________________
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
-१२९१
पारिजातोऽप्येवमाह । मनुटीकायामुदयकरोऽप्येवम् । इति बृहस्पत्यैकवाक्यत्वात् । अत एव एक मातापितृका*विर.५८३ | णामिति व्याख्यातं मेधातिथिना । अनेन तेषामेवं तथा (६) इति मनुवचनं तद्भ्रातुः पुत्रेषु सत्सुः श्राद्धा- नियमो न भिन्नपितृकाणां भिन्नमातृकाणां चेति सूचिदिकरणे नान्यः प्रतिनिधिः कार्य इत्येतदर्थम् । तम् । अत एवाभियुक्ताः 'अत्रैकजातग्रहणं भिन्नोदरत्न. १४३-१४४ |राणामेकपितृकाणामपि सपिण्डान्तरलाभदशायां भ्रातृ सुतनियमो नेति ज्ञापनार्थे न तु भ्रातृसुतस्याग्राह्यत्वज्ञापनार्थम् । 'ब्राह्मणादित्रये नास्ति भागिनेयः सुतः कचित्' इति वृद्धगौतमवदत्र निषेधस्मृतेरनुपलम्भात् ' पुत्रवानिति मतुपा न त्वेवैकमिति निषेधस्याप्यत्रानवकाश इति । अत एव च सपत्नीविषये वचनान्तरारम्भः । भ्रातॄणामिति निर्धारणे षष्ठी । अत एव मध्ये इति तेन व्याख्यातम् । तेन ह्येकीयावयवान्वयेनैक मातापितृकत्वेनैकत्वं यथा तेषां तथैकावयबान्वयेन सर्वावयवान्वय सत्त्वेनैकपुत्रत्वं सर्वेषामिति सूचितं द्रौपदीवत् द्वयामुष्यायणवच्च । अत एव तेनैकपुत्रेण सर्वान् भ्रातॄन् सपुत्रान्मनुराहेति तेन व्याख्यातम् । एतेन प्रागुक्तं पाठान्तरं निरस्तम् । अत एव च सर्वे ते इत्युक्तिसंगतिः । अन्यथाऽन्ये ते इत्यादि ब्रूयात् । भ्रातृपदं स्फुटतया भगिनी निराससूचनद्वारा विषयप्रदर्शनार्थम् । यद्यपि भ्रातृपुत्रावित्येकशेषस्यापि संभवस्तथापि – ' ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ।' इति वृद्धगौतमोक्तेर्नेति पुमपत्यानामेव ग्रहणम् । एकः एकोऽपि । एकस्यापि सुते जाते इति तदेकवाक्यत्वात् । अनेन द्वयादेस्तत्त्वे सुतरां तथेति सूचितम् । पुत्रवान
|
(७) पुत्रातिदेशवाक्यानां 'एभिरेवौर्ध्वदेहिकं कर्तव्यमित्यर्थ' इति वृद्धाः । व्यनि. (८) धारेश्वरदेवस्वामिनौ तु विज्ञानयोगिमतानुवर्तनावेव । यथोक्तं देवस्वामिना - 'उभयत्रापि नान्यः प्रनिनिधिः कार्य' इति । अस्यार्थः – उभयत्रापि ' यद्येक पुत्रा बहव:' ‘भ्रातॄणामेकजातानामिति वचनद्वये भ्रातृसुते पुत्रप्रतिनिधितया कथंचित्कर्तुं शक्ये सति तदन्यो न प्रतिनिधिः । अनुलोमजानां तु मूर्धावसिक्तादीनां औरसेऽप्यन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । सवि.३९५
(९) (पुत्रप्रतिग्रहविषये) संनिहितेष्वपि भ्रातृपुत्रो मुख्यः । भ्रातृणामिति मनूक्तेरिति मिताक्षरायाम् । इदमेव चैतद्वचसः प्रयोजनं युक्तमन्यासंभवात् । व्यम. ५०-५१ (१०) तदपुत्रपितृव्य श्राद्धावश्यकत्वार्थे न पुत्रत्वपरम्। ‘स्वर्यातस्य ह्यपुत्रस्ये’ति अपुत्रत्वविरोधापत्तेः । भ्रातृपुत्रस्य दत्तकत्वस्तुत्यर्थमिति विज्ञानेश्वरः । विता. ३७०
(११) मिताटीका - एतेषां यथाश्रुतार्थत्वे त्रयोदशपुत्रत्वापत्त्या 'पुत्रान् द्वादश यानाहेति मन्वायुक्त द्वादशसंख्याविरोधापत्तिः । अपुत्रदायाधिकारिक्रमबोधकोक्त मूलवाक्ये भ्रातृसुतानां नवमस्थानस्थितिविरोधापत्तिः । पिण्डाद्यधिकारक्रमबोधकवाक्येऽपि पत्नी भ्राता च तज्जश्वेत्यादौ तृतीय स्थान स्थितिविरोधापत्तिश्च । तेषां तद्वत्पुत्रत्वे पत्न्याः पूर्वमेव निवेशौचित्यादिति चेन्न । तेषां किंचित्कार्यवत्त्वातिदेशपरत्वेन तेन तेषां वंशाविच्छित्तेः परलोकस्य पितृऋणदोषापाकरणस्य च करणेन तदर्थं सर्वपुत्राभावे पत्न्यादिसत्त्वे दत्तकपरिग्रहो नेति तात्पर्यात् । अत एवैकजातानामिति हेतुगर्भ विशेषणमप्यर्थवत् । तत्र च पुमान् स्त्रियेत्येकशेषः । सहोदरा * विर, ममुवद्भावः ।
पुत्रपौरपरम् । तत्रैव तस्य मुख्यत्वात् । जाते इति तदेकवाक्यत्वाच्च । अनेनान्यत्रायं नियमो नेति सूचितम् । अत्र पुत्रत्वेनैकानेकपुत्रप्रतीत्या सर्वविषयमिदम् । अग्रे तेनेत्याद्युक्तिस्तु एकत्र तथात्वेऽनेकत्र तथात्वं निर्विवाद मित्येवंपरा । चेदित्यनेन जनकस्यैवातत्त्वे सर्वेषां तत्वं दुरापास्तमिति सूचितम् । अत एव भवेदिति संभावने लिङ् । अत्र सर्वे वाक्यमिति न्यायेनैकस्यैव द्वयोरेव त्रयाणामेव वेत्यादिक्रमेण बोध्यम् । अत एवान्ये च पुत्ररहिता इति तेन व्याख्यातम् ।
किं च भ्रातॄणामित्यनेन तत्र पुत्रत्वातिदेशः । तथा हि सति पुत्रिण इति पुत्रवतीरिति च पदद्वयमधिकं स्यात् । तेन पुत्रेणेत्येकेनैव पुत्रत्वातिदेशसिद्धेः ।