________________
१२५२
प्रेमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नतः । ज्ञातिबन्धुसुहृच्छिष्यैर्ऋत्विग्भृत्यपुरोहितैः ॥ देवलः
व्यवहारकाण्डम्
असवर्णैकपुत्रः सर्वांशहरः, एकः शूद्रापुत्रस्तृतीयांशहरः इतरेषामभावे । शूद्रापुत्रस्य भूमिनिषेधः ।
आनुलोम्येपुत्रस्तु पितुः सर्वस्वभाग्भवेत् ॥ निषाद एक पुत्रस्तु विप्रस्वस्य तृतीयभाक् । द्वौ सपिण्डः सकुल्यो वा स्वधादाताथवा हरेत् ॥ (१) ब्राह्मणेन शूद्रायां जातो निषाद उच्यते ।
दा. १४०
(२) आनुलोम्येन जातस्यैकपुत्रस्य ऋक्थग्रहणप्रकारमाह देवल:- आनुलोम्येकपुत्रस्तु इति । एतच्च निषादव्यतिरिक्तविषयम् । पमा. ५०७ (३) अर्थग्रहणं चात्यन्तशुश्रूषुशूद्रस्येति द्रष्टव्यम् । व्यनि. (४) यदा तु शूद्राज एवैकः पुत्रो ब्राह्मणस्य तदा स तद्धनतृतीयांशहारी, भागद्वयं सपिण्डानां तदभावे सकु ल्यानां तेषामप्यभावे श्राद्धकर्त्तुः । यदाह देवल:- निषाद एकपुत्रस्त्विति । ब्राह्मणाच्छूद्रायां विन्नायां जातो निषादः स एवासौ पुत्रश्चेदित्यर्थः । क्षत्रियवैश्ययोस्तु स धनार्द्धहरोऽपरमर्द्धमपुत्रधनग्रहणाधिकारिणरतदुक्तक्रमेण गृह्णीयुः । तथा च विष्णुः - 'द्विजातीनां शूद्रस्त्वेकपुत्रोऽर्धहरोऽपुत्रऋक्थस्य या गतिः साऽर्धस्य द्वितीयस्येति । द्विजातिपदेनात्र क्षत्रियवैश्य मात्रग्रहणम् । देवलेन ब्राह्मणे विशेषाभिधानात् । एकपुत्र इति कर्म
धारयः । इदमपि सद्वृत्तातिगुणवच्छूद्रापुत्रविषयम् । 'यद्यपि स्यात्तु सत्पुत्र' इत्यादिना 'ब्राह्मणक्षत्रियविश' इत्यादिना च वक्ष्यमाणमनुवचनेन विरोधापत्तेः । Xव्यप्र. ४६५-४६६
शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागमर्हति । सजातावाप्नुयात्सर्वमिति धर्मे व्यवस्थितः ॥ (१) भूमेः क्रयादिप्राप्ताया अपि । द्रव्यस्य तु लभत
एव ।
व्यम. ४५
(२) भूमेरित्युक्तेरन्यधने पितुरिच्छ्या तुर्याशं तदभावे जीवनं लभेतेत्यर्थः । विता. ३२७
बृहन्मनुः
प्रतिग्रहभूर्ब्राह्मगीसुतानामेव । स्थावरं त्रैवर्णिकासुतानाम् । ब्रह्मदायागतां भूमिं हरेयुर्ब्राह्मणी सुताः । गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ॥
(१) या तु प्रतिग्रहेण पित्रार्जिता भूमिः सा ब्राह्मणीपुत्रस्यैव, न क्षत्रियादेः, गृहं क्रमागतं क्षेत्रं च द्विजातिपुत्राणामेव, न शूद्रस्य । तदाह बृहन्मनुः ब्रह्मदायागतामिति । क्रमादागतयोः पितामहप्रपितामहादि - गृहीतयोः सकलद्विजातिसंबन्धः, क्रमागतमित्यविशेषेणाभिधानात् । प्रतिग्रहभूमौ च क्षत्रियादिसुतानामेवाधिकारनिषेधेन तन्नप्त्रादीनामप्यननुज्ञानम् । दा. १३८
(२) ब्रह्मदायागतां प्रतिग्रहयाजनादिलब्धां द्विजातयस्त्रैवर्णिकाः । प्रतिग्रहलब्धामित्यत्र पारिजातः। विर. ५३४
x विता, विन. व्यप्रवत् ।
(१) बाल. २।१३५ ( पृ. २४३).
(१) मेघा. ९।१५३ शूद्र्यां द्विजातिभिर्जा (शूद्रायां तु द्विजा(२) उ. २।१४ २; पमा. ५०७ व्यमि. म्येक (म्येन); ज्जा) पू.; मिता. २।१२५ ( = ) पू.; अप. २११२५ द्यां (द्रो) समु.१३०.
(३) दा. १४० एकपु (एक: पु) स्वस्य (स्य स ) ; व्यक. १५१ थवा (थ सं); उ. २।१४।२ स्वस्य (स्वस्य) थवा (तु तं ); पमा. ५०७ थवा (तु स्वं); व्यनि थवा (नुसं); व्यप्र.४६६ स्वस्य (कथेस्य); विता. ३७६ स्वस्य (स्य स्यात् ) सकु (स्वकु) ताथ (तापि); समु.१३० स्वस्य (स्य स ) थवा ( तु सं); विच. ९९ भाक् (कम्).
पू., स्मृत्यन्तरम् ; पमा. ५०६ (=) पू.; रत्न. १४१; व्यप्र. ४६६; व्यम.४५; विता.३ २७ र्मो (मं.) त: (तिः).
(२) दा. १३८; व्यक. १५१; विर. ५३४ युर्ब्रा (द्यो ब्रा ) पता: (त:); विचि. २२५; व्यनि तथा क्षेत्रं क्रमागतम् (तथैव क्षेत्रकर्दमम्); बाल.२।११९ (पृ. १४९) दाया (दायं शेषं विश्वत्, बृहस्पतिः; समु.१३० मनुः विच. ९८.