________________
१२३८
व्यवहारकाण्डम्
(३) [ जीमूतवाहनं खण्डयति ] तत् पितृधने | मित्युद्दिश्य विभागः कर्त्तव्य इत्यत्र तात्पर्यम् । मात्रभावापेक्षया अदृष्टार्थत्वापत्तेः प्रागेव निरस्तम् ।
+व्यप्र. ४५२
व्यप्र. ४५२ (४) सवर्णानां सापत्नपुत्राणां संख्यासाम्ये मातृसंख्यया भागो न पुत्रसंख्ययेत्याह मदनरत्ने बृहस्पतिः । विता. ३१०
व्यासः सापत्नभ्रातॄणां मातृतो विभागः समानजातिसंख्या ये जातास्त्वेकेन सूनवः । विभिन्न मातृकास्तेषां मातृभागः प्रशस्यते ॥ (१) अत एव जीवन्त्यां मातरि मातृप्रधानकं विभागं निर्दिशति व्यासः - समानेति । दा. ६० (२) अत्र जातिसंख्यया साम्ये सापत्नानामपि भागविशेषः स्वरूपकृतो नास्तीति मातृभागत्वविधानं मातृप्राधान्यपरमेवेति नायं पुत्राणां विभागः किन्तु तन्मातॄणा
(१) दा. ६०; पमा. ५०३; रत्न. १४०; नृप्र. ३६; | व्यप्र.४५१; व्यम.४५; विता. ३१०; बाल. २।११७ भागः प्रशस्यते (तो भागकल्पना ); समु. १३४.
जातिज्येष्ठ गुणवयोज्येष्ठयोः समभागविधिः उद्धारव्यतिरिक्तविभाग विधिश्व
ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ।
उक्तः सवर्णपुत्राणां विभागः । अथ क्रमविवाहेष्वसवर्णापुत्रेषु विशेषमाह— ब्राह्मणस्येति । ब्राह्मणस्य राजन्यायां जातः पुत्रो यदि गुणसंपन्नो ज्येष्ठश्च भवति तदा ब्राह्मणीपुत्रेण यवीयसा तुल्यभाक् । एकस्य वयसा ज्यैष्ठयमपरस्य जात्येति । *गौमि
उशना सोदरसापत्नभ्रातॄणां समो विभागः वर्णानामनुलोमानां विभागोऽयं प्रदर्शितः । समत्वेनैकजातानां विभागस्तु विधीयते ॥ (१) इदानीं सवर्णभ्रातॄणां विभागो विंशोद्धारादिः पूर्वको वा सम एव वेति विकल्पः । उद्धारमन्तरेणापि समविभागमाह पितरीत्यनुवृत्तौ हारीतः - समानतो मृते रिक्थविभागः । तथोशना- वर्णानामिति । दा. ६५ (२) सर्वेषां पुत्राणां निर्गुणत्वेन तुल्यानां तथा कस्यचिद्गुणवत्त्वेऽपि सर्वे चेन्नानाविधधनार्जकाः, तदा विर. ४८१ सम एव भाग इत्यर्थः ।
असवर्णभ्रातृविभागः
नानावर्णबहुपुत्रविभागविचारः, असवर्णैकपुत्रानेकपुत्रविभागविचारः, हीनवर्णज्येष्ठांशविचारश्च
गौतमः
* मभा. गौमिगतम् ।
(१) गौध. २८१३६; व्यक. १५१; गौमि. २८ । ३ ३ ; विर. ५३३ ज्येष्ठो गुणसंपन्न (गुणसंपन्नो ज्येष्ठ).
+ शेषं 'भूर्या पितामहोपात्ता' इति याज्ञवल्क्यवचने ( पू. ११७७) द्रष्टव्यम् । विता व्यप्रगतम् ।
(१) दा. ६५ मनुलोमा (मानुलोम्या); व्यक. १४२; विर. ४८१; विभ.४२ दर्शि (कीर्ति).
ज्येष्ठांशहीनमन्यत् ।
(१) विंशतिभागों ज्येष्ठस्येत्यादिर्य उद्धारः पूर्वमुक्त. स्तद्व्यतिरिक्तमन्यद्विभजेतेति प्रकरणाद्गम्यते । गुणहीने ज्येष्ठे च राजन्यापुत्रे च मानवम् । *गौमि. (२) गुणहीनः नासौ तुल्यभाक् । तत्र मनूक्तं द्रष्टव्यं – चतुरोंऽशान् हरेद्विप्रस्त्रीनंशान् क्षत्रियासुतः । वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत् ॥' इति । शूद्रापुत्रस्य प्रतिषेध उक्त इति चेत् उच्यते, क्षतयोन्यामुत्पन्नस्य प्रतिषेधः । अक्षतयोन्यामुत्पन्नस्य अंशभाक्त्वमिति । पौनर्भवादिद्वारेण क्षतयोन्यामपि संभवत्येवेति । येषामौरसाद्यभाव इति शेषः, ते औरसाद्यविर. गौमिगतम् ।
(१) गौध. २८।३७; मभा.; गोमि. २८ ३४; बिर, ५३३.
*