SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ १३०३ आददीतेति वचनमेतदनुरोधेन व्याख्यातं भारुचिना । न्यायनिष्ठेन भगवता सोमेश्वरेण न्यायतः प्रकरणमुल्लङ्घि तमिति ध्येयम् | अतश्च यानि रिक्थग्राहकर्तृकपराणि'श्राद्धं मातामहानां तु अवश्यं धनहारिणा ।' इत्यादीनि तानि षोडशश्राद्ध विषयाणीति ध्येयम् । व्यवहारकाण्डम् सवि.४२५-४२९ (६) दौहित्रस्य धनहरणादौ पुत्रिकाकरणमुपलक्षणमित्याह-- अकृतेति । (७) मिता टीका - मनुरपीति । पुत्रिकात्वेनाऽकृता वा कृता दुहिता सदृशात्सवर्णात् यं सुतं पुत्रं विन्देत लभेत तेन तत्सुतेन मातामहः पौत्री पुत्रवानेव । अत एव स सुतः उक्तहेतोः पाठक्रमादार्थक्रमस्य बलीयस्त्वात्तस्य धनं हरेत् गृह्णीयात्पिण्डं दद्याच्चेत्यर्थः । मेधातिथिना त्वमपि श्लोकः कैमुतिकन्यायेन पौत्रिकेयपरतयैव सिद्धान्तितः । बाल. २।१३५ (पृ.२०७ ) पौत्र दौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् || (१) अत्रापि दौहित्र : पुत्रिकापुत्र एव विज्ञेयः 'दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत्' । अयमप्यर्थवाद एव विहितत्वादर्थस्य एतयोर्विशेषो नास्ति । एकस्य माताऽन्यकुलीनाऽपरस्य पिता तस्माद्दौहित्रोऽप्यमुत्र लोक एनं प्रतं सन्तं सततं संतारयति नरकात्पूर्वस्मात् । मेधा. (२) एतच्च पौत्रिकेयस्य पौत्रेण साम्यप्रतिपादनार्थं पुत्रिकाकरणानन्तरजातपुत्रेण सह धने तुल्यभागबोधनार्थम् | *ममु. X दमी. व्याख्यानं ' क्षेत्रजादीन् सुतानेतान्' इति मनुवचने द्रष्टव्यम् । बाल. व्याख्यानं 'दौहित्रो ह्यखिलं रिक्थं' इति मनुवचने (१.१२९६) द्रष्टव्यम् । * शेषं मेधागतम् । (१) मस्मृ. ९ | १३९; गोरा. पौत्रवत् ( पूर्वजान् ); दा. ८१,२०९,२१५ उत्त; व्यनि.; दात. १८५ उत्त; नाभा. १४।४७ (=) दौहित्रोऽपि ह्य ( [स] दौहित्रोऽप्य) उत्त; दमी. १०९; विता. ४५४ उत्त; बाल. २।१३५ [पृ.२०२ (=) पू., २०७,२३३]; सेतु. ५७ उत्त; समु. १४१ स्मृत्यन्तरम् ; विच.११६ उत्त; नन्द. पौत्रवत् (पुत्रवत्). मच. । (३) पौत्रेण पितामहान्तेभ्यो दीयते पिण्डादि तथाऽयमपि ददातीति भावः । मच. ( ४ ) यत एवमतोऽस्य मातामहरिक्थहारित्वमुपपन्नमिति प्रासंगिकम् । नन्द. मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥ (१) स एव दद्यात्पिण्डं च पित्रे मातामहाय च ' इत्यत्र पुत्रिकापुत्र पिण्डदानं मातामहप्रक्रममुक्तम् । तस्मादयमपरः क्रमः पुत्रिकापुत्रपिण्डदानस्य, मातुः प्रथमतः पिण्डं निर्वपेदित्येवमादि । द्वितीयं तु पुनः पितुः । तस्या एव पितुरित्यनुमन्तव्यम् । ये तु पठन्ति 'पितुस्तस्ये' ति तत्प्रथमं पुत्रिकायै निरुप्य जनकाय निर्वपन्ति । तत्पितुः पितुरिति च जनकस्यैव पित्रे तृतीयम् । अस्मिंस्तु पक्षे +मेघा. मातामहाय पिण्डदानं नोक्तं स्यात् । | (२) तत्र श्राद्धक्रममाह - मातुरिति । मातुः प्रथमपिण्डस्ततो मातुः पितुस्ततो मातुः पितामहस्येति । एवं ! कृते यदि पितुरपि पुत्रान्तरं नास्ति तदा पितृपितामह - तत्पितॄणां दद्यादिति प्रागेवोक्तम् । *मवि. (३) पुत्रिकाकरणपक्षे मातामहस्य मातामहादि • त्रिभ्यो दद्यादन्वष्टकायामपि तथैवेति विशेषः । मच. (४) पुत्रिका चासौ सुतश्च पुत्रिकासुत इति पुत्रकैव पुत्रस्थानीयेत्यर्थः । व्यप्र. ४६९ औरसादिद्वादशगणमुख्यपुत्रविधि : तलक्षणानि च । औरसः । स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् || + ममु. मेधागतं मविगतं च । * नन्द मविगतम् । x शेषं मविगतम् । ÷ दी. ज्याख्यानं 'अपुत्रेणैव कर्तव्यः' इति अत्रिवचने द्रष्टव्यम् । (१) मस्मृ. ९।१४० क., ग, घ. पुस्तकेषु तृतीयं तु (तृतीयं तत् ) इति पाठ:; मेधा. पितुस्तस्य इति पाठः; व्यक. १५७ स्तस्या (स्तस्य); गौमि. २८।१६६ विर. ५६३, वीमि. २ | १२८ व्यप्र. ४६९. (२) मस्मृ. ९।१६६; मेधा. प्रथमकल्पितम् (प्राथमकल्पिकम्); व्यक. १५५ प्रथम (प्राथम्य); मभा. २८ । ३ ३ द्धि (तु); मवि.मेधावत्; विर.५५३ स्वक्षे... तु (संस्कृतायां तु भार्यायां ) द्धि (तु); सुबो. २।१३२ दयेद्धि यम् (दितश्च यः); व्यनि.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy