________________
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारश्व
१३०३
ज्ञापयति । उपकारापचयाभिप्रायाच्च प्रतिनिधिव्यवहारः । न ह्येषां प्रतिनिधिता संभवति । प्रारब्धस्य कर्मणोऽङ्गापचारे प्रतिनिधिर्न च पुत्रकर्माङ्गमपत्योत्पादनकर्मणोऽगुणकर्मत्वात् । तेन सत्येव क्षेत्रजादीनां पुत्रत्वे प्रतिनिधित्ववचनमौरसप्रशंसार्थम् । यथाऽपशवो वाऽन्ये गोऽश्वेभ्यः पशवो गोऽश्वा इति पशूनामपशुत्ववचनं गवाश्वान् प्रशंसितुम् । यथा च यो यदीयाद्वीजाज्जातः
तस्य न पुत्र इति तथा च दर्शितं महाभारते - द्वैपायनाज्जाताः पाण्डुधृतराष्ट्रविदुरादयो नैते व्यासपुत्रा इति व्यपदिश्यन्ते । यथा च सप्रयोजनं क्षत्रियादिपुत्राणामौरसत्वं तथोपपादितम् । अथ क्षेत्रजादिषु पुत्रिकापुत्रेण द्वादशसंख्यातिरेक आप्नोति । भवतु को दोषः । त्रयोदशोऽयं पुत्रोऽस्तु । औरसेन तुल्यफलत्वात् तदग्रहणमिति । तत्साम्याच्च । तथा च स्मृत्यन्तरं ' तत्समः पुत्रिकासुतः' (यास्मृ. २।१२८) इति ।
(१) आत्मीयवचनः स्वशब्दो न समानजातीयता- दृष्टं यथौरसो भूयसा शक्नोत्युपकर्तुं न तथेतरे इति माह । एतेन स्वयं संस्कृतायां जात औरस इतरथाSसंस्कृताया निवृत्तिपरः संस्कृतशब्दः संभाव्यते । ततश्चान्येन संस्कृतायामपि औरसः स्यात् । उक्तार्थे च स्वशब्दे क्षत्रियादिपुत्रा अप्यौरसा भवन्ति । न हि तेषामन्यत्पुत्रलक्षणमस्ति । अन्ये तु प्राथमकल्पिकमौरसविशेषणं मन्वानाः क्षत्रियापुत्रानौरसान संपूर्णलक्षणान्मन्यन्ते । एवं तु व्याख्याने यथा स्वक्षेत्रे संस्कृतायामसंपूर्ण लक्षण औरसस्तथा स्वेऽसंस्कृतायां प्राप्नोति, किं पुनः क्षत्रियादीनामौरसत्वेन पुत्रास्तावद्भवन्ति परिमितांशभाजश्व । अथोच्यते । असत्यौरस क्षेत्र जादिलक्षणे द्वादशसंख्यानियमात्कथं पुत्रत्वमिति । अत्रोच्यते । किमु लक्षणेन, लोकतो व्यवहारप्रसिद्धेः । तथाहि यो यतो जातः स तस्य पुत्र इति, लौकिका व्यवहरन्ति । तथा चाजन के कश्चित्पितृव्यवहारं कुर्वन्नन्येनेति बोध्यते - नैष ते पिता न हि त्वमनेन जात इति । अन्वयव्यतिरेकाभ्यां जनकः पिता जन्यश्च पुत्र इत्येतदवगम्यते । विशेष व्यपदेशार्थस्तु लक्षणारम्भः । यत्तु क्षेत्रजादेरजनके वा पुत्रत्वमिति तत्कार्यनिबन्धनमपुत्रस्यापि कार्यविधा - नात्पुत्रत्वं पुत्रत्वस्य तन्निषेधार्थे जातत्वमिति । तथा चैते प्रतिनिधय उच्यन्ते तैः । अत्रायं जन्मनिबन्धे हि पुत्रत्वे औरसपुनर्भवनियुक्तासुतानां विशेषो न स्याजन्मनस्तुल्यत्वात् । किंच पुत्रकार्यकारणान्नैव कश्चिदपुत्रः स्यात् । यस्तु लौकिको व्यवहारः असौ जनकेऽपि पितृव्यवहारदर्शनाद्व्यभिचारी । तेन सत्यपि प्रयोग इन्द्रादिशब्दवल्लोकतोऽर्थातिशयाच्छास्त्रे चोत्पत्तिविधानाद्भार्यादिव्यवहारवत् पुत्रव्यवहारोऽवगन्तव्यः । तत्र च यदौरसस्य प्राथमकल्पिकत्ववचनं तत्र व्यवहारोऽवग `न्तव्यः । न व्यवहारे, किं तर्ह्यपकारेऽपि पितुरुपकारेण मभावत्; स्मृचि. ३१ (स्वे क्षेत्रे च कृतायां तु स्वयमुत्पादयेत्सुतम्); नृप्र.३९ द्धि यम् (त्सुतान् ) कल्पितम् (कल्पजम् ); मच.मेधावत् ; 'चन्द्र. १७७ स्वक्षे... तु (सुसंस्कृतायां भार्यायां ) द्धि (तु); दमी. २४ कल्पितम् (कल्पिकम् ) ; व्यप्र. ४६७ स्वक्षे.......तु (संस्कृतायां स्वभार्यायां ) द्धि (तु) तमौरसं (और सं तं शेषं मेधावत्; बाल. २।१२८ तु (हि) द्धि (तु): २।१३२ (पृ.१७८) इथेद्धि यम् (दितश्च यः) शेषं मेधावत् : २ १३५ (पृ. २३६) मेघावत्; समु. १३७ द्धि (तु) प्रथ (प्राथ).
व्य. का. १६४
मेधा.
(२) उक्तपुत्राणां लक्षणान्याह – स्वक्षेत्र इति । स्वक्षेत्रे स्वरवर्णक्षेत्रे संस्कृतायां स्वयं परिणीतायाम् । प्राथमकल्पिकं मुख्यम् । मवि. (३) स्वभार्यायां कन्यावस्थायामेव कृतविवाह - संस्कारायां यं स्वयमुत्पादयेत्तं पुत्रमौरसं मुख्यं विद्यात् । 'सवर्णायां संस्कृतायामुत्पादितमौरस पुत्रं विद्यादि ति बौधायनदर्शनात्सजातीयायामेव स्वयमुत्पादित औरसो ज्ञेयः ।
ममु.
(४) स्वयमुद्वाहितायामुरः संश्लेषण जातत्वादौरसः । क्षेत्रजे तदभावो नारदेनोक्ती ' गात्रैर्गात्राण्यसंस्पृशन्नि' त्यादिना । 'सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं जानीयादि ति बौधायनदर्शनात् सजातीयोत्पन्नः औरसः । अत्र सवर्णापदं द्विजत्वादिजातिपरं अन्यथा क्षत्रियावैश्याशूद्रासु जातानां विप्रादित्रयपितृकाणामौरसत्वाभावेनापुत्रत्वापत्तिरिति । तत्र परं सजातीये मुख्यमौरसत्वमन्येषां गौणमिति भावः । स्वक्षेत्र इति क्षेत्रशब्दस्याजहल्लिङ्गता । प्राथमकल्पिकं उत्सर्गतः सर्वत्राधिकारिणम् । +मच.. (५) प्रथमकल्पितं प्रधानत्वेन कल्पितम् । नन्द.
+ भाच, मचवद्भावः ।