________________
दायभागः - विभाव्याविभाज्यविवेकः
१२३१ साधारणत्वात् न्यूनविद्याविद्यनिराकरणार्थं विद्यालब्ध- 'विवाहकाले यत्किञ्चित् वरायोद्दिश्य दीयते । पदम् । कन्यायास्तद्धनं सर्वमविभाज्यं च बन्धुभिः ॥
+दा.१०६ (२) अनाश्रित्य अर्जन सिद्धयर्थमिति शेषः । पितृग्रहणमविभक्तोपलक्षणार्थमत्रापि । स्मृच. २७६ | (३) अनुप श्लेषार्जितं च विद्यालब्धं च द्वयमविभाज्यमित्यर्थः । विद्ययापि साधारणधनानुपश्लेषेण यदर्जितं तदेवाविभाज्यमिति तु प्रकाशः । तन्न । उभयोपादानानर्थक्यापत्तेः । रत्नाकरादयोऽप्येवम् । विचि. २११ 'विद्याप्राप्तं शौर्यधनं यच्च सौदायिकं भवेत् । विभागकाले तत्तस्य नान्वेष्टव्यं स्वरिक्थिभिः ॥ (१) पितृपितृव्यादिभ्यः सुदायसंबन्धिभ्यः प्रसादादिना लब्धं सौदायिकम् । दा. १०६ (२) विद्याप्राप्तशब्देनात्र न विद्यामात्रप्राप्तमुच्यते, किन्तु विशेषेण प्राप्तम् । तथा च कात्यायनः — 'परभक्तोपयोगेन विद्या प्राप्ताऽन्यतस्तु या । तया प्राप्तं तु यद्वत्तं विद्याप्राप्तं तदुच्यते ॥' स्मृच. २७४
(१) उद्दिश्येति कन्याया इदं भवत्वित्युद्दिश्य वराय यद्दानं न पुनरेतदभिसंधिं विनापीत्यर्थः । अत एव विवाहकाल इति प्रदर्शनार्थे न पुनरेतदेव प्रयोजकं दात्रभिसंधिनिमित्तत्वात् स्वत्वस्य । तथा च प्रामाणिकं वचनम् —' यद्दत्तं दुहितुः पत्ये स्त्रियमेव तदन्वियात् । मृते जीवति वा पत्यौ तदपत्यमृते स्त्रियाः ॥' विवाहकाल इति न विशिनष्टि । अभिसंधिस्तु दुहित्रन्वयाभिधानादेव लब्धत्वानोक्तः ।
(३) शौर्यधनं युद्धादिब्धं, सौदायिकं 'ऊढया कन्यया वे 'त्यादिना कात्यायनेनाग्रे वक्ष्यते । विर. ५००
(४) एतच्च पितृद्रव्याविरोधेनार्जितं ज्ञेयम् । व्यम. ५५ पितामहेन यद्दत्तं पित्रा वा प्रीतिपूर्वकम् । तस्य तन्नापहर्तव्यं मात्रा दत्तं च यद्भवेत् ॥ पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् । तस्य तन्त्रापहर्तव्यं शौर्यहार्यं तथैव च ॥
+ व्यम. दावद्भावः ।
* शेषं 'वैद्योऽविद्याय' इति नारदवचनोद्धृत- विरवत् (पृ. १२२०) ।
(१) दा. १०६, ११३; अप. २।११९; व्यक. १४५६ स्मृच. २७४; विर. ४९९; स्मृसा. ६० स्वरि (तदृ); पमा. ५५९ स्व (च); रत्न. १४६; स्मृचि. ३० स्व (तु); नृप्र. ३७ काले तत्तस्य (लेख्यत्वमस्य); दानि. २ ( =); व्यम. ५५; विता. ३४२; समु. १३२.
(२) दा. ११३; अप. २।१२३; व्यक. १४६; विर. ५०१; विचि.२११६ स्मृचि. ३१; वीमि २।११९; विता. ३४२ तस्य तन्ना (तत्तस्य ना) मात्रा (मातृ); बाल. २।१२२ (); विश्व. ५७,९२.
(३) उ. २।१४।२.
व्य. का. १५५
1
दा. ७६
(२) स्त्रीधनस्य सर्वधनस्याप्यविभाज्यत्वमाह स एव – विवाहकाल इति । स्मृच. २७६ अविभाज्यद्रव्यविशेषाः अविभाज्यं सगोत्राणामा सहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ।। (१) याज्यं यागस्थानं देवता वा न तु याजन लब्धं धनं, तस्य विद्याधनत्वेनैव गतार्थत्वात् । दा. १२७ (२) क्षेत्रं वास्तुक्षेत्रं, पत्रं वाहनमिति प्रकाशकारः । विर. ५०४ (३) इति तद्ब्राह्मणजातेः क्षत्रियादिपुत्रविषयम् ।
मपा.६८७
साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः । तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥
* व्यम, विता. व्याख्यानं 'न वास्तुविभागो' इति शंखवचनोद्धृत-रत्नगतम् (पृ. १२०७) ।
(१) दा. ७५; अप. २।१४३ (= ); स्मृच. २७६ कात्यायनः ; विता. ४४१ चं (तु); सेतु. ५२; विच.१०५-१०६.
(२) दा. १२७; व्यक. १४६; विर. ५०४; मपा. ६८७ ( = ); रत्न. १४८ व्यासोशनसौ; व्यम. ५७ भाज्यं ( भाग :); विता.३५२ कुला (कृता) व्यासोशनसौ; सेतु. ७० स्र (नं); विच. ९० सहस्र (सप्तम).
(३) दा. १०७,१११; अप. २।११९६ उ. २।१४ २ व्यक. १४७; स्मृच. २७५; विर. ५०८ देयं (कार्य); स्मृसा. ५६ युधम् (दिकम् ) शौर्या ... धनं ( धनं शौर्यादिना प्राप्तं ): ६२; पमा. ५६२; मपा. ६८८ युधम् (दिकम् ) प्रथमार्धदयम्