________________
-१२१४
व्यवहारकाण्डम्
द्वाद्विभाजयन्तः पापा इत्यनुमीयते । यथाऽसत्प्रति । त्वादनवासं पुत्रः स्वशक्त्या प्राप्नुयात्तत्स्वयमर्जितमग्रहेण भवति स्वाम्यं दोषस्तु पुरुषस्य, तेनान्वयागत निच्छन्पुत्रैः सह न विभजेत् । मितीदृशमशुद्धमेव । अतः संभवत्युपायान्तरे न पिता अर्थनीयः । अधर्मो हि तथा स्यात् । स्वयमर्जितमपि धनमधिकारप्राप्तान्गुणवतः पुत्रान् ज्ञात्वा विभक्तव्यमेव । उक्तं च- 'वयसि स्थितः पिता पुत्रान्विभजेत् । ज्येष्ठं श्रेष्ठांशेनेतरान्समैरंशैः' इति । न चैतत्पितामहधनविषयम् । न हि तत्र पिता ज्येष्ठस्याधिकांशदानाय प्रभवति । तुल्यत्वादुभयोः स्वाम्यस्य । यत्त्विदं 'न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः' (यास्मृ. २।११६) इति तत्पितामहेऽपि स्वल्पया मात्रयेच्छन्ति । यत्र न परिपूर्ण भागद्वयं गृहीतम् । स्वयमर्जितविषये ह्यपवाद एव स्यात् । मेघा.
(२) यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत्स्वार्जितमिव पुत्रैः सार्धमकामः स्वयं न विभजेदिति वदन् पितामहार्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति । * मिता. २।१२१
(३) (मनुविष्णू) स्वार्जितत्वेन हेतुना नाकामो विभजेदिति वदन्तौ स्वयमनर्जिते पैतामहधने पितुरनिच्छयापि पुत्राणां विभागं दर्शयतस्तत्रापि विभागदानप्रवृत्तः पिता पितामहधनं स्वार्जितं नाकामो विभ - जेत् अन्यत् पुनरकामोऽपि विभजेदित्यस्वेच्छात एवे - त्यर्थः । न पुनः पुत्रेच्छया विभागं ज्ञापयतः । दा. ३२
पैतामहमपि द्रव्यं यच्चिरं नष्टं अक्षमत्वात् अथवा प्रतीकारपराङ्मुखतया इतरैरप्रतिकृतं पित्रा स्वधनव्यय - शरीरायासाभ्यां प्रतिकृतं तत् पितुरेव न साधारणम् ।
+दा. १२८
(४) पैतृकं स्वपितृसंबन्धि, अनवाप्तं स्वोद्यमेनापि स्वपित्रा, प्राप्नुयात् महता यत्नेन, अकामो न विभजेन्न विभजेत । एवं च स्वयमतिप्रयत्नाऽनुपार्जितं पितृद्रव्यं पुत्राणामिच्छयापि विभजेदित्युक्तम् । ततः परं च ' तत्र स्यात् सदृशं स्वाम्यमिति याज्ञवल्क्य - वचनम् | वि. (५) यत्पुनः पितृसंबन्धि धनं तेनासामर्थ्येनोपेक्षित
* पमा. मितागतम् । + विर, दात दागतम् ।
1
समु.
(६) पितृद्रव्यमपि परग्रस्तं यत्पित्राऽभ्युद्धृतं यच्च स्वयमर्जितं तत्रोभयत्रापि पितुरिच्छ्यैव विभागो न त्वनिच्छयेत्यर्थः । विचि. १९६
(७) एतत्पुत्राणां समुत्थानकृतविभागे । स्वयंकृतविभागे तु 'विभागं चेत्पिता कुर्यादिच्छ्या विभजे - त्सुतानिति ।
+मच.
(८) स्वयमर्जितमिवेतीवशब्दाध्याहारेण योज्यम् | यद्वा तत् पितामहागतमनेनैवोद्धृतमतः स्वार्जितमेव जातं यत इति हेतुतया योज्यम् ।
व्यप्र. ४५०
(९) स्वयमर्जितमित्यस्यान्वयासंभवात्, यथाश्रुते चशब्दाभावेन वाक्यभेदासंभवाच्च दृष्टान्तवेत्याह । स्वार्जितमिवेति । अकामः विभागानिच्छुः । एतेन 'चेत्स्वयं विद्याशौर्यादिना स्वयमर्जितम्' इति व्याख्यानं मेधातिथ्यादेरपास्तम् । बाल. २।१२१ संभूयार्जितं पित्रा समं विभाज्यम् भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् । न तत्र भागं विषमं पिता दद्यात्कथंचन । (१) यदुक्तं, 'न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः' इति, तस्यास्मिन् विषये प्रतिषेधः । सहोत्थानं, सर्व एव धनमर्जयन्तीत्यर्थः । कश्चित् कृष्यादिना कश्चित्प्रतिग्रहेण कश्चित्सेवया कश्चिद्यथाहृतं परिरक्षति यथोपयोगमसंनिहितेषु विनियुङ्क्ते, तत्सर्वमेकीकृत्य समं विभजनीयम् । न स्नेहादिना कस्मैचित्पित्राऽधिकं देयम् । X मेधा. (२) यदि पुनः पितरि जीवति पुत्रा एव विभागमर्थयन्ते तदा विषमविभागः पित्रा न दातव्यः । तदाह मनुः -- भ्रातॄणामिति उद्धारस्तु तदा पित्रा दातव्य
x ममु. मेधागतम् ।
+
शेषं ममुगतम् । (१) मस्मृ. ९।२१५ तत्र (पुत्र); दा. ५७; अप. २।११४, १२० व्यक. १४१ भागं विषमं (विषमं भागं ); विर. ४६८ व्यकवत् ; स्मृसा. ५५ व्यकवत् ; विचि. २०१ दद्या (कुर्या ) शेषं व्यकवत् ; दात. १६५; चन्द्र. ७० भवेत्सह ( समं भवेत् ); व्यप्र. ४४१ व्यकवत् ; सेतु. ७२; विभ.४६ पू. : ८१; समु. १२७; विच.५५.