनिधित्वं विकलावय वारब्धत्वेन न्यायतएव सिद्धं, व्रीह्मपचारे नीवाराणामिव । अवयववैकल्यं च व्यवयवमात्रान्वयेन भत्र - वयवान्वयाभावात् । अस्त्वेवं क्षेत्रजादीनां दुहितॄणां औरस दुहितृप्रतिनिधित्वं न्यायवलात्, दत्तककीतकृत्रिमदत्तात्मापविद्धानां सौसादृश्यन्यायाभावे कथमस्तु प्रतिनिधित्वम् । मैवम् । तत्रापि 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधि:' इति योगिप्रतिपादितसजातीयत्वादिसौसादृश्यसद्भावात् अस्त्येव न्यायप्रसरः । उपपादितं . चैतदधस्तात् पुत्रप्रतिनिधिविचारे ।
ननु क्षेत्रजादीनां पञ्चानां मात्रवयवान्वयेन दत्तकादीनां पञ्चानां सजातीयत्वेनास्तु प्रतिनिधित्वं 'पूर्वाभावेपरः पर' इति क्रमविधानं तु कथं सादृश्याविशेपादिति चेत्, मैवम् । पूर्वपूर्वश्रेयस्त्वेनेति ब्रूमः । तदाह विष्णुः -- 'एतेषां पूर्वः पूर्वः श्रेयान्' इति । श्रेयो दृष्टादृष्टविशेषः, दृष्टं अवयवप्रत्यासत्यादि अदृष्टं शुद्धयादि, वचनं तु नियमार्थे, यदि सोमं न विन्देत् पूतिकामभिषुणुयादित्यादिवत् विशेषान्तरं अस्मत्कृतायां विष्णुस्मृतिटीकायां केशव वैजयन्त्यामव चेयम् ।
दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि उपलभ्यन्ते । तत्र दत्तकाया रामायणे बालकाण्डे दशरथं प्रति सुमन्त्रस्य सनत्कुमारोक्तभविष्यानुवादो लिङ्गम् - 'इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो वीरः श्रीमान् सत्यपराक्रमः ॥ सख्यं तस्याङ्गराजेन भविष्यति महात्मना । कन्या चास्य महाभागा शान्ता नाम भविष्यति ।। अपुत्रस्त्वङ्गराजो वै लोमपाद इति श्रुतः । स राजानं दशरथं प्रार्थयिष्यति भूमिपः ॥ अनपत्योऽस्मि धर्मज्ञ कन्येयं मम दीयताम् । शान्ता शान्तेन मनसा पुत्रार्थ वरवर्णिनी । ततो राजा दशरथो मनसाऽभिविचिन्त्य च । दास्यते तां तदा कन्यां शान्तामङ्गाधिपाय सः ॥ प्रतिगृह्य तु तां कन्यां स राजा विगतज्वरः । नगरं यास्यति क्षिप्रं प्रहृष्टेनान्तरात्मना ॥ कन्यां तां ऋष्यशृङ्गाय प्रदास्यति स वीर्यवान् ॥'