________________
१२५४
(१) तस्योत्तरा भूयसे निर्वचनाय - ' न हि प्रभायारणः ' इति । न हि ग्रहीतव्यो अरणः सुसुखतमोऽप्यन्योदय मनसापि न मन्तव्यो 'ममायं पुत्र' इति । अथ स ओक : पुनरेव तदेति यत आगतो भवति । ओक इति निवास नामोच्यते । ऐतु नो वाजी वेजनवान् । अभिषहमाणः सपत्नान् । नवजातः स एव पुत्र इति । नि. ३ | ३
[दुर्गाचार्य भाष्यम्- 'ज्येष्ठं पुत्रिकाया इत्येके' । ज्येष्ठमपत्यं यत्पुत्रिकायास्तदेव मातामहस्य नेतराणि । इतराणि जनयितुरेवेत्येवमेके मन्यन्ते । अथवा ज्येष्ठं पुत्रिकाया इत्येक इति । यदा उत्सृष्टायां पुत्रिकायां पुत्रिकापितुरन्ये पुत्रा जायेरन्, तदा विभागकाले ज्येष्ठ धनभागं पुत्रिकायै एव दद्यात् यथाभागमितरान् पुत्रान् विभजेत्, अभागा एवं त्वितरा दुहितर इति । एवमस्यामृचि 'न जामये तान्वो रिक्थमारैक्' इति न दुहितरो रिक्थभागिन्यो भवन्ति, नैताः संतानकर्मणि पितुरुपतिष्ठन्ते, वर्धयित्वा ह्येताः परस्मै दीयन्ते, तस्मादभागा एता इति । ]
|
[दुर्गाचार्य भाष्यम् - स 'मनसापि न मन्तव्यो ममायमिति किं पुनः पुत्रत्वेन परिकल्पयितव्य इति । किं कारणं मनसापि न मन्तव्य इति ? ' अधा चिदोकः पुनरित्स एति' । अधशब्दोऽथशब्दस्यार्थे वर्तते, स च हेत्वर्थः । यस्मात् ओकः स्वं निवासस्थानं स्वं वंश बहुनापि कालेन स एति तद्वंश्य एव भवति, तस्मादपुत्र एवासौ। यत एवमतो ब्रवीमि - ' आ नो वाज्य भीषाळेतु नव्यः’ ‘ऐतु’ आगच्छतु, 'नो वाजी वेजनवान्' परेभ्यो भयदाता | अभीषाट् 'अभिषहमाणः' अभिभवन् 'सपत्नान्‘नव्यः' नवजातः शिशुरित्यर्थः । स एव पुत्रः आगच्छतु, किं नः परकीयैः पुत्रैः संकल्पितैरित्यभिप्रायः । ]
|
(२) अरणोऽरममाणोऽन्योदर्यः सुशेवः सुखतमः सन् प्रभाय पुत्रत्वेन ग्रहणाय मनसा मन्तवा उ मनसापि मन्तव्यो न भवति हि । अध चिदपि च सोऽन्योदर्य ओक इत् संस्थानमेव पुनरेति । प्राप्नोति । अतो वाज्यन्नवानभीषाट् शत्रूणामभिभविता नव्यो नवजातः पुत्रो नोऽस्मानैतु । आगच्छतु ।
(२) भ्रातृमत्यास्तस्या रिक्थभाक्त्वं नास्तीति ब्रूते । तान्वस्तनूज औरसः पुत्रो जामये भगिन्यै रिक्थं पित्र्यं धनं नारैक् । न प्ररेचयति । न प्रददाति । किं तर्हि । सनितुरेनां संभजमानस्य भर्तुर्गर्भम् । षष्ठयर्थे द्वितीया । गर्भस्य निधानं रेतः सेकनिधानीमेनां चकार । पाणिग्रहणेन संस्कृतामेनां करोति । न तु तस्यै रिक्थं ददातीत्यभिप्रायः । 'असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ॥' इति याज्ञवल्क्यस्मरणात् ( २।१२४) । स्त्रीपुंसलक्षणस्यापत्यस्यैकोत्पाद्यत्वाविशेषात् मत्स्य को विशेष इत्याशङ्कय विशेषं दर्शयति । यदि यद्यपि मातरो मातापितरौ वह्निम् । अवह्निः स्त्री वह्निः पुमान् स्वभा र्याया वोढत्वात् । अवह्निश्च वह्निः । तादृशं स्त्रीपुंस - लक्षणमपत्यं जनयन्त । तथापि तयोर्मध्येऽन्यः पुंलक्षण: सुकृतो: शोभनस्य पिण्डदानादेः कर्मणः कर्ता भवति । अन्यः स्त्रीलक्षण ऋन्धन् वस्त्रालङ्कारादिना ऋध्यमान एव भवति । पिण्डदानादिकर्तृत्वात्पुत्रो दायार्हः दुहिता तथा नेति न दाया सा तु केवलं परस्मै दीयते ।
ऋसा.
ने जामये तान्वो रिक्थमारैक्चकार गर्भ सनितुर्निधानम् । यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥
(१) अथैतां जाम्या रिक्थप्रतिषेध उदाहरन्ति । ज्येष्ठं पुत्रिकाया इत्येके । न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यम् । जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति । तान्व आत्मज: पुत्रो रिक्थं प्रारिचत् प्रादात् । चकारैनां गर्भनिधानीं सनितुर्हस्तग्राहस्य । 'यदी मातरोऽजनयन्त वह्निम् ।' पुत्रम् | अवह्नि च स्त्रियम् । अन्यतरः संतानकर्ता भवति पुमान् दायादः । अन्यतरोऽर्द्धयित्वा जामिः प्रदीयते परस्मै । नि. ३।६ (१) ऋसं. ३ | ३१ २; नि. ३।६; बृदे. २।११३,४।१११.
I
व्यवहारकाण्डम्
ऋसा.
दुहिता पुत्रिका संतानपिण्डदानार्था । दुहितुर्दायाद्यत्वविचारः ।
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् । जायेव पत्य उशती सुवासा उषा हस्रेव निरिणीते अप्सः ।।
* सायणाचार्य भाष्यं सभाप्रकरणे (पृ. २०) द्रष्टव्यम् । (१) ऋसं. १।१२४ । ७; नि.३ ५.