________________
व्यवहारकाण्डम्
१२९०
(३) अस्य च दायभागप्रकरणेऽभिधानं पितुर्धने प्रत्न्यादिसद्भावेऽपि पुत्रस्य तदभावे पौत्रस्येत्येवं पुत्रसंतानाधिकारबोधनार्थम् । *ममु. । ( ४ ) पुत्रादीनां त्रयाणां जन्ममात्रतः फलभेदमाह - पुत्रेणेति । *मच. • नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ..(१) अपत्योत्पादन विधिशेषोऽयमर्थवादः । पुन्नामनरकं चतुर्विधभूतोत्पत्तिः पृथिव्यां व्यपदिश्यते । ततस्त्रा यते पुत्रो जातः देवयोनौ जायत इत्यर्थः । तस्माद्धेतोः पुत्र इति व्यपदिश्यते । मेधा. (२) युक्तं तदीयपुंसंतानस्य दायभागित्वमिति पूर्व दाढर्यार्थमिदम् ।
÷ममु.
( ३ ) स च कार्यविशेषः पुत्रस्यैव प्रोक्तः स्वयम्भुवेति तद्वचनमेवात्र प्रमाणमिति भावः ।
मच.
(१) तदपि भातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरण निषेधार्थ, न पुनः पुत्रत्वप्रतिपादनाय । 'तत्सुता गोत्रजा बन्धुः' इत्यनेन विरोधात् । मिता. २।१३२
(२) एकजातानामिति एकेन जनितानां सापत्नानामपि । एवं च यदि भ्रातुरपत्योत्पादनशक्तिरस्ति तदा तत्पुत्रेणैवेतरस्य पुत्रवत्वादेवरगमनेन क्षेत्रजपुत्रकरणम युक्तमनापदीति निषेधाद्युक्तं भवति । मवि.
(३) तत्र परमार्थतो भ्रात्रन्तरस्यापि तेनैव पुत्रवत्वमाचष्टे । भ्रातृपुत्रसद्भावेऽपि भ्रात्रन्तरस्यापुत्रत्वावगमात् । अत एव याज्ञवल्क्येन 'पत्नी दुहितर' इत्यादिना भ्रातृपुत्रसद्भावेऽपि 'स्वर्यातस्य ह्यपुत्रस्य' इत्युक्तम् । भ्रातृपुत्रस्य च पत्नीदुहितृपितृभ्रात्रभावे सति अपुत्रधनभागित्वं च अत एव तत्रोक्तम् ।
एवं तर्हि मनुवचनस्य का गतिः ? उक्त अस्माभिः श्राद्धाधिकारनिरूपणप्रकरणे । भ्रात्रन्तराणां पुत्रवत्त्वोक्तिः ग्रामस्य तात इतिवत् औरसप्रशंसार्थेति । यत्तु संग्रहकारेणोक्तम् -' यद्येकजाता बहवो भ्रातरस्तु सहोदराः । एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥ बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः । एका चेत्पुत्रिणी तासां पिण्डदस्तु स इष्यते ।।' इति । तस्य पूर्वोक्तेन सहा
शेषं मेधागतम् । ÷ शेषं यथाश्रुतम् ।
*
. xदमी. व्याख्यानं 'ब्राह्मणानां सपिण्डेषु' इति शौनकवचने विरोधाय देवस्वामिना तात्पर्यार्थ उक्तः । ' उभयत्रापि
द्रष्टव्यम् |
(१) मस्मृ. ९।१३८६ दा. १०१ ( ) पू. : १६१ त्रायते पितरं ( पितरं त्रायते ) मनुविष्णू; व्यक. १५९ दावत्, मनुविष्णू; विर. ५८३ दावंत, मनुविष्णू; व्यप्र. ५०६ दावत, मनुविष्णू : ५६ १ दावत्, स्मृति:; बाल. २।१३५ ( पृ. २२० ) मनुविष्णू : २।१३७ दावत्, मनुविष्णुः सेतु. ४१; समु. ९५दावत्.
नान्यः प्रतिनिधिः कार्य' इति ग्रन्थेन । उभयत्रापि 'यद्येकजाता' इत्यादिवचनद्वयेऽपि भ्रातृसुते सपत्नी सुते च पुत्रप्रतिनिधितया कथंचित्कर्तुं शक्ये सति तदन्यः प्रतिनिधिर्न कार्य इति तात्पर्यार्थी बोद्धव्य इत्यर्थः । स्मृच.२८९
(४) नरको दुःखं तस्य पुदिति नाम्नस्तस्मात्पितरं त्रायत इति पुत्र इति ।
बहुभ्रातॄणां तत्पत्नीनां च एकेन भ्रातृपुत्रे पुत्रवत्वम् श्रीतृणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वास्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ||
नन्द.
(२) मस्मृ. ९।१८२; मिता. २।१३२ सर्वास्तांस्ते (सर्वे ते ते); व्यक. १५९ मितावत्; उ. २।१४ २ मितावत्; स्मृच. २८९ एकश्चेत् (यथेकः ) ; विर. ५८२ मितावत्; दीक. ४५ मितावत्; रत्न. १४२ मितावत् व्यनि. मितावत्; सवि. ३९४ ३९५ ( - ); दमी ३० मितावत् व्यप्र. २७१, ४७७ संप्र. २११ मितावत् व्यम. ५० मितावत्; विता. ३७०; राकौ. ४५५६ बाल. २।१३५ [ २२५,२२६ सर्वोस्तांस्तेन (सर्वे तेनैव); समु.९५ मितावत्; कृभ.८७९ भातृणामेकजाताना (बहूनामेकपुत्राणा) : ८८१ प्रथमपाद: दच.६ भ्रातृणा (सर्वेषा) शेषं मितावत्.
(४) भ्रातृणामेकमातापितृकाणां मध्ये यद्येकः पुत्रवान्स्यादन्ये च पुत्ररहितास्तदा तेनैकपुत्रेण सर्वान्भ्रातॄन् सपुत्रान्मनुराह । ततश्च तस्मिन्सत्यन्ये पुत्रप्रतिनिधयो न कर्तव्याः । स एव पिण्डदोंऽशहरश्च भवतीत्यनेनोक्तम् । एतच्च 'पत्नी दुहितरचैव पितरौ भ्रातरस्तथा । तत्सुता' इति याज्ञवल्क्यवचनाद्भातृपर्यन्ताभावे बोद्धव्यम् । +ममु.
(५) अत्रासहायेनोक्तं पुंसां सति भ्रातृजे, स्त्रीणां सपत्नीपुत्रे क्षेत्रजादयः प्रतिनिधयो न कर्तव्या इति ।
+ मच. ममुगतम् ।