________________
१२५०
व्यवहारकाण्डम्
गित्यविरुद्धम् ।
वैश्यस्य द्वौ, एकः शूद्रापुत्रस्येति व्यवस्था । ननु च | स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभाद्विजातीनां शूद्रापुत्रो नास्त्येव तद्विवाहप्रतिषेधात् । *मिता. सत्यम् । स्मृत्यर्थभ्रान्त्या तु प्रवृत्तावयं विभागधर्म (३) अत्र च यत्र क्षत्रियवैश्यावधिकगुणौ, तत्र इत्यभिप्रायः । Xविश्व.२।१२९ महाभारतोक्ता विभागव्यवस्था । मन्दगुणयोस्तु याज्ञ(२) एवं 'विभागं चेत्पिता कुर्यादि त्यादिना प्रबन्धेन वल्क्योक्ता व्यवस्थेत्यविरोधः । विर. ५२९ समानजातीयानां भ्रातॄणां परस्परं पित्रा सह विभागक्लृप्तिरुक्ता । अधुना भिन्नजातीयानां विभागमाह – चतुस्त्रिभागा इति । 'तिस्रो वर्णानुपूर्व्येण' इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः, वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यन्ते । 'संख्यैकवचनाच्च वीप्सायाम्' इत्यधिकरणकारकादेकवचनाद्वीप्सायां शस् । अतश्च वर्णे वर्णे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्त्रिद्येकभागाः स्युर्भवेयुः । एतदुक्तं भवति । ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुरश्चतुरो भागान् लभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः, वर्णशः इत्यनुवर्तते, यथाक्रमं त्रिभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन्, वैश्यायां द्वौ द्वौ शूद्रायामेकमेकम् । विड्जाः वैश्येनोत्पन्नाः । अत्रापि वर्णश इत्यनुवर्तते, यथाक्रमं येकभागिनः । वैश्येन वैश्याया मुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्रायामेकमेकम्। शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वा एव विभाग: । यद्यपि चतुस्त्रिद्येकभागा इत्यविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषयमिदं द्रष्टव्यम् । यतः स्मरन्ति - - ' न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति । प्रतिग्रहग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य विशेषप्रतिषेधाच्च । 'शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागमर्हति' इति । यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुनः ‘ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' (मस्मृ. ९ । १५५ ) इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं
X अप, सवि विश्वगतं मितागतं च ।
(४) अत्र बहुवचनं पुत्रबहुत्वापेक्षया न तु भार्यागतपतिबहुत्वापेक्षया ब्राह्मणस्य ब्राह्मण्यां स्वभार्यायामुत्पन्नपुत्रापेक्षयांशद्वयस्य न्यूनत्वाद्वैश्यायामुत्पन्नस्य द्वावंशौ शूद्रायामुत्पन्नस्यैकोंऽशः । अनेनैव प्रकारेण पुत्रगतसंख्यासाम्ये वैषम्ये च योजनीयम् ।
+मपा. ६५८
(५) मिताटीका - शुद्यां द्विजातिभिर्जात इति । अत्र शूद्यामिति न शूद्रभार्यायां अपि तु स्वस्त्रियां शूद्रायामित्यर्थः । शूद्रभार्यात्वे तस्यां जातस्य कुण्डगोलक योरन्यतरत्वेन भागानर्हत्वात् । अतः 'शूद्यामि'ति छान्दसः । सुवो.
(६) यद्यपि शूद्रापरिणयने द्विजातेर्भूयान् दोष:, पुत्रार्थ विवाहस्तु सर्वथा शूद्रायां निषिद्ध एव । तथापि रतिधर्मार्थविवाहयोरनुकल्पत्वेन परिणीतायां शूद्रायामनुपङ्गाजातस्य विभागाभिधानमुपपन्नमेव । शूद्यां जातो निषादः पारशवो वेति जातिकथनमिव । आचारमिताक्षरायामेवमेव व्यवस्थापितम् ।
+व्यप्र.४६४
नारदः नानावर्णस्त्रीपुत्राणां विभागविधिः वर्णावरेष्वंशहानिरूढाजातेष्वनुक्रमात् ॥
(१) वर्णावरा विप्रस्य क्षत्रियादयः । ऊढा परिणीता, अंशहानिः क्षत्रियाया जातस्य त्रयोंऽशा इत्यादि । वर्णान्तरेष्विति क्वापि पाठः । तत्राप्ययमेवार्थः । विर. ५२८ (२) वर्णावरेषु क्षत्रियावैश्याशूद्रापुत्रेष्वंशहानिः सर्व दशधा कृत्वा चतुरो भागान् ब्राह्मणीपुत्रो हरेत्, त्रीन् क्षत्रियासुतः, द्वौ वैश्यासुतः, एकं शूद्रासुतः । केचिदाहुः
पुत्रबहुत्वेऽप्येवमेवेति । अन्ये यथा ब्राह्मणीपुत्रांशा
* पमा, वीमि व्यम, विता. मितागतम् । + शेषं मितागतम् ।
(१) नासं. १४।१४ रूढा (गूढ ); नास्मृ. १६ । १४; व्यक. १५०; विर. ५२८ वर्णान्तरेषु इति क्वापि पाठ:; विभ. ९५.