________________
१२६८
व्यवहारकाण्डम्
सीदति प्रत्यवैति । न ह्यग्निः सर्वे दहतीत्यस्माकमपि । ब्राह्मणस्य ब्राह्मणी क्षत्रियस्य क्षत्रिया, अन्यथा ब्राह्मणतथा शक्तिरिति । उ. परिणीत क्षत्रियापुत्रादेर्द्वादशपुत्रान्तर्भावो न स्यादिति पारिजातः । xविर. ५५४ (२) 'औरसे तूत्पन्ने' इत्युक्तम्, तत्र सर्वस्यौरसनिमित्तग्रहणे प्राप्ते परिभाषते - सवर्णायामिति । पाणिग्रहणेन शास्त्रलक्षणेन तस्यां स्वयमुत्पादित औरसो न क्षेत्रजादिः । बौवि.
अथाप्युदाहरन्ति
अङ्गादङ्गात्संभवसि हृदयादभिजायसे | आत्मा वै पुत्रनामासि स जीव शरदः शतमिति । दौहित्रः अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रमन्यं दौहित्रम् | (१) स्मृतिषु दौहित्रपदं अपुत्रिकाजातपरं नियतम् । यथा बौधायनः - अभ्युपगम्येति । अन्यं दौहित्रम् | दा. १८१
(२) विद्यादित्यनुवृत्तौ बौधायनः - अभ्युपगम्येति । अभ्युपगम्य संविदमस्यां यो जायते पुत्रः स मे पुत्र इत्याकारां कृत्वा, दौहित्रं दुहितुरपत्यं पुत्रिकापुत्रसंज्ञकं पुत्रं विद्यात् । अन्यमिति औरसापेक्षया । विर. ५६०
(३) एतत्प्रसंगात् पुत्रप्रतिनिधीनाह - अभ्युपगम्येति । अन्यत्वमौरसापेक्षया । तस्यास्य गौणत्वप्रदर्शनार्थम् | अन्यं दौहित्रमित्यस्यापरा व्याख्या - अन्यः असंवादपूर्वकं दत्तायां जातः तं दौहित्रमेव विद्यात् । *चौवि.
अपत्यानऋयनिषेधः
|
" दानं क्रयधर्मश्वापत्यस्य न विद्यते । पुत्रप्रसंगेनाह—दानमिति 1 दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात् स्वीकारसामा न्याच्च । अपत्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधेषु पुत्रेषु दत्तक्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्वान्नाऽयं सामान्येन प्रतिषेधः । किं तर्हि ? ज्येष्ठपुत्रविषयः, एकपुत्रविषयः, स्त्रीविषयो वा । तथा च वसिष्ठः - 'न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि संतानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वा अन्यत्राऽनुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राज्ञे निवेद्य निवेशनस्य मध्ये अग्निमुपसमाधाय संपरिस्तीर्य व्याहृतिभिर्हुत्वा अदूरबान्धवं संनिकृष्टमेव प्रतिगृह्णीयादिति । विश्वजिति च सर्वस्वदाने गवादिवदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्धः । तत्र उपपातकेषु याज्ञवल्क्य आह— 'नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः' । इति । बहूवृचब्राह्मणेऽपि शुनःशेपाख्याने दृश्यते— ‘स ज्येष्ठं पुत्रं निगृह्वान उवाचेत्यादि । पुत्र - प्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्रविषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपत्यमिति । ' ऋणमस्मिन् संनयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥' इति ।
1
उ.
बौधायनः
और सादित्रयोदशपुत्रविधिः तलक्षणानि च तत्र औरस : सेवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्रं विद्यात् । (१) सवर्णा द्विजस्य द्विजा, शूद्रस्य शूद्रा, न तु (१) आध. २।१३।१०; हिघ. २ ७. (२) बौध. २।२।१४; ममु. ९।१६६ (स्वयं०) रसं (रस); व्यक. १५५; विर. ५५४ ( पुत्रं ० ); दीक. ४४ विरवत्; स्मृसा.६८ विद्यात् (जानीयात्); मच. ९/१६६ ( पुत्रं ० ) शेषं स्मृसावत्; चन्द्र. १७४ स्मृसावत्; व्यप्र. ४६८; बाल. २।१२८, २।१३५ ( पू. २३५).
—
अथाप्युदाहरन्ति - आदिशेत्प्रथमे पिण्डे ' मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहमिति ॥ पुत्रिकापुत्रेत्येवंलक्षणः पुत्रो मातामहस्यैवेत्येतत्प्रकटयति-- अथाप्युदाहरन्तीति । पिण्डपितृयज्ञे क्रियमाणे प्रथमं पिण्डं मातरमुद्दिश्य दद्यात् । स्त्रियाः
x व्यप्र विरगतम् । * शेषं विरवत् ।
(१) बौध. २।२।१५,१६ दभि (दधि); व्यक. १५५ स (सं); विर.५५४ वसि (वति) स (सं); व्यप्र. ४६८ जीव ( जीवेत ). (२) बौध. २।२।१७; दा. १८१६ व्यक. १५६ मन्यं (मस्यां); विर.५६०.
(३) बौध.२।२।१८,१९.