________________
व्यवहारकाण्डम्
. १२१८
तन्मूलश्चापरापरव्यवहार इति न किंचिदनुचितम् ।
+दा. ११४- १२१
भोजनस्य च ऋत्वर्थत्वमापद्यत इति । अत एवास्यापि पर्यनुयोगस्यानवकाशः, यदि द्रव्यस्य प्राचीनभोजनद्वारा प्रतिग्रहोपकारकत्वमिष्यते तदा जन्मत आरभ्य भोजनं (४) यत्पूर्व पुरुषक्रमायातं क्षेत्रारामादिकं द्रव्यं कथविना शरीरावस्थितेरभावात् नार्जनं संभवतीति सर्व मपि परेणापहृतं, यो दायादानुमत्याऽभ्युद्धरेत्तदसौ एव धनोपायः पितृद्रव्यविनाशेन स्यात्, अतोऽनुपन्नन् दायादेभ्यो न दद्यात् । यत्पुनर्दायादानुमतिमन्तरेणोद्धृतं पितृद्रव्यमिति विशेषणं न स्यादिति । यतो विशेषणान- तस्य चतुर्थमंशमुद्धर्ता गृह्णीयात् । शेषमुद्धारकेण सह सर्वे र्थक्यादेव भक्षणाद्युपभोगोपयुक्तधनोपघातादन्यस्यैवोप- विभजेरन् । यदाह ऋष्यशृङ्गः – 'पूर्वनष्टां तु यो भूमिघातादिरूपस्य वचनार्थत्वात् । मेकश्चाभ्युद्धरेत्क्रमात् । यथांश तु लभन्तेऽन्ये दत्वांश तु तुरीयकम् ॥'
|
किंच भक्षणाद्युपभोगार्थधनोपघातस्य गृहगतेनाप्यवश्यं कर्तव्यत्वात् न धनार्जनार्थत्वमुपघातस्य तादर्थमेव च तत्प्रयोजकमिति नातिप्रसक्तिः । अत एवोक्तं विश्वरूपेण, पितृद्रव्यं दत्त्वा यदि नोपार्जितं धनं तदा तस्यैवासाधारणं वैवाहिकवदेवोक्तं न तु भक्षणाद्युपभोगमात्रेण तस्य स्तन्यपानादितुल्यत्वादित्यन्तेन ।
अत एव पुत्रोपनयनविवाहयोः सोत्सुकसव्ययपितृकृतबहुतरधनव्ययेऽपि न व्रतभिक्षादिलब्धस्य वैवाहि कस्य वा साधारण्यं धनप्रेप्सया धनव्ययस्याकृतत्वात् । तस्माद्धनोद्देशेनैव साधारणधनोपघातेनार्जितं साधारणं नान्यदिति सिद्धम् ।
जितेन्द्रियेणापि बहुप्रकारं विमृष्योक्तं तदस्य यावदुक्तप्रपञ्चस्य संक्षेपेणायमर्थः प्रत्येतव्यः, यत्किंचिद्धनमसाधारणोपायार्जितं तदसाधारणं विस्पष्टार्थे तु 'विद्याधनं तु यद्यस्येत्यादिना (स्मृ. ९/२०६) उदाहरणप्रपञ्चेनोपन्यस्तं असाधारणत्वादेवाविभाज्यमेवंविधमेव धनं साधारणमपि साधारणहेतुसमुत्थमेवंविधमेव तदपि सुखावबोधार्थे क्वचिदर्थसाधारण्येन कचिच्च व्यापारतथात्वेन संबन्धसाधारण्येन च प्रदर्शितमित्यन्तेन ।
बालकेनाप्युक्तं, न ह्येकेन भ्रात्रा विद्यादिना लब्धेऽपरेषामधिकारसंभवः प्रमाणाभावादित्यन्तेन ।
यश्चानुपघातप्रतिग्रहार्जितधनस्य विभागः शिष्टानां दृश्यते स भ्रातृस्नेहेन पौरुषबुध्या वा नानुपपन्नः । यद्वा प्रतिग्रहधनस्य विद्याधनत्वात्, विद्याधने च साधारणः धनानुपघातार्जितेऽपि समविद्याधिकविद्यानां विभागस्य वाचनिकत्वात्, तद्विभागं पश्यन्तो विद्याधनस्य विद्या - विशेषकृतोऽयं विभाग इत्यजानन्तोऽविभक्तार्जितत्वेनायं विभाग इति भ्रान्ताः स्वयमपि तथैव व्यवहृतवन्तः,
Xअप. विर. ५०१
(५) अन्यन्मैत्रादिव्यतिरिक्तमपि । यच्च संहितायां हारीतः— 'पूर्वनष्टां तु यो भूमिमेक एवोद्धरेच्छ्रमात् । यथाभागं लभन्तेऽन्ये दत्वांशं तु तुरीयकमिति वाक्यं लिखति स्म, तच्च स्मृतिमहार्णवकामधेनुकल्पतरुपारिजातप्रभृत्यलिखनादयुक्तमेव । -
विर. ४९९
६) तथा सतीति । नन्वेतदनुपपन्नं वचनापेक्षया आचारस्य दुर्बलत्वात् । अथ मतम् । आचारोऽपि वचनं कल्पयन्नेव प्रमाणं न स्वत एवेति । अस्मिन् मतेऽपि वचनमेवेति । एवमप्याचारपरिकल्पिततया स्मृत्या यावता स्वार्थः प्रत्येष्यते तावता मैत्रमौद्वाहिकमित्यादिस्मृत्या तदर्थप्रतीतेः विलम्बितत्वाविलम्बितत्वप्रतीतिभ्यामाचार एव दुर्बल इति चेत् । मैवम् । अगतिका हीयं गतिः योऽयं बाधः न हि दुर्बलं दुर्बलं इत्येवं बाध्यते अपि तु विरोधे । विरोधश्चैकस्मिन् विषये परस्परविपरीताभिधानेन । तथा सत्यबाधेनोपपत्तौ बाधो न न्याय्य:, इति न्यायेन ‘मैत्रमौद्वाहिकमित्यस्य वचनस्यास्मदुक्तरीत्या शिष्टाचाराविरोधेनैव वाक्यार्थप्रमित्युपपत्तेरर्थान्तरकल्पनया विरोधोऽनुपपन्न इति सूक्तम् । सुबो. २।११८ (७) अत्रापि लाभे पितृद्रव्यानुपश्लेषोऽविभाज्यत्वे बीजमिति प्रकाशः, तदयुक्तं, पृथगुपादाने वैयर्थ्यापत्तेः । इदं तु विद्यार्जनकाले कुटुम्बस्य दायादैर्भरणाभावेऽविभाज्यं नो चेद्विभाज्यमेव । 'कुटुम्बं विभृयाद् भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्स लभेता
+ मितावद्भावः ।
x पितृद्रव्याविरोधविषये मितावद्भावः