SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ दायभागः - पुत्रप्रकारा:, तेषां दायहरत्वविचारश्च १३०१ । धनग्रहणनिबन्धनं दौहित्रस्य मातामह श्राद्धकरणमिति । यत्तु पुलस्त्येनोक्तं- 'मातुः पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितृसूनवः ॥' इति, तत्तु पितृश्राद्धेनानुशिष्टमातामह श्राद्धविषयमित्यवगवन्तव्यम् । यथोक्तं पितामहेन – 'पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत् ॥' इति । व्यांसोऽपि 'पितुर्मातामहांश्चैव द्विजः श्राद्धेन तर्पयेत् । अनृणः स्यात्पितॄणां तु यज्वनां लोकमृच्छति ॥' इति । स्कान्दे पुराणेऽपि-‘कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु । कुर्यान्मातामहानां च तथैवानृण्यकारणात् ॥ इति । यत्तूक्तं — 'कुर्यान्मातामहानां तु नियमात्पुत्रिकासुतः । उभयोरथ संबन्धात्कुर्यात्स उभयोः क्रियाः ॥' अत्र केचित्-द्विविधो हि पुत्रिकापुत्रः एको मातामहसंबन्धः अपरः पितृमातामहसंबन्धः । मातामहसंबन्धेन मातामह श्राद्धं कर्तव्यम् । उभयसंबन्धेनोभयोः क्रियाः कार्या इति । अयमाशयः पुत्रिकायाः सुत इति षष्ठीसमासाश्रयणात् तस्य मातामहशब्दवाच्यत्वात् । ... पुत्रिकासुत इति कर्मधारय समासाश्रयणे तु 'अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति' । इति परि भाषावशात् पुत्रिकापुत्रस्य (?) मातामहसंबन्धः । इतरस्य तूभय संबन्धित्वमिति । अत्रोच्यते — दौहित्रस्य मातामहश्राद्धे पुत्रवदधिकार इत्याह विष्णुः - 'दौहित्रस्य मातामहश्राद्धं निष्कारणमिति । कारणं रिक्थग्रहणात्मकम् । दौहित्रस्य मातामह श्राद्धे नित्यवदधिकार इत्यर्थः । अत्र भारुचिः—निष्कारणमिति वदता विष्णुना भङ्गयन्तरेण समनन्तरकर्तॄणां पुत्रादीनां विद्यमानत्वे दौहित्रस्य कर्तृत्वसंक्रान्तिः । अत्रादिशब्देन पत्नी विवक्षिता, यद्यग्निविद्यासाध्यकर्मसु स्त्रीणामधिकारस्तत्रापि, पत्न्येव दद्यातत्पिण्डं कृत्स्नमंशं लभेत च' । इत्येवमादिवच तबलातत्र तासामधिकारः । तथा च गौतम:-'नित्यवदधिकारो दौहित्राणां मातामह श्राद्धे' इति । नित्यवदिति स्वार्थे वतिः । अतश्च — 'अकृता वा कृता वाऽपि यं विन्दे त्सदृशं सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति पत्नीशब्दवाच्य भार्यापुत्रिकासुतविषयं निष्कृत्यै कर्तव्यं विधिवत्सदा ॥' इति व्यासस्मरणात् । पुत्रिकाकरण पुत्रिकासुतविषयं च वेदितव्यम् । नन्वेवं 'अकृता वा कृता वेत्यादि वचनं पुत्रिकाकरणविषयं कृतेतिपदेन; अकृतेति पदेन तु गान्धर्वादिविवाहोढापुत्रिकाविषयम् । 'पौत्री मातामहस्तेने 'ति वचनसामर्थ्यात् पौत्रत्वमुभयोरेव पुत्रिकायाः पुत्रत्वात् तत्पुत्रस्य दौहित्रत्वात् । गान्धर्वविवाहे मातामहसा पिण्डयसगोत्रत्वयोरनिवृत्तेः तत्र पौत्रत्वमिति तयोरेव मातामह श्राद्धे नित्यवदधिकारः न दौहित्रमात्रस्येति चेन्मैवम् । 'दद्यात्पिण्डं हरेद्धनमिति धनहरणस्य पत्नीमूलकत्वात्पत्नीपदेन यज्ञसंयोगप्रतिपादकेन गान्धर्वादिविवाहोढापर्युदासात् तत्पौत्राणां दूरत एव पत्नीमूलकधनग्रहणमिति । किं च पौत्रीति सामर्थ्यात् गान्धर्वादिविवाहोढापुत्रिकापुत्रेऽपि नास्ति दौहित्रत्वात्तस्य किन्तूपचार एव । अतः पूर्वोतमेव सम्यक् । नन्वेवं 'यो यत आददीत स तस्मै श्राद्धं कुर्यादिति वैष्णववचनं 'दौहित्रस्य मातामह श्राद्धं निष्कारणमिति च वैष्णवमेव, उभयोर्विरोध इति चेन्मैवम् । अत्र भगवतो भारुचेर्मतमवतिष्ठते यः श्राद्धाधिकारी यतो यस्मात्सकाशाद्धनमादद्यात्तेन मिलितेन द्रव्येण तस्मै तदर्थं तत्प्रतिनिधिर्भूत्वा कुर्यादिति । अयमाशयःबहुपुत्रस्थले बहुदौहित्रस्थले पितुर्मातामहस्य वा और्ध्वदेहिकक्रियाणां मध्ये नवश्राद्धषोडशश्राद्धानां निष्पादने न बहूनामधिकारः किन्त्वेकस्यैवेति प्रकरणसामर्थ्यादुक्तं भारुचिनेति ध्येयम् । सोमेश्वरस्तु —— वचनस्याभिधानशक्त्या प्रकरणं बाधित्वा 'यो यत आददीत स तस्मै श्राद्धं कुर्यादिति वचनं पुत्रदौहित्रव्यतिरिक्तरिक्थग्राहविषयमित्याह । एतच्च समनन्तरमेवोक्तं विष्णुना -- 'उद्धृतद्रव्यादेकेनैव शक्तेन श्राद्धषोडशकं कार्यमिति । षोडशश्राद्धग्रहणं नवश्राद्धानामुपलक्षकम् । तथा च गौतम : - - ' समुदितद्रव्येण नवश्राद्धं षोडशश्राद्धं च कुर्यादिति । चकारः पन्थापरिव्ययणं समुच्चिनोति । समुदितशब्देन ज्ञायते - एकस्यैवाधिकारो नान्येषामिति । विष्णुवचने शक्तपदं सामर्थ्यमधिकारं च गमयति । तथा चायमर्थ:- एकशब्दो मुख्यवाची मुख्यो ज्येष्ठोऽधिकृतश्चेत्स एव अधिकारी । अन्यथा समनन्तरन्यायसिद्धार्थः । शक्तो दृढाङ्गः । एकः दौहित्राणां मध्ये स एवाधिकारीति । अस्मिन् प्रकरणे पठितत्वात् 'यो यत |
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy