________________
पुत्रप्रकाराः तेषां दायहरत्वविचारश्च
मुख्यगौणपुत्रविचारः, पुत्रप्रतिनिधिविधिः, पुत्राणां दायहरत्वविचारश्च
*वेदाः
पुत्रमहिमा
प्रजाभिरग्ने अमृतत्वमश्याम् ।
प्रजाभिस्त्वद्दत्ताभिर्हे अग्नेऽमृतत्वं संतत्यविच्छेदलक्षणमश्याम् । प्राप्नुयाम् । ऋसं. औरस एव पुत्रो युक्तः । जनकस्यैव प्रजा । औरसपुत्र एव दायहरः न दुहिता । दुहिता संस्काराह । परिषद्यं रणस्य रेक्णो नित्यस्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातमस्त्यचेतानस्य माथो विदुक्षः ॥
(१) अपत्यं कस्मात् ? अपततं भवति । नानेन पततीति वा । तद्यथा जनयितुः प्रजैवमर्थये ऋचा उदाहरिष्यामः-परिषद्यमिति । परिहर्तव्यं हि नोपसर्तव्यम् । ' अरणस्य रेक्णः' अरणोपाणों भवति । रेक्ण इति धननाम । रिच्यते प्रयतः । 'नित्यस्य रायः पतयः स्याम' । पित्र्यस्येव धनस्य । ‘न शेषो अग्ने अन्यजातमस्ति' - शेष इत्यपत्यनाम । शिष्यते प्रयतः । अचेतयमानस्य तत्प्रमत्तस्य भवति । मा नः पथो विदूदुष इति । नि. ३ । २
।
[दुर्गाचार्य भाष्यम् – वसिष्ठाग्निसंवादे वसिष्ठेन हतपुत्रेण अग्निरभ्यर्थितः – पुत्रं मे देहीति । तेन किलासौ प्रत्युक्तः क्रीतककृत्रिमदत्तकादीनां पुत्राणामन्यतमं कुरुष्व पुत्रमिति । स एवमुक्त एताभ्यामृग्भ्यामन्यजान् पुत्रान् निन्दन्नौरसं पुत्रं ययाचे । 'परिषद्यं... वि दुक्षः ।' 'परिषद्यं' 'परिहर्तव्यं' परिहरणीयं परित्याज्यमित्यर्थः । किं पुनस्तत् ? ‘अरणस्य रेक्णः' अरणस्य अपगतार्णस्य अपगतोदकसंबन्धस्य परकुलजातस्य रेक्णः यदपत्याख्यं धनं, तत् परिहर्तव्यं, न पुत्रत्वेन परिकल्पयितव्यमित्यर्थः । न हि तत् पुत्रत्वेन कल्प्यमानमपि पुत्रकार्येष्ववतिष्ठते, परकीयत्वात् । यतएवमतो ब्रूमः 'नित्यस्य रायः पतयः * वेदेषु पुत्रप्रशंसावचनानि परः शतानि समुपलभ्यन्ते, विस्तरभयात् कतिचिदेवोध्दतानि ।
(१) ऋसं. ५|४|१०; तैसं. ११४१४६ ११. (२) ऋसं. ७ ४ ७; नि. ३ । २.
स्याम' पित्र्यस्येव धनस्य । यथा हि यदेव पित्र्यं धनं पुत्रत्वे भवति । तस्यैव ह्युपरि अगौणं स्वामित्वं भवति । एवं यदेव स्वयं जातमपत्यं भवति, तदेव मुख्यं भवति, नेतरत् क्षेत्रजं वा क्रीतकं वा । यत एवमतो ब्रूमः, यदेव नित्यमात्मीयमगौणं स्वयमुत्पादितं पुत्राख्यं रायो धनं, तस्यैव वयं पतयः पालयितारः स्याम, मा परकीयस्येत्यभिप्रायः । कस्मात्पुनरेवं ब्रूमहे ? यतः, -यस्मात् 'न शेषो अग्ने अन्यजातमस्ति' न अस्ति शेषः, नास्त्यपत्यमन्येन जातं हे अग्ने ! य एव जनयति तस्यैव हि तत् भवति, नेतरस्येत्यभिप्रायः । ' अचेतानस्य' य एव हि अचेतयमानो भवति, अविद्वान् प्रमादी, तस्यैव ' अचेतनस्य' ' प्रमत्तस्य' अश्रुतवतो धर्मात् परितोषमात्रं 'भवति' ममेदमपत्यमिति, न अपत्यकार्येऽवतिष्ठते । यत एवमतो ब्रूमः – 'मा पथो वि दुक्ष:' मास्मानेतस्मात् पितृपितामहप्रपितामहानुसंततात् पथः मार्गात् येन केनचित् प्रत्याख्यानद्वारेण 'विदूदुषः । त्वं देहि नः पुत्रमौरसमित्यभिप्रायः । ' रेक्ण इति धननाम' तद्धि 'रिच्यते' अतिरिच्यते इतो लोकादमुं लोकं 'प्रयतः ' म्रियमाणस्येत्यर्थः । 'शेष इत्यपत्यनाम' तद्धि 'शिष्यते' इहैव लोकेऽवतिष्ठते पितुरमुं लोकं 'प्रयतः ' गच्छत इत्यर्थः । एवमस्यामृचि 'न शेषो अग्ने अन्यजातमस्ति' इत्यनेन विशेषलिङ्गेन उपपन्नमेतद् भवति, जनयितुरेव प्रजा भवति, न क्षेत्रिणो, नापि क्रेतुरन्यस्य वा कस्यचिदिति । एवं चैष शब्दार्थ उपपद्यते, यस्मादेवापेत्य ततं भवति, तस्यैवापत्यमिति । ]
5
(२) अरणस्यानृणस्य रेक्णो धनं परिषद्यं पर्याप्तं भवति हि । अतो नित्यस्यापुनर्देयस्य रायो धनस्य पतयः स्याम ।
ऋसा.
न हि प्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ । अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥
(१) ऋसं. ७।४।८; नि.३ ३.